Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 9 / Mantra 29

38 Mantra
9/29
Devata- अर्य्यमादिमन्त्रोक्ता देवताः Rishi- तापस ऋषिः Chhand- भूरिक आर्षी गायत्री, Swara- षड्जः
Mantra with Swara
प्र नो॑ यच्छत्वर्य॒मा प्र पू॒षा बृह॒स्पतिः॑। प्र वाग्दे॒वी द॑दातु नः॒ स्वाहा॑॥२९॥

प्र। नः॒। य॒च्छ॒तु॒। अ॒र्य्य॒मा। प्र। पू॒षा। प्र। बृह॒स्पतिः॑। प्र। वाक्। दे॒वी। द॒दा॒तु॒। नः॒। स्वाहा॑ ॥२९॥

Mantra without Swara
प्र नो यच्छत्वर्यमा प्र पूषा प्र बृहस्पतिः । प्र वाग्देवी ददातु नः स्वाहा ॥

प्र। नः। यच्छतु। अर्य्यमा। प्र। पूषा। प्र। बृहस्पतिः। प्र। वाक्। देवी। ददातु। नः। स्वाहा॥२९॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(प्र) (नः) अस्मभ्यम् (यच्छतु) ददातु (अर्य्यमा) न्यायाधीश: (प्र) (पूषा) पोषक: (प्र) (बृहस्पतिः) विद्वान् (प्र) (वाक्) विद्यासुशिक्षितवाणीयुक्ता (देवी) देदीप्यमानाऽध्यापिका माता (ददातु) (नः) (स्वाहा) सत्यविद्यायुक्तां वाणीम् ॥अयं मन्त्रः शत० ५ । २ । २ । ११ व्याख्यातः ॥ २९॥
Essence
अत्राऽऽह जगदीश्वरः--राजादयः सर्वे पुरुषा मात्रादिस्त्रियश्च सर्वदा प्रजाः पुत्रादीन् प्रति सत्यमुपदेशं कुर्य्युर्विद्यां सुशिक्षां च सततं ग्राहयेयुर्यतः प्रजाः सदाऽऽनन्दिताः स्युः ॥ ९। २९॥
Subject
राजा मात्रादयश्च प्रजाः किं किमुपदिशेयुरित्याह ॥
Meaning of Anvay
यथाऽर्यमा न्यायधीशः नः अस्मभ्यं सुशिक्षां प्रयच्छतु ददातु, यथा पूषा पोषक: पुष्टिं प्रददातु, यथा बृहस्पतिः विद्वान् स्वाहा सत्यविद्यायुक्तां वाणींप्रार्पयतु, तथा वाग् विद्यासुशिक्षितवाणीयुक्ता देवी=देदीप्यमानाऽध्यापिका माता [नः]=अस्मभ्यं विद्यां [प्र] ददातु ॥ ९ ।२९ ।।
[अर्यमा नः=अस्मभ्यं सुशिक्षां प्रयच्छतु,.......बृहस्पतिः स्वाहा प्रार्पयतु, वाग् देवी=माता [नः] अस्मभ्यं विद्यां [प्र] ददातु]
Special
तापसः । अर्य्यमादिमन्त्रोक्ताः=न्यायाधीशादयः ॥ भुरिगार्षी गायत्री । षड्जः ॥