Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 9 / Mantra 32

38 Mantra
9/32
Devata- पूषादयो मन्त्रोक्ता देवताः Rishi- तापस ऋषिः Chhand- कृति, Swara- निषादः
Mantra with Swara
पू॒षा पञ्चा॑क्षरेण॒ पञ्च॒ दिश॒ऽउद॑जय॒त् ताऽउज्जे॑षꣳ सवि॒ता षड॑क्षरेण॒ षड् ऋ॒तूनुद॑जय॒त् तानुज्जे॑षं म॒रुतः स॒प्ताक्ष॑रेण स॒प्त ग्रा॒म्यान् प॒शूनुद॑जयँ॒स्तानुज्जे॑षं॒ बृह॒स्पति॑र॒ष्टाक्ष॑रेण गाय॒त्रीमुद॑जय॒त् तामुज्जे॑षम्॥३२॥

पू॒षा। पञ्चा॑क्षरे॒णेति॒ पञ्च॑ऽअक्षरेण। पञ्च॑। दिशः॑। उत्। अ॒ज॒य॒त्। ताः। उत्। जे॒ष॒म्। स॒वि॒ता। षड॑क्षरे॒णेति॒ षट्ऽअ॑क्षरेण। षट्। ऋ॒तून्। उत्। अ॒ज॒य॒त्। तान्। उत्। जे॒ष॒म्। म॒रुतः॑। स॒प्ताक्ष॑रे॒णेति॑ स॒प्तऽअ॑क्षरेण। स॒प्त। ग्रा॒म्यान्। प॒शून्। उत्। अ॒ज॒य॒न्। तान्। उत्। जे॒ष॒म्। बृह॒स्पतिः॑। अ॒ष्टाक्ष॑रे॒णेत्य॒ष्टऽअक्ष॑रेण। गा॒य॒त्रीम्। उत्। अ॒ज॒य॒त्। ताम्। उत्। जे॒ष॒म् ॥३२॥

Mantra without Swara
पूषा पञ्चाक्षरेण पञ्च दिशऽउदजयत्ता ऽउज्जेषँ सविता षडक्षरेण षडृतूनुदजयत्तानुज्जेषम्मरुतः सप्ताक्षरेण सप्त ग्राम्यान्पशूनुदजयँस्तानुज्जेषम्बृहस्पतिरष्टाक्षरेण गायत्रीमुदजयत्तामुज्जेषम् ॥

पूषा। पञ्चाक्षरेणेति पञ्चऽअक्षरेण। पञ्च। दिशः। उत्। अजयत्। ताः। उत्। जेषम्। सविता। षडक्षरेणेति षट्ऽअक्षरेण। षट्। ऋतून्। उत्। अजयत्। तान्। उत्। जेषम्। मरुतः। सप्ताक्षरेणेति सप्तऽअक्षरेण। सप्त। ग्राम्यान्। पशून्। उत्। अजयन्। तान्। उत्। जेषम्। बृहस्पतिः। अष्टाक्षरेणेत्यष्टऽअक्षरेण। गायत्रीम्। उत्। अजयत्। ताम्। उत्। जेषम्॥३२॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(पूषा) चन्द्र इव सर्वस्य पोषक: (पञ्चाक्षरेण) दैव्या पंक्त्या (पञ्च) चतस्रः पार्श्वस्था एका अध ऊर्ध्वस्था (दिशः) (उत्) (जेषम्) (सविता) सूर्य इव (षडक्षरेण) देव्या त्रिष्टुभा (षट्) (ऋतून्) वसन्तादीन् (उत्) (अजयत्) (तान्) (उत्) (जेषम्) (मरुतः) वायव इव (सप्ताक्षरेण) दैव्या जगत्या (सप्त) गोऽश्वमहिषोष्ट्राजाविगर्दभान् (ग्राम्यान्) ग्रामे भवान् (पशून्) गवादीन् (उत्) (अजय) (तान्) (उत्) (जेषम्) (बृहस्पतिः) अनूचानो=विद्वानिव (अष्टाक्षरेण) याजुष्याऽनुष्टुभा (गायत्रीम्) यथा गायन्तं त्रायते तां नीतिम् (उत्) (अजयत्) (ताम्) (उत्) (जेषम्) ।। ३२ ।।
Essence
अत्र वाचकलुप्तोपमालङ्कारः ।। यो राजा सर्वस्य पोषक: समस्तदिक् सुकीर्त्तिरैश्वर्यवान् सुसभ्यः पशुपालको वेदविद् भवेत्तं सर्वे राजप्रजासेनाजना उत्कर्षयेयुः ॥ ९ । ३२ ॥
Subject
पुना राजप्रजाजनाः किंवत्किं कुर्य्युरित्याह ॥
Meaning of Anvay
हे राजन् ! पूषा चन्द्र इव सर्वस्य पोषक: भवान् यथा पञ्चाक्षरेण दैव्या पंक्त्या याः पञ्च चतस्रः पार्श्वस्था एका अध ऊर्ध्वस्था दिश उदजयत्, तथाऽहमपिता उज्जेषम् ।
हे राजन् ! सविता सूर्य इव भवान् यथा षडक्षरेण दैव्या त्रिष्टुभा यान् षड्ऋतून् वसन्तादीन् उदजयत्तथा तानहमप्युज्जेषम् ।
हे सभ्या जनाः ! मरुतः वायव इव भवन्तो यथा सप्ताक्षरेण दैव्या जगत्या यान् ग्राम्यान् ग्रामे भवान् सप्त गोऽश्वमहिषोष्ट्राजाविगर्दभान् पशून् गवादीन् उदजयन्, तथा तानहमप्युज्जेषम् ।
हे विद्वान् सभाध्यक्ष ! बृहस्पतिः अनूचानो विद्वानिव भवान् यथाऽष्टाक्षरेण याजुष्याऽनुष्टुभा यां गायत्रीं यया गायन्तं त्रायते तां नीतिम् उदजयत्तामहमप्युज्जेषम् ॥ ९। ३२ ।।
[हे राजन् ! पूषा भवान्, सविता भवान्, हे सभ्याजनामरुतो भवन्तः, हे विद्वन् सभाध्यक्ष ! बृहस्पतिर्भवान्.....उदजयत्.....अहमप्युज्जेषम्]
Meaning of Essence
पूषा=सर्वस्य पोषकः, समस्तदिक्, सुकीर्त्तिः ॥ सविता=ऐश्वर्यवान् । मरुतः=सुसभ्याः, पशुपालकाः ॥ बृहस्पतिः=वेदविद् ।।
Special
पूषेत्यस्य तापसः । पूषादयो मन्त्रोक्ताः=सर्वपोषकादयोराजा प्रजाजनाश्च।। कृतिः । निषादः ॥