Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 9 / Mantra 34

38 Mantra
9/34
Devata- वस्वादयो मन्त्रोक्ता देवताः Rishi- तापस ऋषिः Chhand- निचृत् जगती,निचृत् धृति, Swara- ऋषभः
Mantra with Swara
वस॑व॒स्त्रयो॑दशाक्षरेण त्रयोद॒शꣳ स्तोम॒मुद॑जयँ॒स्तमुज्जे॑षꣳ रु॒द्राश्चतु॑र्दशाक्षरेण चतुर्द॒शꣳ स्तोम॒मुद॑जयँ॒स्तमुज्जे॑षमादि॒त्याः पञ्च॑दशाक्षरेण पञ्चद॒शꣳ स्तोम॒मुद॑जयँ॒स्तामुज्जे॑ष॒मदि॑तिः॒ षोड॑शाक्षरेण षोड॒शꣳस्तोम॒मुद॑जय॒त् तमुज्जे॑षं प्र॒जाप॑तिः स॒प्तद॑शाक्षरेण सप्तद॒शꣳ स्तोम॒मुद॑जय॒त् तमुज्जे॑षम्॥३४॥

वस॑वः। त्रयो॑दशाक्षरे॒णेति॒ त्रयो॑दशऽअक्षरेण। त्र॒यो॒द॒शमिति॑ त्रयःऽद॒शम्। स्तोम॑म्। उत्। अ॒ज॒य॒न्। तम्। उत्। जे॒ष॒म्। रु॒द्राः। चतु॑र्दशाक्षरे॒णेति॒ चतु॑र्दशऽअक्षरेण। च॒तु॒र्द॒शमिति॑ चतुःऽद॒शम्। स्तोम॑म्। उत्। अ॒ज॒य॒न्। तम्। उत्। जे॒ष॒म्। आ॒दि॒त्याः। पञ्च॑दशाक्षरे॒णेति॒ पञ्च॑दशऽअक्षरेण। प॒ञ्च॒द॒शमिति॒ पञ्चऽद॒शम्। स्तोम॑म्। उत्। अ॒ज॒य॒न्। तम्। उत्। जे॒ष॒म्। अदि॑तिः। षोड॑शाक्षरे॒णेति॒ षोड॑शऽअक्षरेण। षो॒ड॒शम्। स्तोम॑म्। उत्। अ॒ज॒यत्। तम्। उत्। जे॒ष॒म्। प्र॒जाप॑ति॒रिति॑ प्र॒जाऽप॑तिः। स॒प्त॑दशाक्षरे॒णेति स॒प्तद॑शऽअक्षरेण। स॒प्त॒द॒श॒मिति॑ सप्तऽद॒शम्। स्तोम॑म्। उत्। अ॒ज॒य॒त्। तम्। उत्। जे॒ष॒म् ॥३४॥

Mantra without Swara
वसवस्त्रयोदशाक्षरेण त्रयोदशँ स्तोममुदजयँस्तमुज्जेषँ रुद्राश्चतुर्दशाक्षरेण चतुर्दशँ स्तोममुदजयँस्तमुज्जेषमादित्याः पञ्चदशाक्षरेण पञ्चदशँ स्तोममुदजयँस्तमुज्जेषमदितिः षोडशाक्षरेण षोडशँ स्तोममुदजयत्तमुज्जेषम्प्रजापतिः सप्तदशाक्षरेण सप्तदशँ स्तोममुदजयत्तमुज्जेषम् ॥

वसवः। त्रयोदशाक्षरेणेति त्रयोदशऽअक्षरेण। त्रयोदशमिति त्रयःऽदशम्। स्तोमम्। उत्। अजयन्। तम्। उत्। जेषम्। रुद्राः। चतुर्दशाक्षरेणेति चतुर्दशऽअक्षरेण। चतुर्दशमिति चतुःऽदशम्। स्तोमम्। उत्। अजयन्। तम्। उत्। जेषम्। आदित्याः। पञ्चदशाक्षरेणेति पञ्चदशऽअक्षरेण। पञ्चदशमिति पञ्चऽदशम्। स्तोमम्। उत्। अजयन्। तम्। उत्। जेषम्। अदितिः। षोडशाक्षरेणेति षोडशऽअक्षरेण। षोडशम्। स्तोमम्। उत्। अजयत्। तम्। उत्। जेषम्। प्रजापतिरिति प्रजाऽपतिः। सप्तदशाक्षरेणेति सप्तदशऽअक्षरेण। सप्तदशमिति सप्तऽदशम्। स्तोमम्। उत्। अजयत्। तम्। उत्। जेषम्॥३४॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(वसवः) कृतचतुर्विंशतिवर्षब्रह्मचर्येण गृहीतविद्याः (त्रयोदशाक्षरेण) आसुर्याऽनुष्टुभा (त्रयोदशम्) दशप्राणजीवमहत्तत्वानां संख्यापूरकमव्यक्तं कारणम् (स्तोत्रम्) स्तोतुं योग्यम्(उत्) (अजयन्) (तम्) (उत्) (जेषम्) (रुद्राः) कृतेन चतुश्चत्वारिंशद्वर्षब्रह्मचर्येस्णाधीतविद्याः (चतुर्दशाक्षरेरण) साम्न्युष्णिहा (चतुर्दशम्) दशेन्द्रियमनोबुद्धिचित्तानां संख्यापूरकमहङ्कारम् (स्तोमम्) स्तवनीयम् (उत्) (अजयन्) (तम्) (उत्) (जेषम्) (आदित्याः) समाचरितेनाष्टचत्वारिंशद्वर्षपरिमितब्रह्मचर्येस्ण गृहीतसमस्तविद्याः (पञ्चदशाक्षरेण) आसुर्य्या गायत्र्या (पञ्चदशम्) चत्वारो वेदाश्चत्वार उपवेदाः षडङ्गानि च मिलित्वा चर्तुदशविद्यास्तासां संख्यापूरकं क्रियाकौशलम् (स्तोमम्) स्तोतुमर्हम् (उत्) (अजयत्) (तम्) (उत्) (जेषम्) (अदितिः) अविद्यमाना दितिर्नाशो यस्याः सा राजपत्नी (षोडशाऽक्षरेण) साम्न्यानुष्टुभा (षोडशम्) प्रमाणादिपदार्थसमूहम् (स्तोमम्) प्रशंसनीयम् (उत्) (अजयत्) (तम्) (उत्) (जेषम्) (प्रजापतिः) प्रजाया: पालकः (सप्तदशाक्षरेण) निचृदार्च्या गायत्र्या (सप्तदशम्) चत्वारो वर्णाश्चत्वार आश्रमाः श्रवणमनननिदिध्यासनानि च कर्माणि। अलब्धस्य लिप्सा, लब्धस्य प्रयत्नेन रक्षणं, रक्षितस्य वृद्धिः, वृद्धस्य सन्मार्गे सर्वोपकारके सत्कर्मणि व्ययकरणमेव चतुर्विधः पुरुषार्थ:, मोक्षाऽनुष्ठानं चेति सप्तदशम् (स्तोमम्) अतिप्रशंसनीयम् (उत्) उत्कृष्टरीत्या (अजयत्) उत्कर्षेत् (तम्) (उत्) उत्कृष्टरीत्या (जेषम्) ॥ मन्त्रोऽयं शत० ५ । २ । २ । १७ व्याख्यातः ॥ ३४ ॥
Essence
हे मनुष्याः ! एतैश्चतुर्भिर्मन्त्रैर्यावान् राजप्रजाधर्मो विहितस्तमनुष्ठाय यूयं सुखिनोभवत ॥ ९। ३४ ।।
Subject
पुनरपि राजप्रजाधर्मकृत्यमाह ।।
Meaning of Anvay
हे राजादयः सभ्या वसवः=विद्वांसो जनाः! कृतचतुर्विंशतिवर्षब्रह्मचर्येण गृहीतविद्याः भवन्तो यथा त्रयोदशाक्षरेणआसुर्याऽनुष्टुभा यं त्रयोदशं दशप्राणजीवमहत्तत्त्वानां संख्यापूरकमव्यक्तं कारणं स्तोमं स्तोतुं योग्यम् उदजयंस्तथा [तम्] अब्रहमप्युज्जेषम् ।
हे बलवीर्य्यवन्तः पुरुषार्थिनो रुद्राः! कृतेन चतुश्चत्वारिंशद्वर्षब्रह्मचर्य्येणाधीतविद्याः। भवन्तो यथा चतुर्दशाक्षरेण साम्न्युष्णिहा यं चतुर्दशं दशेन्द्रियमनोबुद्धिचित्तानां संख्या: पूरकमहङ्कारं स्तोमं स्तवनीयम्उदजयंस्तथा तमहमप्युज्जेषम् ।
हे पूर्णविद्यया शरीरात्माऽस्विलबला आदित्याः! समाचरितेनाष्टचत्वारिंशद्वर्षपरिमितब्रह्मचर्येण गृहीतसमस्तविद्याः! भवन्तो यथा पञ्चदशाक्षरेण आसुर्य्यायंपञ्चदशं चत्वारो वेदाश्चत्वार उपवेदाः षडङ्गानि चमिलित्वा चतुर्दशविद्यास्तासांसंख्यापूरकं क्रियाकौशलं स्तोमं स्तोतुमर्हम् उदजयेस्तथा तमहमत्युज्जेषम् ।
हे सभाध्यक्षस्य राज्ञःपत्न्यदिते=अखण्डितैश्वर्य्या अविद्यमाना दितिः=नाशो यस्याः सा राजपत्नी भवती यथा षोडशाऽक्षरेण साम्न्याऽनुष्टुभा यं षोडशं प्रमाणादिपदार्थसमूहंस्तोमं प्रशंसनीयम् उदजयत् तथा तमहमप्युज्जेषम् ।
हे सर्वाभिरक्षक सज्जन नरेश! प्रजापतिः प्रजाया: पालकः भवान् यथा सप्तदशाक्षरेण निचृदार्च्या गायत्र्या यं सप्तदशं चत्वारो वर्णाश्चत्वारआश्रमाः श्रवणमनननिदिध्यासनानि [साक्षात्कारश्च] कर्माणि अलब्धस्य लिप्सा, लब्धस्य प्रयत्नेन रक्षणं, रक्षितस्य वृद्धिः, वृद्धस्य सन्मार्गे सर्वोपकारके सत्कर्मणि व्ययकरणमेष चतुर्विधः पुरुषार्थः, मोक्षानुष्ठानं चेति सप्तदशं स्तोमम् अतिप्रशंसनीयम् उदजयत् उत्कृष्टुरीत्योत्कर्षत्, तथा तमहमप्युज्जेषम् ॥ ९ । ३४ ॥
[हे राजादयः सभ्या वसवः=विद्वांसो जनाः! भवन्तो यथा.......स्तोममुदजयँस्तथा [तम्] अहमप्युज्जेषम्.....]
Special
तापसः । वस्वादयो मन्त्रोक्ता देवताः=स्पष्टम्।। वसव इत्यस्य निचृज्जगती।निषाद: । आदित्या इत्यस्य निचृद्धृतिः । ऋषभः ।।