Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 9 / Mantra 16

38 Mantra
9/16
Devata- बृहस्पतिर्देवता Rishi- वसिष्ठ ऋषिः Chhand- भूरिक पङ्क्ति, Swara- पञ्चमः
Mantra with Swara
शन्नो॑ भवन्तु वा॒जिनो॒ हवे॑षु दे॒वता॑ता मि॒तद्र॑वः स्व॒र्काः। ज॒म्भय॒न्तोऽहिं॒ वृक॒ꣳ रक्षा॑सि॒ सने॑म्य॒स्मद्यु॑यव॒न्नमी॑वाः॥१६॥

शम्। नः॒। भ॒व॒न्तु॒। वा॒जिनः॑। हवे॑षु। दे॒वता॒तेति॑ दे॒वऽताता॑। मि॒तद्र॑व॒ इति॑ मि॒तऽद्र॑वः। स्व॒र्का इति॑ सुऽअ॒र्काः। ज॒म्भय॑न्तः। अहि॑म्। वृक॑म्। रक्षा॑सि। सने॑मि। अ॒स्मत्। यु॒य॒व॒न्। अमी॑वाः ॥१६॥

Mantra without Swara
शन्नो भवन्तु वाजिनो हवेषु देवताता मितद्रवः स्वर्काः । जम्भयन्तो हिँ वृकँ रक्षाँसि सनेम्यस्मद्युयवन्नमीवाः ॥

शम्। नः। भवन्तु। वाजिनः। हवेषु। देवतातेति देवऽताता। मितद्रव इति मितऽद्रवः। स्वर्का इति सुऽअर्काः। जम्भयन्तः। अहिम्। वृकम्। रक्षासि। सनेमि। अस्मत्। युयवन्। अमीवाः॥१६॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(शम्) सुखम् (नः) अस्माकम् (भवन्तु) (वाजिनः) प्रशस्तयुद्धविद्याविदः सुशिक्षितास्तुरङ्गाः (हवेषु) सङ्ग्रामेषु (देवताता) देवानां विदुषां कर्मसु । अत्र देवत्तातिल् ॥ अ० ४ । ४ । १४२ ॥ सुपां सुलुक् ॥ अ० ७ । १ । ३९ ॥ इति डादेशश्च (मितद्रवः) ये परिमितं द्रवन्ति=गच्छन्ति ते (स्वर्काः) शोभनोऽर्कोऽन्नं सत्कारो वा येषान्ते। अर्क इत्यन्ननामसु पठितम्॥ निघं० २ । ७ ।। (जम्भयन्तः) गात्राणि विनमयन्तः (अहिम्) मेघमिव चेष्टमानमुन्नतम् (वृकम्) चौरम् (रक्षांसि) हिंसकान् दस्यून् (सनेमि) सनातनम्। सनेमीति पुराणनामसु पठितम् ॥ निघं० ३ । १७ ॥ (अस्मत्) (युयवन्) युवन्तु=पृथक् कुर्वन्तु । अत्र लेटि शप: श्लु: (अमीवाः) ये रोगवद्वर्त्तमानाः शत्रवस्तान् ॥ अयं मन्त्रः शत० ५ । १।५ । २२ व्याख्यातः ॥ १६॥
Essence
ये श्रेष्ठाः प्रजापालने तत्परा व्याधिवच्छत्रूणां विनाशका न्यायकारिणो राजजनाः सन्ति, त एव सर्वेषां सुखं कर्त्तुं शक्नुवन्ति।। ९ । १६ ।।
Subject
के प्रजापालने शत्रुविनाशने च शक्तिमन्तो भवन्तीत्याह ।।
Meaning of Anvay
ये मितद्रवः ये परिमितं द्रवन्ति=गच्छन्ति ते स्वर्काः शोभनोऽर्कः=अन्नं सत्कारो वा येषां ते अहिं मेघमिव चेष्टमानमुन्नतं वृकं चौंर रक्षांसि हिंसकान् दस्यून् च जम्भयन्तः गात्राणि विनमयन्तः वाजिनः=वीराः प्रशस्तयुद्धविद्याविदः सुशिक्षितास्तुरङ्गाः नः अस्माकं देवताता देवानां=विदुषां कर्मसु हवेषु संग्रामेषु सनेमि सनातनं शंसुखं भवन्तु, तेऽस्मदमीवाः इव वर्त्तमानानरीन् [अमीवाः=ये रोगवद् वर्त्तमाना: शत्रवस्तान्] युयवन् युवन्तु=पृथक् कुर्वन्तु ।। ९ । १६ ।।
[ये........वीरा नो........शं भवन्तु, तेऽस्मदमीवा इव वर्तमानानरीन् युयवन्]
Special
वसिष्ठः । बृहस्पतिः=राजा।।भुरिक् पंक्तिः । पञ्चमः ।।