Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 9 / Mantra 26

38 Mantra
9/26
Devata- सोमाग्न्यादित्यविष्णुसूर्य्यबृहस्पतयो देवताः Rishi- तापस ऋषिः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
सोम॒ꣳ राजा॑न॒मव॑से॒ऽग्निम॒न्वार॑भामहे। आ॒दि॒त्यान् विष्णु॒ꣳ सूर्य्यं॑ ब्र॒ह्माणं॑ च॒ बृह॒स्पति॒ꣳ स्वाहा॑॥२६॥

सोम॑म्। राजा॑नम्। अव॑से। अ॒ग्निम्। अ॒न्वार॑भामह॒ इत्य॑नु॒ऽआर॑भामहे। आ॒दि॒त्यान्। विष्णु॑म्। सूर्य॑म्। ब्र॒ह्मा॑णम्। च॒। बृह॒स्पति॑म्। स्वाहा॑ ॥२६॥

Mantra without Swara
सोमँ राजानमवसेग्निमन्वारभामहे । आदित्यान्विष्णुँ सूर्यम्ब्रह्माणञ्च बृहस्पतिँ स्वाहा ॥

सोमम्। राजानम्। अवसे। अग्निम्। अन्वारभामह इत्यनुऽआरभामहे। आदित्यान्। विष्णुम्। सूर्यम्। ब्रह्माणम्। च। बृहस्पतिम्। स्वाहा॥२६॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(सोमम्) सोमगुणसम्पन्नम् (राजानम्) धर्माचरणेन प्रकाशमानम् (अवसे) रक्षणाद्याय (अग्निम्) अग्निमिव शत्रुदाहकम् (अन्वारभामहे) (आदित्यान्) विद्यार्जनाय कृताऽष्टचत्वारिंशद्वर्षं ब्रह्मचर्य्यान् विदुषः (विष्णुम्) व्यापकं परमेश्वरम् (सूर्य्यम्) सूरिषु=विद्वत्सु भवम् (ब्रह्माणम्) अधीतसाङ्गोपाङ्गचतुर्वेदम् (च) (बृहस्पतिम्) बृहतामाप्तानां पालकम् (स्वाहा) सत्यया वाण्या ।। २६ ।।
Essence
ईश्वराज्ञाऽस्तिसर्वे मनुष्यारक्षणाद्याय ब्रह्मचर्यादिना विद्यापारगान् विदुषस्तन्मध्य उत्तमं सूर्यादिगुणसम्पन्नं राजानं च स्वीकृत्य सत्यां नीतिं वर्धयन्त्विति ॥ ९ । २६ ॥
Subject
पुनः कीदृशं राजानं स्वीकुर्य्युरित्युपदिश्यते ॥
Meaning of Anvay
हे मनुष्याः ! यथा वयं स्वाहा सत्यया वाण्या अवसे रक्षणाद्याय सहवर्त्तमानं विष्णुं व्यापकं परमेश्वरं सूर्यंसूरिषु=विद्वत्सु भवंब्रह्माणम् अधीतसाङ्गोपाङ्गचतुर्वेदंबृहस्पतिं बृहताम्=आप्तानां पालकम् अग्निम् अग्निमिव शत्रुदाहकंसोमं सोमगुणसम्पन्नं राजानं धर्माचरणेन प्रकाशमानं आदित्यान् विद्याऽर्जनाय कृताष्टाचत्वारिंशद्वर्षं ब्रह्मचर्य्यान् विदुषः चाऽन्वारभामहे, तथा यूयमप्यारभध्वम् ।। ९ । २६ ।।
[वयं स्वाहा ऽवसे.......अग्निं.......राजानमादित्यांश्चान्वारभामहे]
Meaning of Essence
स्वाहा=सत्यनीत्या । अग्निम्=सूर्यादिगुणसम्पन्नम् [राजानम्] । आदित्यान्=ब्रह्मचर्यादिना। विद्यापारगान्= विदुषः ॥
Special
तापसः। सोमाग्न्यादित्यविष्णुबृहस्पतयः=सोमादिगुणसम्पन्नो राजा। अनुष्टुप् । गांधारः ॥