Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 9 / Mantra 28

38 Mantra
9/28
Devata- अग्निर्देवता Rishi- तापस ऋषिः Chhand- भूरिक अनुष्टुप्, Swara- गान्धारः
Mantra with Swara
अग्ने॒ऽअच्छा॑ वदे॒ह नः॒ प्रति॑ नः सु॒मना॑ भव। प्र नो॑ यच्छ सहस्रजि॒त् त्वꣳ हि ध॑न॒दाऽअसि॒ स्वाहा॑॥२८॥

अग्ने॑। अच्छ॑। व॒द॒। इ॒ह। नः॒। प्रति॑। नः॒। सु॒मना॒ इति॑ सु॒ऽमनाः॑। भ॒व॒। प्र। नः॒। य॒च्छ॒। स॒ह॒स्र॒जि॒दिति॑ सहस्रऽजित्। त्वम्। हि। ध॒न॒दा॒ इति॑ धन॒ऽदाः। असि॒। स्वाहा॑ ॥२८॥

Mantra without Swara
अग्ने ऽअच्छा वदेह नः प्रति नः सुमना भव । प्र नो यच्छ सहस्रजित्त्वँ हि धनदा ऽअसि स्वाहा ॥

अग्ने। अच्छ। वद। इह। नः। प्रति। नः। सुमना इति सुऽमनाः। भव। प्र। नः। यच्छ। सहस्रजिदिति सहस्रऽजित्। त्वम्। हि। धनदा इति धनऽदाः। असि। स्वाहा॥२८॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(अग्ने) विद्वन् (अच्छ) सम्यक् निपातस्य च ॥ अ० ६ । ३ । १३६ ।। इति दीर्घः(वद) सत्यमुपदिश (इह) अस्मिन् समये (नः) अस्मान् (प्रति) (नः) अस्मान् (सुमनाः) सुहृद्भावः (भव) (प्र) (नः) अस्मभ्यम् (यच्छ) देहि (सहस्रजित्) असहायः सन् सहस्रं योद्धुं जेतुं शीलः (त्वम्) (हि) यतः (धनदाः) ऐश्वर्य्यदाता (असि) (स्वाहा) सत्यया वाण्या ॥ अयं मन्त्रः शत० ५ ।२ । २ । १० व्याख्यातः ॥ २८ ॥
Essence
ईश्वर आह--राजा प्रजासेनाजनान् प्रति सदा सत्यं प्रियं च वदेत्, तेभ्यो धनं तद्याद् गृह्णीयाच्च ।
[त्वं हि सहस्रजित्.......असि, तस्मान्नः सुखं प्रयच्छ]
शरीरात्मबलं वर्धित्वा नित्यं शत्रून् जित्वा धर्मेण प्रजा: पालयेदिति ॥ ९ । २८ ॥
Subject
पुनः स राजा किं किं कुर्य्यादित्याह ।।
Meaning of Anvay
हे अग्ने ! विद्वन् ! त्वमिह अस्मिन् समये स्वाहा सत्यया वाण्या नः अस्मान् अच्छ सम्यक् वद सत्यमुपदिश, नः=अस्मान् प्रति सुमनाः सुहृद्भावः भव ।
त्वं हि यतः सहस्रजित् असहायः सन् सहस्रं योद्धुम् जेतुं शील: धनदाः ऐश्वर्यदाता असि, तस्मान्नः अस्मभ्यं सुखं प्रयच्छ ॥ ९ ।२८ ॥
[हे अग्ने त्वमिह !.......नोऽच्छवद, नः=अस्मान् प्रति सुमना भव, त्वं हि........धनदा असि]
Meaning of Essence
अग्ने=राजन्। अच्छ=सत्यं प्रियं च ।
अस्मान् प्रति सुमना भव, रवं हि घनदा असि ]
Special
तापसः । अग्निः=विद्वान् राजा।। भुरिगनुष्टुप् । गान्धारः ॥