Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 9 / Mantra 23

38 Mantra
9/23
Devata- प्रजापतिर्देवता Rishi- वसिष्ठ ऋषिः Chhand- स्वराट त्रिष्टुप्, Swara- धैवतः
Mantra with Swara
वाज॑स्ये॒मं प्र॑स॒वः सु॑षु॒वेऽग्रे॒ सोम॒ꣳ राजा॑न॒मोष॑धीष्व॒प्सु। ताऽअ॒स्मभ्यं॒ मधु॑मतीर्भवन्तु व॒यꣳ रा॒ष्ट्रे जा॑गृयाम पु॒रोहि॑ताः॒ स्वाहा॑॥२३॥

वाज॑स्यः। इ॒मम्। प्र॒स॒व इति॑ प्रऽस॒वः। सु॒षु॒वे। सु॒सु॒व॒ इति सुसुवे। अग्रे॑। सोम॑म्। राजा॑नम्। ओष॑धीषु। अ॒प्स्वित्य॒प्ऽसु। ताः। अ॒स्मभ्य॑म्। मधु॑मती॒रिति॒ मधु॑ऽमतीः। भ॒व॒न्तु॒। व॒यम्। रा॒ष्ट्रे। जा॒गृ॒या॒म॒। पु॒रोहि॑ता॒ इति॑ पु॒रःऽहि॑ताः। स्वाहा॑ ॥२३॥

Mantra without Swara
वाजस्येमम्प्रसवः सुषुवे ग्रे सोमँ राजानमोषधीष्वप्सु । ताऽअस्मभ्यं मधुमतीर्भवन्तु वयँ राष्टे जागृयाम पुरोहिताः स्वाहा ॥

वाजस्यः। इमम्। प्रसव इति प्रऽसवः। सुषुवे। सुसुव इति सुसुवे। अग्रे। सोमम्। राजानम्। ओषधीषु। अप्स्वित्यप्ऽसु। ताः। अस्मभ्यम्। मधुमतीरिति मधुऽमतीः। भवन्तु। वयम्। राष्ट्रे। जागृयाम। पुरोहिता इति पुरःऽहिताः। स्वाहा॥२३॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(वाजस्य) बोधस्य सकाशात् (इमम्) (प्रसवः) ऐश्वर्ययुक्तः (सुषुवे) प्रसुव=उत्पादये (अग्रे) पूर्वम् (सोमम्) सोममिव सर्वदुःखप्रणाशकं (राजानम्) विद्यान्यायविनयैः प्रकाशमानं स्वामिनम् (औषधीषु) पृथिवीस्थासु यवादिषु (अप्सु) जलेषु वर्त्तमानाः (ताः) (अस्मभ्यम्) (मधुमतीः) प्रशस्ता मधवो=मधुरादयो गुणा विद्यन्ते यासु ता: (भवन्तु) (वयम्) अमात्यादयो भृत्याः (राष्ट्रे) राज्ये (जागृयाम्) सचेतना=अनलसाः सन्तो वर्त्तेमहि (पुरोहिताः) सर्वेषां हितकारिणः (स्वाहा) सत्यया क्रियया सह ॥अयं मन्त्रः शत० ५ । २ । २ । ५ व्याख्यातः ॥ २३ ॥
Essence
शिष्टा मनुष्याः सर्वविद्याचातुर्य्यारोग्यसहितं सौम्यादिगुणालंकृतं राजानं संस्थापयेयुः, तद्रक्षको वैद्य एवं प्रवर्त्तेत यथाऽस्य शरीरे बुद्धावात्मनि च रोगावेशो न स्यात् ।
[यथा.........पुरोहिता वयं राष्ट्रे सततं जागृयाम तथा यूयमपि वर्त्तध्वम्]
इत्यमेव राजवैद्यो सर्वानमात्यादीन् भृत्यानरोगान् संपादयेताम्, यत एते राज्यस्य सज्जनपालने दुष्टताडने सदा प्रयतेरन् । राजा प्रजा च पितापुत्रवत् सदा वर्तेयाताम् ॥९ । २३ ।।
Subject
पुनस्तैरत्र कथं भवितव्यमित्याह ।।
Meaning of Anvay
हे मनुष्याः ! यथाहमग्रे पूर्वंप्रसवः ऐश्वर्य्ययुक्तः सन् वाजस्य बोधस्य सकाशात् इमं सोमं सोममिव सर्वदुःखप्रणाशकं राजानं विद्यान्यायविनयैः प्रकाशमानं स्वामिनंसुषुवे प्रसुवे=उत्पादये--
यथा तद्रक्षणेन या ओषधीषु पृथिवीस्थासु यवादिषुअप्सु जलेषु वर्त्तमानाः ओषधयः सन्ति, ता अस्मभ्यं मधुमती: प्रशस्ता मधवः=मधुरादयो गुणा विद्यन्ते यासु ताः भवन्तु--
यथा स्वाहा सत्यया क्रियया सह पुरोहिताः सर्वेषां हितकारिणः वयम् अमात्यादयोभृत्याः राष्ट्रे राज्ये सततं जागृयाम सचेतना:=अनलसाः सन्तो वर्तेमहि, तथा यूयमपि वर्त्तध्वम् ॥ ९ । २३ ॥
[हे मनुष्या:! यथाहमग्रे.........इमं सोमं राजानं सुषुवे, यथा तद्रक्षणेन या..........ओषधयः सन्तिता अस्मस्यं मधुमतीर्भवन्तु]
Meaning of Essence
सोमम्=सौम्यादिगुणालङ्कृतम् । सुषुवे=संस्थापये ॥
Special
वसिष्ठः । प्रजापतिः=राजा । स्वराट् त्रिष्टुप् । धैवतः।।