Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 9 / Mantra 38

38 Mantra
9/38
Devata- रक्षोघ्नो देवता Rishi- देवावत ऋषिः Chhand- भूरिक ब्राह्मी बृहती, Swara- मध्यमः
Mantra with Swara
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम्। उ॒पा॒शोर्वी॒र्येण जुहोमि ह॒तꣳ रक्षः॒ स्वाहा॒ रक्ष॑सां त्वा व॒धायाव॑धिष्म॒ रक्षोऽव॑धिष्मा॒मुम॒सौ ह॒तः॥३८॥

दे॒वस्य॑। त्वा॒। स॒वि॒तुः। प्र॒स॒व इति॑ प्रऽस॒वे। अ॒श्विनोः॑। बा॒हुभ्या॒मिति॑ बा॒हुऽभ्या॑म्। पू॒ष्णः। हस्ता॑भ्याम्। उ॒पा॒शोरित्यु॑पऽअ॒ꣳशोः। वी॒र्येण। जु॒हो॒मि॒। ह॒तम्। रक्षः॑। स्वाहा॑। रक्ष॑साम्। त्वा॒। व॒धाय॑। अव॑धिष्म। रक्षः॑। अव॑धिष्म। अ॒मुम्। अ॒सौ। ह॒तः ॥३८॥

Mantra without Swara
देवस्य त्वा सवितुः प्रसवे श्विनोर्बाहुभ्याम्पूष्णो हस्ताभ्याम् । उपाँशोर्वीर्येण जुहोमि हतँ रक्षः स्वाहा रक्षसान्त्वा वधायावधिष्म रक्षोवधिष्मामुमसौ हतः ॥

देवस्य। त्वा। सवितुः। प्रसव इति प्रऽसवे। अश्विनोः। बाहुभ्यामिति बाहुऽभ्याम्। पूष्णः। हस्ताभ्याम्। उपाशोरित्युपऽअꣳशोः। वीर्येण। जुहोमि। हतम्। रक्षः। स्वाहा। रक्षसाम्। त्वा। वधाय। अवधिष्म। रक्षः। अवधिष्म। अमुम्। असौ। हतः॥३८॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(देवस्य) प्रकाशितन्यायस्य (त्वा) त्वाम् (सवितुः) ऐश्वर्य्योत्पादकस्य सेनेशस्य (प्रसवे) ऐश्वर्ये (अश्विनो:) सूर्याचन्द्रमसोरिव सभासेनापत्योः (बाहुभ्याम्) (पूष्णः) पुष्टिकर्तुर्वेद्यस्य (हस्ताभ्याम्) (उपांशोः) उप=समीपेऽनीति तस्य । अत्रानधातोरु: शुगागमश्च (वीर्य्येण) सामर्थ्येन (जुहोमि) गृह्णामि (हतम्) विनष्टम् (रक्षः) राक्षसम्।रक्षो रक्षितव्यमस्माद्रहसि क्षणोतीति वा रात्रौ नक्षत इति वा ।। निरु० ४ । १८ ॥ (स्वाहा ) सत्यया क्रियया (रक्षसाम्) दुष्टानाम् (त्वा) त्वाम् (बधाय) विनाशाय (अवधिष्म) हन्याम (रक्षः) दुष्टाचारम् (अवधिष्म) ताडयेम (अमुम्) परोक्षम् (असौ) दूरस्थ: (हतः) विनष्टः ॥ अयं मन्त्रः शत० ५ । २ । ४ । १७-२० व्याख्यातः ॥ ३८ ॥
Essence
प्रजास्थजना: स्वरक्षणाय, दुष्टनिवारणाय, विद्याधर्मप्रवृत्तये च सुशीलं राजानं स्वीकुर्युः ॥ ९ । ३८ ॥
Subject
प्रजाजना इह कीदृशं सभाधीशं राजानं स्वीकुर्युरित्याह ॥
Meaning of Anvay
हे राजन् ! अह स्वाहा सत्यया क्रियया सवितुः ऐश्वर्य्योत्पादकस्य सेनेशस्य देवस्य प्रकाशितन्यायस्य प्रसवे ऐश्वर्ये उपांशोः उप=समीपेऽनीति, तस्य वीर्य्येण सामर्थ्येन अश्विनोः सूर्य्याचन्द्रमसोरिव सभासेनापत्योः बाहुभ्यां, पूष्णः पुष्टिकर्त्तुर्वैद्यस्य हस्ताभ्यां रक्षसां दुष्टानां वधाय विनाशाय त्वा त्वां जुहोमि गृह्णामि।
यथा त्वया [अमुम्] परोक्षं रक्षः राक्षसं=हतं विनष्टंतथा वयमप्यवधिष्म हन्याम ।
यथासौ दूरस्थः हतः विनष्टः स्यात्, तथा वयमेतं [रक्षः] दुष्टाचारम् अवधिष्म ताडयेम ॥ ९ । ३८ ॥
[हे राजन् ! अहं.......रक्षसां वधाय त्वा जुहोमि]
Special
देववातः। रक्षोघ्नः=रक्षसां हन्ता राजा ॥ स्वराड्ब्राह्मी बृहतो। मध्यमः॥