Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 9 / Mantra 27

38 Mantra
9/27
Devata- अर्य्यमादिमन्त्रोक्ता देवताः Rishi- तापस ऋषिः Chhand- स्वराट अनुष्टुप्, Swara- गान्धारः
Mantra with Swara
अ॒र्य॒मणं॒ बृह॒स्पति॒मिन्द्रं॒ दाना॑य चोदय। वाचं॒ विष्णु॒ꣳ सर॑स्वती सवि॒तारं॑ च वा॒जिन॒ꣳ स्वाहा॑॥२७॥

अ॒र्य्य॒मण॑म्। बृह॒स्पति॑म्। इन्द्र॑म्। दाना॑य। चो॒द॒य॒। वाच॑म्। विष्णु॑म्। सर॑स्वतीम्। स॒वि॒तार॑म्। च॒। वा॒जिन॑म्। स्वाहा॑ ॥२७॥

Mantra without Swara
अर्यमणम्बृहस्पतिमिन्द्रन्दानाय चोदय । वाचँ विष्णुँ सरस्वतीँ सवितारंञ्च वाजिनँ स्वाहा ॥

अर्य्यमणम्। बृहस्पतिम्। इन्द्रम्। दानाय। चोदय। वाचम्। विष्णुम्। सरस्वतीम्। सवितारम्। च। वाजिनम्। स्वाहा॥२७॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(अर्यमणम्) पक्षपातराहित्येन न्यायकर्तायंरम् (बृहस्पतिम्) सकलविद्याध्यापकम् (इन्द्रम्) परमैश्वर्य्ययुक्तम् (दानाय) (चोदय) प्रेरय (वाचम्) देववाणीम् (विष्णुम्) सर्वाधिष्ठातारम् (सरस्वतीम्) बहुविधं सरो=वेदादिशास्त्रविज्ञानं विद्यते यस्यास्तां विज्ञानयुक्तामध्यापिकां स्त्रियम् (सवितारम्) वेदविद्यैश्वर्य्योत्पादकम् (च) (वाजिनम्) प्रशस्तबलवेगादियुक्तं शूरवीरम् (स्वाहा) सत्यया नीत्या ॥ अयं मन्त्रः शत० ५। २ । २ । ९ व्याख्यातः ॥ २७ ॥
Essence
ईश्वरोऽभिवदति राजा स्वयं धार्मिको विद्वान् भूत्वा सर्वान् न्यायाधीशान् मनुष्यान् विद्याधर्मवर्धनाय सततं प्रेरयेद्, यतो विद्याधर्मवृद्ध्याऽविद्याऽधौ निवृत्तौ स्याताम् ॥ ९ । २७ ।।
Subject
पुना राजा कान्कस्मिन्प्रेरयेदित्याह ।।
Meaning of Anvay
हे राजन् ! त्वं स्वाहा सत्यया नीत्या दानायार्य्यमणं पक्षपातराहित्येन न्यायकर्त्तारं बृहस्पतिंसकलविद्याऽध्यापकम् इन्द्रं परमैश्वर्ययुक्तं वाचं वेदवाणीं विष्णुं सर्वाधिष्ठातारं सवितारं वेदविद्यैश्वर्य्योत्पादकं वाजिनं प्रशस्तबलवेगादियुक्तं शूरवीरं सरस्वतीं बहुविधं सरः=वेदादिशास्त्रविज्ञानं विद्यते यस्यास्तां विज्ञानयुक्तामध्यापिकां स्त्रियं च सत्कर्मसु सदा चोदय प्रेरय ।। ९ । २७ ।।
[हे राजन् ! त्वं स्वाहा दानायार्यमणं.........सरस्वतीं च सत्कर्मसु सदा चोदय]
Meaning of Essence
दानाय=विद्याधर्मवर्धनाय।अर्यमणम्=न्यायाधीशम् ॥
Special
तापसः । अर्य्यमादिमन्त्रोक्ताः=न्यायकर्त्रादयो मनुष्याः ॥ स्वराडनुष्टुप् । गान्धारः ॥