Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 9 / Mantra 37

38 Mantra
9/37
Devata- अग्निर्देवता Rishi- देवावत ऋषिः Chhand- निचृत् अनुष्टुप्, Swara- गान्धारः
Mantra with Swara
अग्ने॒ सह॑स्व॒ पृ॑तनाऽअ॒भिमा॑ती॒रपा॑स्य। दु॒ष्टर॒स्तर॒न्नरा॑ती॒र्वर्चो॑ धा य॒ज्ञवा॑हसि॥३७॥

अग्ने॑। सह॑स्व। पृत॑नाः। अ॒भिमा॑ती॒रित्य॒भिऽमा॑तीः। अप॑। अ॒स्य॒। दु॒ष्टरः॑। दु॒ष्तर॒ इति॑ दुः॒ऽतरः॑। तर॒न्। अरा॑तीः। वर्चः॑। धाः॒। य॒ज्ञवा॑ह॒सीति॑ य॒ज्ञऽवा॑हसि ॥३७॥

Mantra without Swara
अग्ने सहस्व पृतनाऽअभिमातीरपास्य । दुस्टरस्तरन्नरातीर्वर्चाधा यज्ञवाहसि ॥

अग्ने। सहस्व। पृतनाः। अभिमातीरित्यभिऽमातीः। अप। अस्य। दुष्टरः। दुष्तर इति दुःऽतरः। तरन्। अरातीः। वर्चः। धाः। यज्ञवाहसीति यज्ञऽवाहसि॥३७॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(अग्ने) सकलविद्याविद्विद्वन् राजन् ! (सहस्व) क्षमस्व (पृतनाः) बलसुशिक्षान्विता वीरमनुष्यसेना: (अभिमाती:) अभिमानहर्षयुक्ता: (अप) (अस्य) दूरे प्रक्षिप (दुष्टर:) दुःखेन तरितुं=सप्तवितुं योग्यः (तरन्) शत्रुबलंसंप्लवन् (अराती:) अदानशीलान् शत्रून् (वर्चः) विद्याबलन्यायदीपनम् (धाः) धेहि (यज्ञवाहसि) यज्ञान्=संगतान् राजधर्मादीन् वहन्ति यस्मिन् राज्ये तस्मिन्॥ अयं मन्त्रः शत० ५। २ । ४ । १६ व्याख्यातः ॥ ३७ ॥
Essence
राजादयः, सभासेनादयः स्वकीयेन दृढेन, विद्यासुशिक्षायुक्तेन, धृतेन सैन्येन सहिताः, स्वयमजयाः सन्तः, शत्रून् विजयमानाः पृथिव्यां कीर्तिं प्रसारयेयुः ॥ ९। ३७ ।।
Subject
पुनरपि राजादिभिः कथं वर्त्तितव्यमित्युपदिश्यते ॥
Meaning of Anvay
हे अग्ने ! सकलविद्याविद्विद्वन् राजन् ! दुष्टरः दुःखेन तरितुं=संप्लवितुं योग्यः तरन् शत्रुबलं संप्लवन् त्वंयज्ञवाहसि यज्ञान्=संगतान् राजधर्मादीन् वहन्ति यस्मिन् राज्ये तस्मिन् अभिमातीः अभिमानहर्षयुक्ताः [पृतना:] बलसुशिक्षान्विता वीरमनुष्यसेनाः वीरमनुष्यसेनाः [सहस्व] क्षमस्व [अराती:] अदानशीलान् शत्रून् अपास्य दूरे प्रक्षिप, वर्चः विद्याबलन्यायदीपनं धाः धेहि ।। ९ । ३७ ।।
[हे अग्ने! दुष्टस्तरँस्त्वं यज्ञवाहस्याभिमातीः [पृतना:] [सहस्व] [अराती:] अपास्य वर्चो धा:]
Special
देववातः । अग्निः=विद्वान् राजा।।निचृदनुष्टुप् । गान्धारः ।।