Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 9 / Mantra 30

38 Mantra
9/30
Devata- इन्द्रो देवता Rishi- बृहस्पतिर्ऋषिः Chhand- जगती, Swara- निषादः
Mantra with Swara
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम्। सर॑स्वत्यै वा॒चो य॒न्तुर्य॒न्त्रिये॑ दधामि॒ बृह॒स्पते॑ष्ट्वा॒ साम्रा॑ज्येना॒भिषि॑ञ्चाम्यसौ॥३०॥

दे॒वस्य॑। त्वा॒। स॒वि॒तुः। प्र॒स॒व इति॑ प्रऽस॒वे। अ॒श्विनोः॑। बा॒हुभ्या॒मिति॑ बा॒हुऽभ्याम्। पू॒ष्णः। हस्ता॑भ्याम्। सर॑स्वत्यै। वा॒चः। य॒न्तुः। य॒न्त्रिये॑। द॒धा॒मि॒। बृह॒स्पतेः॑। त्वा॒। साम्रा॑ज्ये॒नेति॒ साम्ऽरा॑ज्येन। अ॒भि। सि॒ञ्चा॒मि॒। अ॒सौ॒ ॥३०॥

Mantra without Swara
देवस्य त्वा सवितुः प्रसवे श्विनोर्बाहुभ्याम्पूष्णो हस्ताभ्याम् । सरस्वत्यै वाचो यन्तुर्यन्त्रिये दधामि बृहस्पतेष्ट्वा साम्राज्येनाभि षिञ्चाम्यसौ ॥

देवस्य। त्वा। सवितुः। प्रसव इति प्रऽसवे। अश्विनोः। बाहुभ्यामिति बाहुऽभ्याम्। पूष्णः। हस्ताभ्याम्। सरस्वत्यै। वाचः। यन्तुः। यन्त्रिये। दधामि। बृहस्पतेः। त्वा। साम्राज्येनेति साम्ऽराज्येन। अभि। सिञ्चामि। असौ॥३०॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(देवस्य) प्रकाशमानस्य (त्वा) त्वाम् (सवितुः) सकलजगत्प्रसवितुरीश्वरस्य (प्रसवे) जगदुत्पादे (अश्विनोः) सूर्याचन्द्रमसोर्बलाकर्षणाभ्यामिव (बाहुभ्याम्) भुजाभ्याम् (पूष्णः) पोषकस्य वायोर्धारणपोषणाभ्यामिव (हस्ताभ्याम्) कराभ्याम् (सरस्वत्यै) विज्ञानसुशिक्षायुक्तायाः । अत्र षष्ठ्यर्थे चतुर्थी (वाचः) वेदवाण्याः (यन्तुः) नियन्तुः (यंत्रिये) शिल्पविद्यासिद्धानां यन्त्राणामर्हे=योग्ये निष्पादने (दधामि) धरामि (बृहस्पतेः) परविदुषः (त्वा) (साम्राज्येन) सम्राजो भावेन (अभि) आभिमुख्ये (सिञ्चामि) सुगन्धेन रसेन मार्ज्मि (असौ) अदो नामा ॥ अयं मन्त्रः शत० ५ । २ । २ । १२-१५ व्याख्यातः ॥ ३० ॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः ॥ मनुष्यैरीश्वरप्रियं, बलवीर्यपुष्टियुक्तिं, प्रगल्भं, सत्यवादिनं, जितेन्द्रियं, धार्मिकं, प्रजापालनक्षमं विद्वांसं सुपरीक्ष्य सभाया अधिष्ठातृत्वेनाभिषिच्य राजधर्म उन्नेयः ॥ ९ । ३० ।।
Subject
पुनः क्व कीदृशं राजानं कुर्य्युरित्युपदिश्यते ॥
Meaning of Anvay
हेअखिलगुणकर्मस्वभावयुक्त विद्वन् !असौ अदोनामा अहं सवितुः सकलजगत्प्रसवितुरीश्वरस्य देवस्य प्रकाशमानस्य जगदीश्वरस्यप्रसवे जगदुत्पादे सरस्वत्यै विज्ञानसुशिक्षा युक्तायाः वाचः वेदवाण्या: अश्विनोः सूर्याचन्द्रमसोर्बलाकर्षणाम्यामिव बाहुभ्यां भुजाभ्यां पूष्णः पोषकस्य वायोर्धारणपोषणाभ्यामिव हस्ताभ्यां कराभ्यां त्वा त्वांदधामि धरामि ।
यन्तुः नियन्तुः बृहस्पतेः परमविदुषः यन्त्रिये शिल्पविद्यासिद्धानां यन्त्राणामर्हे=योग्ये निष्पादने साम्राज्येन सम्राजो भावेन त्वा त्वाम् अभिषिञ्चामि अभिमुखं सुगन्धेन रसेन भार्ज्मि ।। ९ । ३० ।।
[हे अखिलगुणकर्मस्वभावयुक्त विद्वन् !......अहं........जगदीश्वरस्य प्रसवे..........अश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां त्वा दधामि, यन्तुर्बृहस्पतेर्यन्त्रिये साम्राज्येन त्वाभिषिञ्चामि]
Special
तापसः । सम्राट्=राजा॥ जगती । निषादः ॥