Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 9 / Mantra 35

38 Mantra
9/35
Devata- विश्वेदेवा देवताः Rishi- वरुण ऋषिः Chhand- विराट् उत्कृति Swara- षड्जः
Mantra with Swara
ए॒ष ते॑ निर्ऋते भा॒गस्तं जु॑षस्व॒ स्वाहा॒ऽग्निने॑त्रेभ्यो दे॒वेभ्यः॑ पुरः॒सद्भ्यः॒ स्वाहा॑ य॒मने॑त्रेभ्यो दे॒वेभ्यो॑ दक्षिणा॒सद्भ्यः॒ स्वाहा॑ वि॒श्वदे॑वनेत्रेभ्यो दे॒वेभ्यः॑ पश्चा॒त्सद्भ्यः॒ स्वाहा॑ मि॒त्रावरु॑णनेत्रेभ्यो वा म॒रुन्ने॑त्रेभ्यो वा दे॒वेभ्य॑ऽउत्तरा॒सद्भ्यः॒ स्वाहा॒ सोम॑नेत्रेभ्यो दे॒वेभ्य॑ऽउपरि॒सद्भ्यो॒ दुव॑स्वद्भ्यः॒ स्वाहा॑॥३५॥

ए॒षः। ते॑ नि॒र्ऋ॒त इति॑ निःऽऋते। भा॒गः। तम्। जु॒ष॒स्व॒। स्वाहा॑। अ॒ग्निने॑त्रेभ्य॒ इत्य॒ग्निऽने॑त्रेभ्यः। दे॒वेभ्यः॑। पु॒रः॒सद्भ्य॒ इति॑ पुरःसत्ऽभ्यः॑। स्वाहा॑। य॒मने॑त्रेभ्य॒ इति॑ य॒मऽने॑त्रेभ्यः। दे॒वेभ्यः॑। द॒क्षि॒णा॒सद्भ्य॒ इति॑ दक्षिणा॒सत्ऽभ्यः॑। स्वाहा॑। वि॒श्वदे॑वनेत्रेभ्य॒ इति॑ वि॒श्वदे॑वऽनेत्रेभ्यः। दे॒वेभ्यः॑। प॒श्चात्सद्भ्य॒ इति॑ पश्चा॒त्सत्ऽभ्यः॑। स्वाहा॑। मि॒त्रावरु॑णनेत्रेभ्य॒ इति॑ मि॒त्रावरु॑णऽनेत्रेभ्यः। वा॒। म॒रुन्ने॑त्रेभ्य॒ इति॑ म॒रुत्ऽने॑त्रेभ्यः। वा॒। दे॒वेभ्यः॑। उ॒त्त॒रा॒सद्भ्य॒ इत्यु॑त्तरा॒सत्ऽभ्यः॑। स्वाहा॑। सोम॑नेत्रेभ्य॒ इति॑ सोम॑ऽनेत्रेभ्यः। दे॒वेभ्यः॑। उ॒प॒रि॒सद्भ्य॒ इत्यु॑परि॒सत्ऽभ्यः॑। दुव॑स्वद्भ्य॒ इति॑ दुव॑स्वत्ऽभ्यः। स्वाहा॑ ॥३५॥

Mantra without Swara
एष ते निरृते भागस्तञ्जुषस्व स्वाहाग्निनेत्रेभ्यो देवेभ्यः पुरःसद्भ्यः स्वाहा यमनेत्रेभ्यो देवेभ्यो दक्षिणासद्भ्यः स्वाहा विश्वदेवनेत्रेभ्यो देवेभ्यो पश्चात्सद्भ्यः स्वाहा मित्रावरुणनेत्रेभ्यो वा मरुन्नेत्रेभ्यो वा देवेभ्य उत्तरासद्भ्यः स्वाहा सोमनेत्रेभ्यो देवेभ्य ऽउपरिसद्भ्यो दुवस्वद्भ्यः स्वाहा ॥

एषः। ते निर्ऋत इति निःऽऋते। भागः। तम्। जुषस्व। स्वाहा। अग्निनेत्रेभ्य इत्यग्निऽनेत्रेभ्यः। देवेभ्यः। पुरःसद्भ्य इति पुरःसत्ऽभ्यः। स्वाहा। यमनेत्रेभ्य इति यमऽनेत्रेभ्यः। देवेभ्यः। दक्षिणासद्भ्य इति दक्षिणासत्ऽभ्यः। स्वाहा। विश्वदेवनेत्रेभ्य इति विश्वदेवऽनेत्रेभ्यः। देवेभ्यः। पश्चात्सद्भ्य इति पश्चात्सत्ऽभ्यः। स्वाहा। मित्रावरुणनेत्रेभ्य इति मित्रावरुणऽनेत्रेभ्यः। वा। मरुन्नेत्रेभ्य इति मरुत्ऽनेत्रेभ्यः। वा। देवेभ्यः। उत्तरासद्भ्य इत्युत्तरासत्ऽभ्यः। स्वाहा। सोमनेत्रेभ्य इति सोमऽनेत्रेभ्यः। देवेभ्यः। उपरिसद्भ्य इत्युपरिसत्ऽभ्यः। दुवस्वद्भ्य इति दुवस्वत्ऽभ्यः। स्वाहा॥३५॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(एषः) पूर्वापरप्रतिपादितः (ते) तव (निर्ॠते) नितरामृतं=सत्यमाचरणं यस्मिन् तत्सम्बुद्धौ (भागः) भजनीय:= सेवितुं योग्यः (तम्) (जुषस्व) सेवस्व (स्वाहा) सत्यां वाचम् (अग्निनेत्रेभ्यः) अग्नेः प्रकाश इव नेत्रं=नयनं येषान्तेभ्यः (देवेभ्यः) धार्मिकेभ्यो विद्वद्भ्यः (पुरःसद्भ्यः) ये पुरः=पूर्वं सभायां राष्ट्रे वा सीदन्ति तेभ्यः (स्वाहा) धर्म्यां क्रियाम् (यमनेत्रेभ्यः) यमस्य=वायोर्नेत्रं=नयनमिव नीतिर्येषां तेभ्यः (देवेभ्यः) विपश्चिद्भ्यः (दक्षिणासद्भ्यः) ये दक्षिणस्यां दिशि सीदन्ति तेभ्यः (स्वाहा) दानक्रियाम् (विश्वदेवनेत्रेभ्यः) सर्वं विद्वत्तुल्या नेत्रा=नीतिर्येषां तेभ्यः (देवेभ्यः) दिव्यसुखप्रदेभ्यः (पश्चात्सदभ्यः) ये पश्चात्सीदन्ति तेभ्यः (स्वाहा) उत्साहकारिकां वाचम् (मित्रावरुणनेत्रेभ्यः) प्राणापानतुल्येभ्यः (वा) पक्षान्तरे (मरुन्नेत्रेभ्यः) मरुतामृत्विजां प्रजास्थानां सज्जनानां वा नेत्रमिव नायकत्वं येषां तेभ्यः (वा) (देवेभ्यः) दिव्यन्यायप्रकाशकेभ्यः (उत्तरासद्भ्यः) य उत्तरस्यां दिशि सीदन्ति तेभ्यः (स्वाहा) दौत्यकुशलताम् (सोमनेत्रेभ्यः) सोमस्य=चन्द्रस्यैश्वर्य्यवतीं नेत्रं=नयनमिव नीतिर्येषां तेभ्यः (देवेभ्यः) सकलविद्याप्रचारकेभ्यः (उपरिसद्भ्यः) सर्वोपरि विराजमानेभ्यः (दुवस्वद्भ्यः) विद्याविनयधर्मेश्वरान् सेवमानेभ्यः (स्वाहा) आप्तवाणीम्।। अयं मन्त्रः शत० ५ । २ । ३ । ३-१० ॥५ । २ । ४।१-५ व्याख्यातः ॥ ३५ ॥
Essence
हे राजन् सभाध्यक्ष ! यदा भवान् सर्वतो विद्वद्भ्यः परिवृतः, प्राप्तशिक्षः, कृतसभो, रक्षितसेनः, सुसहायःसन् सनातन्या वेदोक्तया राजधर्मनीत्या प्रजाः पालयेत्तदेवेहामुत्रं च सुखमेव प्राप्नुयात् ।
एतद् विरुद्धश्चेत्तर्हि ते कुतः सुखमिति, नहि मूर्खसहायः सुखमेधते, न खलु विद्वदुपदेशानुगामी कदाचित्सुखं जहात्यस्मद्राजा सदैव विद्याधर्माप्तसहायेन राज्यं रक्षेत् ।
यस्य सभायां राज्ये वा पूर्णविद्या धार्मिका वर्त्तन्ते, मिथ्यावादिनो व्यभिचारिणोऽजितेन्द्रियाः परुषवाचोऽन्यायचारा: स्तेना दस्यवश्च न सन्ति, स्वयमप्येवं भूतोऽस्ति, स एव चक्रवर्त्तिराज्यं कर्तुमर्हति नातो विरुद्धो जन इति बोध्यम् ॥ ९ । ३५ ।।
Subject
कीदृग्जनः साम्राज्यं सेवितुं योग्यो जायत इत्याह ।।
Meaning of Anvay
हे निर्ऋते ! नितरामृतं=सत्याचरणं यस्मिन् तत्सम्बुद्धौ राजन् ! ते=तव य एषः पूर्वापर प्रतिपादितः भागः= भजनीयः सेवितुं योग्यः न्यायोऽस्ति, तमग्निनेत्रेभ्यः अग्ने: प्रकाश इव नेत्रं=नयनं येषां तेभ्यः देवेभ्यः धार्मिकेभ्यो विद्वद्भ्यः स्वाहा सत्यां वाचं,
पुरःसद्भ्यः ये पुरः=पूर्वं सभायां राष्ट्रे वा सीदन्ति तेभ्य: देवेभ्यः स्वाहा धर्म्यां क्रियाम्,
यमनेत्रेभ्यः यमस्य=वायोर्नेत्रं=नयनमिव नीतिर्येषां तेभ्यः दक्षिणासद्भ्यः ये दक्षिणस्यां दिशिसीदन्ति तेभ्यः देवेभ्य: विपश्चिद्भ्यः स्वाहा दानक्रियाम्,
विश्वदेवनेत्रेभ्यः सर्वविद्वत्तुल्या नेत्रा=नीतिर्येषां तेभ्यः पश्चात्सद्भ्यः ये पश्चात्सीदन्ति तेभ्यः देवेभ्यः दिव्यसुखप्रदेभ्यः स्वाहा उत्साहकारिकां वाचम्,
मित्रावरुणनेत्रेभ्यः प्राणापानतुल्येभ्यः वा पक्षान्तरे मरुन्नेत्रेभ्यः मरुताम्=ऋत्विजां प्रजास्थानां सज्जनानां वा नेत्रमिव नायकत्वं येषां तेभ्यः वा, उत्तरासद्भ्यः य उत्तरस्यां दिशि सीदन्ति तेभ्यः देवेभ्यः दिव्यन्यायप्रकाशकेभ्यः स्वाहा दौत्यकुशलताम् ।
सोमनेत्रेभ्यः सोमस्य=चन्द्रस्यैश्वर्य्यवतीनेत्रं=नयनमिव नीतिर्येषां तेभ्यः उपरिसद्भ्यः सर्वोपरिविराजमानेभ्यः दुवस्वद्भ्यः विद्याविनयधर्मेश्वरान् सेवमानेभ्यः देवेभ्यः सकलविद्याप्रचारकेभ्यः स्वाहाआप्तवाणींच प्राप्य त्वं धर्मेण राज्यं सदा जुषस्व सेवस्व ॥ ९ । ३५ ।।
[हे.......राजन् ! ते=तव भाग:=भजनीयो न्यायोऽस्ति, ते........देवेभ्यः........प्राप्य त्वं धर्मेणराज्यं सदा जुषस्व]
Special
वरुणः । विश्वेदेवाः=राजादि विद्वांसः ॥ निचृदुत्कृतिः । षड्जः ।।