Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 9 / Mantra 22

38 Mantra
9/22
Devata- दिशो देवताः Rishi- वसिष्ठ ऋषिः Chhand- निचृत् अत्यष्टि, Swara- गान्धारः
Mantra with Swara
अ॒स्मे वो॑ऽअस्त्विन्द्रि॒यम॒स्मे नृ॒म्णमु॒त क्रतु॑र॒स्मे वर्चा॑सि सन्तु वः। नमो॑ मा॒त्रे पृ॑थि॒व्यै नमो॑ मा॒त्रे पृ॑थि॒व्याऽइ॒यं ते॒ राड्य॒न्तासि॒ यम॑नो ध्रु॒वोऽसि ध॒रुणः॑। कृ॒ष्यै त्वा॒ क्षेमाय॑ त्वा र॒य्यै त्वा॒ पोषा॑य त्वा॥२२॥

अ॒स्मेऽइत्य॒स्मे। वः। अ॒स्तु॒। इ॒न्द्रि॒यम्। अ॒स्मेऽइत्य॒स्मे। नृ॒म्णम्। उ॒त। क्रतुः॑। अ॒स्मेऽइत्य॒स्मे। वर्चा॑सि। स॒न्तु॒। वः॒। नमः॑। मा॒त्रे। पृ॒थि॒व्यै। नमः॑। मा॒त्रे। पृ॒थि॒व्यै। इ॒यम्। ते॒। राट्। य॒न्ता। अ॒सि॒। यम॑नः। ध्रु॒वः। अ॒सि॒। ध॒रुणः॑। कृ॒ष्यै। त्वा॒। क्षेमा॑य। त्वा॒। र॒य्यै। त्वा॒। पोषा॑य। त्वा॒ ॥२२॥

Mantra without Swara
अस्मे वोऽअस्त्विन्द्रियमस्मे नृम्णमुत क्रतुरस्मे वर्चाँसि सन्तु वः । नमो मात्रे पृथिव्यै नमो मात्रे पृथिव्यैऽइयन्ते राड् यन्तासि यमनो धु्रवो सि धरुणः कृष्यै त्वा क्षेमाय त्वा रय्यै त्वा पोषाय त्वा ॥

अस्मेऽइत्यस्मे। वः। अस्तु। इन्द्रियम्। अस्मेऽइत्यस्मे। नृम्णम्। उत। क्रतुः। अस्मेऽइत्यस्मे। वर्चासि। सन्तु। वः। नमः। मात्रे। पृथिव्यै। नमः। मात्रे। पृथिव्यै। इयम्। ते। राट्। यन्ता। असि। यमनः। ध्रुवः। असि। धरुणः। कृष्यै। त्वा। क्षेमाय। त्वा। रय्यै। त्वा। पोषाय। त्वा॥२२॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(अस्मे) अस्माकमस्मभ्यं वा (व:) युष्माकं युष्मभ्यं वा (अस्तु) भवतु (इन्द्रियम्) मनआदीनि (अस्मे) मे (नृम्णम्) धनम् (उत) अपि (क्रतुः) प्रज्ञा कर्म वा (अमे) मे (वर्चांसि) प्रकाशमानाध्ययनानि । वर्च इत्यन्ननाम० ॥ निघं० २ । ७ ॥ (सन्तु) (वः) युष्माकं युष्मभ्यं वा (नमः) अन्नादिकम् (मात्रे) मान्यनिमित्तायै (पृथिव्यै) विस्तृतायै भूमये (नमः) जलादिकम् ( मात्रे) (पृथिव्यै) (इयम्) (ते) तव (राट्) राजमाना (यन्ता) नियन्ता (असि) (यमनः) उपयन्ता (ध्रुवः) निश्चल: (असि) (धरुणः) धर्ता (कृष्यै) कृषन्ति=विलिखन्ति भूमिं यया तस्यै (त्वा) त्वाम् (क्षेमाय) रक्षणाय (त्वा) (रय्यै) श्रियै (त्वा) (पोषाय) पुष्टये (त्वा) ॥ अयं मन्त्रः शत० ५ । २ । १ । १५-२५ व्याख्यातः ॥ २२ ॥
Essence
मनुष्यान् प्रतीश्वरस्येयमाज्ञाऽस्ति--भवन्तः सदैव सत्कर्मसु प्रयतन्ताम्, आलस्यं मा कुर्वताम् ।
[अस्यै मात्रे पृथिव्यै नमः...........विधेहि..........यदेतत्सर्वं वोऽस्तु तदस्माकमस्तु, इत्येव परस्परं यूयं समाचरत]
पृथिव्याः सकाशादन्नादीन्युत्पाद्य संरक्ष्यै तत्सर्वं परस्परमुपकाराय यथा स्यात् तथाऽनुतिष्ठन्तु, कदाचिद् विरोधं मा कुर्वन्तु, तथा तद्धितं विदधताम् ॥ ९ । २२ ।।
Subject
ईश्वराज्ञातो मनुष्यैरिह कथं वर्तितव्यमित्युपदिश्यते ॥
Meaning of Anvay
हे मनुष्य ! अहमीश्वरः कृष्यै कृषन्ति=विलिखन्ति भूमिं यया तस्यै त्वा त्वां, क्षेमाय रक्षणाय त्वा त्वां रय्यै
श्रिष्यै त्वा त्वां, पोषाय पुष्टये त्वा त्वां नियुञ्जामि।
यस्त्वं ध्रुवः निश्चल: यन्ता नियन्ता असि,धरुणः धर्त्तायमन: उपयन्ता असि, यस्य ते=तवेयं राट् राजमाना अस्ति, अस्यै मात्रे मान्यनिमित्तायै पृथिव्यै विस्तृतायै भूमये नमः अन्नादिकम्, अस्यै मात्रे मान्यनिमित्तायै पृथिव्यै विस्तृतायै भूमये नमः जलादिकं विधेहि ।
सर्वे यूयं--यदस्मे अस्माकमस्मभ्यं वा इन्द्रियं मन आदीनि तद्व: युष्माकं युष्मभ्यं वा अस्तु, यदस्मे मे नृम्णं धनं तद्वः युष्माकं युष्मभ्यं वा अस्तु, उत=अपि योऽस्मे मे क्रतुः प्रज्ञा कर्म वा,स वः युष्माकं युष्मभ्यं वा अस्तु, यान्यस्माकं वर्चांसि प्रकाशमानाऽध्ययनानि तानि वः युष्माकं युष्मभ्यं वा सन्तु यदेतत्सर्वं वः युष्माकं युष्मभ्यं वा अस्तु, तदस्माकमस्तु, इत्येवं परस्परं यूयं समाचरत ।। ९। २२ ॥
[हे मनुष्य ! अहमीश्वरः कृष्यै त्वा...........नियुञ्जामि]
Special
वसिष्ठः । दिशः=स्पष्टम्।। निचृदत्यष्टि: । गान्धारः ॥