Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 9 / Mantra 19

38 Mantra
9/19
Devata- प्रजापतिर्देवता Rishi- वसिष्ठ ऋषिः Chhand- निचृत् धृति, Swara- ऋषभः
Mantra with Swara
आ मा॒ वाज॑स्य प्रस॒वो ज॑गम्या॒देमे द्यावा॑पृथि॒वी वि॒श्वरू॑पे। आ मा॑ गन्तां पि॒तरा॑ मा॒तरा॒ चा मा॒ सोमो॑ऽअमृत॒त्त्वेन॑ गम्यात्। वाजि॑नो वाजजितो॒ वाज॑ꣳ ससृ॒वासो॒ बृह॒स्पते॑र्भा॒गमव॑जिघ्रत निमृजा॒नाः॥१९॥

आ। मा॒। वाज॑स्य। प्र॒स॒व इति॑ प्रऽस॒वः। ज॒ग॒म्या॒त्। आ। इ॒मेऽइती॒मे। द्यावा॑पृथि॒वीऽइति॒ द्यावा॑पृथि॒वी। वि॒श्वरू॑पे॒ऽइति॑ वि॒श्वऽरू॑पे। आ। मा॒। ग॒न्ता॒म्। पि॒तरा॑मा॒तरा॑। च॒। आ। मा॒। सोमः॑। अ॒मृ॒त॒त्वेनेत्य॑मृ॒तऽत्वेन॑। ग॒म्या॒त्। वाजि॑नः। वा॒ज॒जित॒ इति॑ वाजऽजितः। वाज॑म्। स॒सृ॒वास॒ इति॑ ससृ॒वासः॑। बृह॒स्पतेः॑। भा॒गम्। अव॑। जि॒घ्र॒त॒। नि॒मृ॒जा॒ना इति॑ निऽमृजा॒नाः ॥१९॥

Mantra without Swara
आ मा वाजस्य प्रसवो जगम्यादेमे द्यावापृथिवी विश्वरूपे । आ मा गन्ताम्पितरा मातरा चा मा सोमो ऽअमृतत्वेन गम्यात् । वाजिनो वाजजितो वाजँ ससृवाँसो बृहस्पतेर्भागमव जिघ्रत निमृजानाः ॥

आ। मा। वाजस्य। प्रसव इति प्रऽसवः। जगम्यात्। आ। इमेऽइतीमे। द्यावापृथिवीऽइति द्यावापृथिवी। विश्वरूपेऽइति विश्वऽरूपे। आ। मा। गन्ताम्। पितरामातरा। च। आ। मा। सोमः। अमृतत्वेनेत्यमृतऽत्वेन। गम्यात्। वाजिनः। वाजजित इति वाजऽजितः। वाजम्। ससृवास इति ससृवासः। बृहस्पतेः। भागम्। अव। जिघ्रत। निमृजाना इति निऽमृजानाः॥१९॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(वाजेवाजे) सङ्ग्रामे सङ्ग्रामे (अवत) पालयत (वाजिनः) वेगवन्तः (नः) अस्मान् (धनेषु) (विप्राः) विद्यासुशिक्षाजातप्रज्ञाः (अमृताः) स्वस्वरूपेण नाशरहिताः प्राप्तजीवन्मुक्तिसुखाः (ऋतज्ञाः) ये ऋतं=सत्यं जानन्ति ते (अस्य) प्रत्यक्षस्य (मध्वः) मधुनो=मधुरस्य रसस्य।अत्र कर्मणि षष्ठी (पिबत) (मादयध्वम्) हृष्यत (तृप्ता:) प्रीणिता: (यात) गच्छत (पथिभिः) मार्गैः (देवयानैः) देवा=विद्वांसो यान्ति यैर्धर्म्यैः ॥ अयं मन्त्रः शत० ५ । १ । ५ । २४ व्याख्यातः ॥ १८ ॥
Essence
राजपुरुषै: वेदादीनि शास्त्राण्यधीत्य, सुशिक्षया यथार्थबोधं प्राप्य, धार्मिकाणां विदुषां मार्गेण सदा गन्तव्यं, नेतरेषाम् । शरीरात्मबलपालनेनैव सततमानन्दितव्यम्,
[अस्माकं [धनेषु]=धनैस्तृप्ता मादयध्वम्]
प्रजाजना: स्वधनैरेतान् सततं तर्पयन्तु ।। ९।१८।।
Subject
अथैते परस्परस्मिन् कथं वर्त्तेरन्नित्युपदिश्यते ।।
Meaning of Anvay
हे ऋतज्ञाः! ये ऋतं=सत्यं जानन्ति ते अमृताः स्वस्वरूपेण नाशरहिताः प्राप्तजीवन्मुक्तिसुखाः वाजिनः वेगवन्तः विप्राः विद्यासुशिक्षाजातप्रज्ञाः । यूयं वाजेवाजे संग्रामे संग्रामे नः अस्मान् अवत पालयत, अस्य प्रत्यक्षस्य मध्वः मधुनः=मधुरस्य रसस्य पिबत, अस्माकं [धनेषु]=धनैस्तृप्ताः प्रीणिताः सन्तो मादयध्वं हृष्यत, देवयानैः देवाः=विद्वांसो यान्ति यैर्धर्म्यैःपथिभिः मार्गैःसततं यात गच्छत ॥ ९ । १८ ।।
[हे.....विप्रा ! यूयं.....देवयानैः पथिभिः सततं यात]
Meaning of Essence
देवयानैः पथिभिः=धार्मिकाणां विदुषां मार्गेण। धनेषु=स्वधनैः ।
Special
वसिष्ठः । बृहस्पतिः=राजा।। निचृत् त्रिष्टुप् । निषादः ।।