Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 9 / Mantra 2

38 Mantra
9/2
Devata- इन्द्रो देवता Rishi- बृहस्पतिर्ऋषिः Chhand- आर्षी पङ्क्ति,विकृति Swara- पञ्चमः, मध्यमः
Mantra with Swara
ध्रु॒व॒सदं॑ त्वा नृ॒षदं॑ मनः॒सद॑मुपया॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वा॒ जुष्ट॑तमम्। अ॒प्सुषदं॑ त्वा घृत॒सदं॑ व्योम॒सद॑मुपया॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वा॒ जुष्ट॑तमम्। पृ॒थि॒वि॒सदं॑ त्वाऽन्तरिक्ष॒सदं॑ दिवि॒सदं॑ देव॒सदं॑ नाक॒सद॑मुपया॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वा॒ जुष्ट॑तमम्॥२॥

ध्रु॒व॒सद॒मिति॑ ध्रु॒व॒ऽसद॑म्। त्वा॒। नृ॒षद॑म्। नृ॒सद॒मिति॑ नृ॒ऽसद॑म्। म॒नः॒सदमिति॑ मनःऽसद॑म्। उ॒प॒या॒मगृ॑हीत इत्यु॑पया॒मगृ॑हीतः। अ॒सि॒। इन्द्रा॑य। त्वा॒। जुष्ट॑म्। गृ॒ह्णा॒मि॒। ए॒षः। ते॒। योनिः॑। इन्द्रा॑य। त्वा॒। जुष्ट॑तम॒मिति॒ जुष्ट॑ऽतमम्। अ॒प्सु॒षद॑म्। अ॒प्सु॒सद॒मित्य॑प्सु॒ऽसद॑म्। त्वा॒। घृ॒त॒सद॒मिति॑ घृत॒ऽसद॑म्। व्यो॒म॒सद॒मिति॑ व्योम॒ऽसद॑म्। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मगृ॑हीतः। अ॒सि॒। इन्द्रा॑य। त्वा॒। जुष्ट॑म्। गृ॒ह्णा॒मि॒। ए॒षः। ते॒। योनिः॑। इन्द्रा॑य। त्वा॒। जुष्ट॑तम॒मिति॒ जुष्ट॑ऽतमम्। पृ॒थि॒वि॒सद॒मिति॑ पृथिविऽसद॑म्। त्वा॒। अ॒न्त॒रि॒क्ष॒सद॒मित्यन्त॑रिक्ष॒ऽसद॑म्। दि॒वि॒सद॒मिति॑ दिवि॒ऽसद॑म्। दे॒वसद॒मिति॑ देव॒ऽसद॑म्। ना॒क॒सद॒मिति॑ नाक॒ऽसद॑म्। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मगृही॑तः। अ॒सि॒। इन्द्रा॑य। त्वा॒। जुष्ट॑म्। गृ॒ह्णा॒मि॒। ए॒षः। ते॒। योनिः॑। इन्द्रा॑य। त्वा॒। जुष्ट॑तम॒मिति॒ जुष्ट॑ऽतमम् ॥२॥

Mantra without Swara
धु्रवसदन्त्वा नृषदम्मनः सदमुपयामगृहीतो सीन्द्राय त्वा जुष्टङ्गृह्णाम्येष ते योनिरिन्द्राय त्वा जुष्टतमम् । अप्सुषदन्त्वा घृतसदँव्योमसदमुपयामगृहीतो सीन्द्राय त्वा जुष्टङ्गृह्णाम्येष ते योनिरिन्द्राय त्वा जुष्टतमम् । पृथिवीसदन्त्वान्तरिक्षसदन्दिविसदन्देवसदन्नाकसदमुपयामगृहीतो सीन्द्राय त्वा जुष्टङ्गृह्णाम्येष ते योनिरिन्द्राय त्वा जुष्टतमम् ॥

ध्रुवसदमिति ध्रुवऽसदम्। त्वा। नृषदम्। नृसदमिति नृऽसदम्। मनःसदमिति मनःऽसदम्। उपयामगृहीत इत्युपयामगृहीतः। असि। इन्द्राय। त्वा। जुष्टम्। गृह्णामि। एषः। ते। योनिः। इन्द्राय। त्वा। जुष्टतममिति जुष्टऽतमम्। अप्सुषदम्। अप्सुसदमित्यप्सुऽसदम्। त्वा। घृतसदमिति घृतऽसदम्। व्योमसदमिति व्योमऽसदम्। उपयामगृहीत इत्युपयामगृहीतः। असि। इन्द्राय। त्वा। जुष्टम्। गृह्णामि। एषः। ते। योनिः। इन्द्राय। त्वा। जुष्टतममिति जुष्टऽतमम्। पृथिविसदमिति पृथिविऽसदम्। त्वा। अन्तरिक्षसदमित्यन्तरिक्षऽसदम्। दिविसदमिति दिविऽसदम्। देवसदमिति देवऽसदम्। नाकसदमिति नाकऽसदम्। उपयामगृहीत इत्युपयामगृहीतः। असि। इन्द्राय। त्वा। जुष्टम्। गृह्णामि। एषः। ते। योनिः। इन्द्राय। त्वा। जुष्टतममिति जुष्टऽतमम्॥२॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(ध्रुवसदम्) ध्रुवेषु=विद्याविनययोगधर्मेषु सीदन्तम् (त्वा) त्वाम् (नृसदम्) नायकेषु सीदन्तम् (मनःसदम्) मनसि= विज्ञाने तिष्ठन्तम् (उपयामगृहीतः) उपगतैर्यमानामिमैः सेवकैः पुरुषैः स्वीकृतः (असि) भवसि (इन्द्राय) परमैश्वर्ययुक्ताय जगदीश्वराय (त्वा) त्वाम् (जुष्टम्) जुषमाणम् (गृह्णामि) स्वीकरोमि (एषः) (ते) तव (योनिः) कारणम् (इन्द्राय) राज्यैश्वर्याय (त्वा) (जुष्टतमम्) अतिशयेन जुषमाणम् (अप्सुसदम्) जलेषु गच्छन्तम् (त्वा) (घृतसदम्) आज्यं प्राप्नुवन्तम् (व्योमसदम्) विमानैर्व्योम्नि गच्छन्तम् (उपयामगृहीतः) उपयामै:=प्रजाराजजनैः स्वीकृतः (असि) (इन्द्राय) ऐश्वर्य्यधारणाय (त्वा) (जुष्टम्) प्रीतम् (गृह्णामि) (एष:) (ते) (योनिः) (इन्द्राय) दुष्टशत्रुविदारणाय (त्वा) (जुष्टतम्) (पृथिविसदम्) पृथिव्यां गच्छन्तम् । अत्रङ्यापोः संज्ञाछन्दसोर्बहुलम् अ० ६ । ३ । ६३ ॥ इति पूर्वपदस्य ह्रस्व: (त्वा) (अन्तरिक्षसदम्) अवकाशे गमकम् (दिविसदम्) न्यायप्रकाशे व्यवस्थितम् (देवसदम्) देवेषु=धार्मिकेषु विद्वत्स्ववस्थितम् (नाकसदम्) अविद्यमानं कं=सुखं यस्मिन् तदकमेतन्नास्ति यस्मिन्परमेश्वरे धर्मे वा तत्रस्थम् (उपयामगृहीतः) साधनोपसाधनैः संयुक्तः (असि) (इन्द्राय) विद्यायोगमोक्षैश्वर्य्याय (त्वा) (जुष्टम्) (गृह्णामि) (एषः) (ते) (योनिः) निवसतिः (इन्द्राय) सर्वैश्वर्यसुखप्राप्तये (त्वा) (जुष्टतमम्) ॥अयं मन्त्रः शत० ५ । १ । २ । ३--६ व्याख्यातः ॥ २ ॥
Essence
हे राजप्रजाजना: ! यथा सर्वव्यापकेन परमेश्वरेण सकलैश्वर्याय जगन्निर्माय सर्वेभ्यः सुखं दीयते तथा यूयमप्याचरत, यतो धर्मार्थकाममोक्षफलानां प्राप्तिः सुगमा स्यात् ॥ ९ । २ ॥
Subject
मनुष्याः कीदृशं राजानं स्वीकुर्युरित्याह ।।
Meaning of Anvay
हे सम्राट् ! अहमिन्द्राय परमैश्वर्ययुक्ताय जगदीश्वराय यस्त्वमुपायमगृहीतः उपगतैर्यमानामिमैः सेवकैः पुरुषैः स्वीकृतः असि भवसि, तं ध्रुवसदं ध्रुवेषु=विद्याविनययोगधर्मेषु सीदन्तं नृषदं नायकेषु सीदन्तं मनःसदं मनसि= विज्ञानेतिष्ठन्तं जुष्टं जुषमाणं त्वा त्वां गृह्णामि स्वीकरोमि । यस्यैष ते तव योनिः कारणम् अस्ति, तं जुष्टतमम्अतिशयेन जुषमाणं त्वा त्वाम् इन्द्राय राज्यैश्वर्य्याय गृह्णामि स्वीकरोमि ।
हे राजन् ! अहमिन्द्राय ऐश्वर्य्यधारणाय यस्त्वमुपयामगृहीतः उपयामैः=प्रजा-राजजनैः स्वीकृतःअसि भवसि, तमप्सुसदं जलेषु गच्छन्तं घृतसदम् आज्यं प्राप्नुवन्तं व्योमसदं विमानैर्व्योम्नि गच्छन्तं जुष्टं प्रीतं त्वा त्वां गृह्णामि स्वीकरोमि,
हे सर्वरक्षक सभाध्यक्ष ! यस्यैष ते तव योनिः कारणम् अस्ति, तं जुष्टतमं त्वेन्द्राय दुष्टशत्रुविदारणाय गृह्णामि स्वीकरोमि ।
हे सार्वभौम राजन् ! अहमिन्द्राय विद्यायोगमोक्षैश्वर्याम्ययस्त्वमुपयामगृहीतः साधनोपसाधनैः संयुक्तः असि भवसि,पृथिविसदं पृथिव्यां गच्छन्तम् अन्तरिक्षसदम् अवकाशे गमकं दिविसदं न्यायप्रकाशे व्यवस्थितं देवसदं देवेषु=धार्मिकेषु विद्वत्स्ववस्थितं नाकसदम् अविद्यमानं कं=सुखं यस्मिन् तदकमेतन्नास्ति यस्मिन् परमेश्वरे धर्मो वा तत्रस्थं जुष्टं त्वा त्वां गृह्णामि स्वीकरोमि ।
हे सर्वसुखप्रद प्रजापते ! यस्यैष ते तव योनिः कारणम् अस्ति, तं जुष्टतमं त्वेन्द्राय सर्वैश्वर्य्यसुखप्राप्तये गृह्णामि स्वीकरोमि ॥ ९ । २ ॥
[हे सम्राट् !अहमिन्द्राय.......त्वां गृह्णामि]
Special
बृहस्पतिः । इन्द्रः=सम्राट् ॥ ध्रुवसदमिति पूर्वस्यार्षीपंक्तिः । पञ्चमः । अप्सुसदमित्यस्य विकृतिः मध्यमः ।।