Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 9 / Mantra 33

38 Mantra
9/33
Devata- मित्रादयो मन्त्रोक्ता देवताः Rishi- तापस ऋषिः Chhand- कृति, Swara- निषादः
Mantra with Swara
मि॒त्रो नवा॑क्षरेण त्रि॒वृत॒ꣳ स्तोम॒मुद॑जय॒त् तमुज्जे॑षं॒ वरु॑णो॒ दशा॑क्षरेण वि॒राज॒मुद॑जय॒त् तामुज्जे॑ष॒मिन्द्र॒ऽएका॑दशाक्षरेण त्रि॒ष्टुभ॒मुद॑जय॒त् तामुज्जे॑षं॒ विश्वे॑ दे॒वा द्वाद॑शाक्षरेण॒ जग॑ती॒मुद॑जयँ॒स्तामुज्जे॑षम्॥३३॥

मि॒त्रः। नवा॑क्षरे॒णेति॒ नव॑ऽअक्षरेण। त्रि॒वृत॒मिति॒ त्रि॒ऽवृत॑म्। स्तोम॑म्। उत्। अ॒ज॒य॒त्। तम्। उत्। जे॒ष॒म्। वरु॑णः। दशा॑क्षरे॒णेति॒ दश॑ऽअक्षरेण। वि॒राज॒मिति॒ वि॒ऽराज॑म्। उत्। अ॒ज॒य॒त्। ताम्। उत्। जे॒ष॒म्। इन्द्रः॑। एका॑दशाक्षरे॒णेत्येका॑दशऽअक्षरेण। त्रि॒ष्टुभ॑म्। त्रि॒स्तुभ॒मिति॑ त्रि॒ऽस्तुभ॑म्। उत्। अ॒ज॒य॒त्। ताम्। उत्। जे॒ष॒म्। विश्वे॑। दे॒वाः। द्वाद॑शाक्षरे॒णेति॒ द्वाद॑शऽअक्षरेण। जग॑तीम्। उत्। अ॒ज॒य॒न्। ताम्। उत्। जे॒ष॒म् ॥३३॥

Mantra without Swara
मित्रो नवाक्षरेण त्रिवृतँ स्तोममुदजयत्तमुज्जेषँवरुणो दशाक्षरेण विराजमुदजयत्तामुज्जेषमिन्द्र ऽएकादशाक्षरेण त्रिष्टुभमुदजयत्तामुज्जेषँविश्वे देवा द्वादशाक्षरेण जगतीमुदजयँस्तामुज्जेषम् ॥

मित्रः। नवाक्षरेणेति नवऽअक्षरेण। त्रिवृतमिति त्रिऽवृतम्। स्तोमम्। उत्। अजयत्। तम्। उत्। जेषम्। वरुणः। दशाक्षरेणेति दशऽअक्षरेण। विराजमिति विऽराजम्। उत्। अजयत्। ताम्। उत्। जेषम्। इन्द्रः। एकादशाक्षरेणेत्येकादशऽअक्षरेण। त्रिष्टुभम्। त्रिस्तुभमिति त्रिऽस्तुभम्। उत्। अजयत्। ताम्। उत्। जेषम्। विश्वे। देवाः। द्वादशाक्षरेणेति द्वादशऽअक्षरेण। जगतीम्। उत्। अजयन्। ताम्। उत्। जेषम्॥३३॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(मित्रः) सर्वस्य सुहृत् (नवाक्षरेण) याजुष्या बृहत्या (त्रिवृतम्) कर्मोपासनाज्ञानयुक्तम् (स्तोमम्) स्तोतुं योग्यम् (उत्) (अजयत्) (तम्) (उत्) (जेषम्) (वरुणः) श्रेष्ठ: (दशाक्षरेण) याजुष्या पंक्त्या (विराजम्) विराट्छन्दोवाच्यम् (उत्) (अजयत्) (ताम्) (उत्) (जेषम्) (इन्द्रः) परमैश्वर्यवान् (एकादशाक्षरेण) आसुर्य्या पंक्त्या (त्रिष्टुभम्) त्रिष्टुप्छन्दो वाच्यम् (उत्) (अजयत्) (ताम्) (उत्) (जेषम्) (विश्वे) सर्वे (देवा:) विद्वांसः (द्वादशाक्षरेण) साम्न्या गायत्र्या (जगतीम्) एतच्छन्दोऽभिहितां नीतिम् (उत्) (अजयन्) (ताम्) (उत्) (जेषम्) ॥ ३३ ॥
Essence
राजजना: सर्वेषु प्राणिषु मैत्रीं विधाय सुशिक्षयोत्कृष्टान् विदुषः सम्पादयेयुर्यतस्ते ऐश्वर्यभागिनो भूत्वा राजभक्ता भवेयुः ॥९ । ३३ ॥
Subject
राज्ञः सत्याचाराऽनुकरणं प्रजया, प्रजायाश्च राज्ञा कार्य्यमित्याह ॥
Meaning of Anvay
हे राजन् ! मित्रः सर्वस्य सुहृत् भवान् यथा नवाक्षरेण याजुष्या बृहत्या छन्दसा यं त्रिवृत्तं कर्मोपासनाज्ञानयुक्तं स्तोमं स्तोतुं योग्यम् उदजयत्तथा तमहमप्युज्जेषम् ।
हे प्रशंसनीय सभेश ! वरुणः श्रेष्ठ: भवान् यथा दशाक्षरेण याजुष्या पङ्क्त्या छन्दसायां विराजं विराट्छन्दोवाच्यम् उदजयेत्तथा [ताम्] अहमप्युज्जेषम् ।
हे परमैश्वर्यप्रद ! इन्द्रः परमैश्वर्यवान् भवान् यथैकादशाक्षरेण आसुर्या पङ्क्त्या यां त्रिष्टुभं त्रिष्टुप्छन्दो वाच्यम् उदजयत्तथा तामहमप्युज्जेषम् ।
हे सभाजनाः ! विश्वे सर्वेदेवाः विद्वांसः भवन्तो यथा द्वादशाक्षरेण साम्न्या गायत्र्या यांजगतीम् एतच्छन्दोऽभिहितां नीतिम् उदजयँस्तामहमप्युज्जेषम् ।। ९ । ३३ ।।
[हे राजन् ! मित्रो भवान् यथा नवाक्षरेण छन्दसा यं त्रिवृत्तं स्तोममुदजयत्तथा तमहमप्युज्जेषम्]
Special
तापसः । मित्रादयो मन्त्रोक्ताः=स्पष्टम् ॥ कृतिः । निषादः ।।