Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 9 / Mantra 10

38 Mantra
9/10
Devata- इन्द्राबृहस्पती देवते Rishi- बृहस्पतिर्ऋषिः Chhand- विराट् उत्कृति, Swara- षड्जः
Mantra with Swara
दे॒वस्या॒हꣳ स॑वि॒तुः स॒वे स॒त्यस॑वसो॒ बृहस्पते॑रुत्त॒मं नाक॑ꣳ रुहेयम्। दे॒वस्या॒हꣳ स॑वि॒तुः स॒वे स॒त्यस॑वस॒ऽइन्द्र॑स्योत्त॒मं ना॑कꣳरुहेयम्। दे॒वस्या॒हꣳ स॑वि॒तुः स॒वे स॒त्यप्र॑सवसो॒ बृह॒स्पते॑रुत्त॒मं नाक॑मरुहम्। दे॒वस्या॒हꣳ स॑वि॒तुः स॒वे स॒त्यप्र॑सवस॒ऽइन्द्र॑स्योत्त॒मं नाक॑मरुहम्॥१०॥

दे॒वस्य॑। अ॒हम्। स॒वि॒तुः। स॒वे। स॒त्यस॑वस॒ इति॑ स॒त्यऽस॑वसः। बृह॒स्पतेः॑। उ॒त्त॒ममित्यु॑त्ऽत॒मम्। नाक॑म्। रु॒हे॒य॒म्। दे॒वस्य॑। अ॒हम्। स॒वि॒तुः। स॒वे। स॒त्यस॑वस॒ इति॑ स॒त्यऽसव॑सः। इन्द्र॑स्य। उ॒त्त॒ममित्यु॑त्ऽत॒मम्। नाक॑म्। रु॒हे॒य॒म्। दे॒वस्य॑। अ॒हम्। स॒वि॒तुः। स॒वे। स॒त्यप्र॑सवस॒ इति॑ स॒त्यऽप्र॑सवसः। बृह॒स्पतेः॑। उ॒त्त॒ममित्यु॑त्ऽत॒मम्। नाक॑म्। अ॒रु॒ह॒म्। दे॒वस्य॑। अ॒हम्। स॒वि॒तुः। स॒वे। स॒त्यप्र॑सवस॒ इति॑ स॒त्यऽप्र॑सवसः। इन्द्र॑स्य। उ॒त्त॒ममित्यु॑त्ऽत॒मम्। नाक॑म्। अ॒रु॒ह॒म् ॥१०॥

Mantra without Swara
देवस्याहँ सवितुः सवे सत्यसवसो बृहस्पतेरुत्तमन्नाकँ रुहेयम् । देवस्याहँ सवितुः सवे सत्यसवस इन्द्रस्योत्तमन्नाकँ रुहेयम् । देवस्याहँ सवितुः सवे सत्यप्रसवसो बृहस्पतेरुत्तमन्नाकमरुहम् । देवस्याहँ सवितुः सवे सत्यप्रसवस इन्द्रस्योत्तमन्नाकमरुहम् ॥

देवस्य। अहम्। सवितुः। सवे। सत्यसवस इति सत्यऽसवसः। बृहस्पतेः। उत्तममित्युत्ऽतमम्। नाकम्। रुहेयम्। देवस्य। अहम्। सवितुः। सवे। सत्यसवस इति सत्यऽसवसः। इन्द्रस्य। उत्तममित्युत्ऽतमम्। नाकम्। रुहेयम्। देवस्य। अहम्। सवितुः। सवे। सत्यप्रसवस इति सत्यऽप्रसवसः। बृहस्पतेः। उत्तममित्युत्ऽतमम्। नाकम्। अरुहम्। देवस्य। अहम्। सवितुः। सवे। सत्यप्रसवस इति सत्यऽप्रसवसः। इन्द्रस्य। उत्तममित्युत्ऽतमम्। नाकम्। अरुहम्॥१०॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(देवस्य) सर्वतः प्रकाशमानस्य (अहम्) सभाध्यक्षो राजा (सवितुः) सकलजगत्प्रसवितुः परमेश्वरस्य (सवे) प्रसूते जगति (सत्यसवसः) सत्यं सवः=ऐश्वर्यं जगतः कारणं कार्यं च यस्य तस्य (बृहस्पतेः) बृहतां=प्रकृत्यादीनां पालकस्य (उत्तमम्) सर्वथोत्कृष्टम् (नाकम्) अविद्यमानदुःखं सर्वसुखयुक्तं तत्स्वरूपं मोक्षपदम् (रुहेयम्) (देवस्य) सर्वसुखप्रदातुः (अहम्) परोपकारी (सवितुः) सकलैश्वर्यप्रसवितुः (सवे) ऐश्वर्ये (सत्यसवसः) सत्यन्याययुक्तस्य (इन्द्रस्य) परमैश्वर्य्यसहितस्य सम्राजः (उत्तमम्) प्रशस्तम् (नाकम्) अविद्यमानदुःखं भोगम् (रुहेयम्) (देवस्य) अखिलविद्याशुभगुणकर्म्मस्वभावद्योतकस्य (अहम्) विद्यामभीप्सुः (सवितुः) समग्रविद्याबोधप्रसवितुः (सवे) विद्याप्रचारैश्वर्ये (सत्यप्रसवसः) सत्योऽविनाशी प्रसवः=प्रकटो बोधो यस्मात्तस्य (बृहस्पतेः) बृहत्या वेदवाण्याः पालकस्य (उत्तमम्) (नाकम्) सर्वदुःखप्रणाशकमानन्दम् (अरुहम्) आरूढोऽस्मि (देवस्य) धनुर्वेदादियुद्धविद्याप्रापकस्य (अहम्) योद्धा (सवितुः) शत्रुविजयप्रसवितुः (सवे) प्रेरणे (सत्यप्रसवसः) सत्यानां न्यायविजयादीनां प्रसवो यस्मात् तस्य (इन्द्रस्य) दुष्टशत्रुविदारकस्य (उत्तमम्) विजयाख्यम् (नाकम् ) सर्वसुखप्रदम् (अरुहम्) आरूढोऽस्मि ॥ अयं मन्त्रः शत० ५।१।५ । २-५ व्याख्यातः ।। १० ।।
Essence
अत्र वाचकलुप्तोपमालङ्कारः।। राजप्रजाजनैः परस्परमविरोधेनेश्वरचक्रवर्त्तिराज्यसमग्रविद्या: सम्भज्य सर्वाण्युत्तमानि सुखानि प्राप्तव्यानि, प्रापयितव्यानि च ॥ ९ । १० ।।
Subject
मनुष्यैर्विदुषामेवाऽनुकरणं कार्यं न मूढानामित्युपदिश्यते ॥
Meaning of Anvay
हे प्रजाराजजनाः ! यथाऽहं सभाध्यक्षो राजा सत्यसवसः सत्यं सवः=ऐश्वर्यं जगतः कारण कार्यं च यस्य तस्य देवस्य सर्वतः प्रकाशमानस्य बृहस्पतेः बृहतां=प्रकृत्यादीनां पालकस्य सवितुः सकलजगत्प्रसवितुः जगदीश्वरस्यसवे प्रसूते जगति उत्तमं सर्वथोत्कृष्टं नाकम् अविद्यमानदुःखं सर्वसुखयुक्तं तत्स्वरूपं मोक्षपदं रुहेयम्।
हे राजाऽमात्यपुरुषाः ! यथाहं परोपकारी सत्यसवसः सत्यन्याययुक्तस्य देवस्य सर्वसुखप्रदातुः सवितुः सकलैश्वर्यप्रसिवतुः इन्द्रस्य परमैश्वर्यसहितस्य समाजः सवे ऐश्वर्येउत्तमं प्रशस्तं नाकम् अविद्यमानदुःखं भोगं रुहेयम्--
हे अध्येत्रध्यापका विद्याप्रिया जनाः ! यथाऽहं विद्यामभीप्सुःसत्यप्रसवसः सत्य:=अविनाशी प्रसवः=प्रकटो बोधो यस्मात्तस्य सवितुः समग्रविद्याबोधप्रसवितुः देवस्य अखिल विद्याशुभगुणकर्म्मस्भावद्योतकस्य बृहस्पतेः बृहत्याः=वेदवाण्याः पालकस्य सवे विद्या प्रचारैश्वर्येउत्तमं नाकं सर्वदुःखप्रणाशकमानन्दम् अरुहम्आरूढोऽस्मि--
हे विजयाभिकांक्षिणो योद्धारो वीराः !यथाऽहं योद्धा सत्यप्रसवसः सत्यानां=न्यायविजयादीनां प्रसवो यस्मात् तस्य देवस्य धनुर्वेदादियुद्धविद्याप्रापकस्य सवितुः शत्रुविजयप्रसवितुः इन्द्रस्य दुष्टशत्रुविदारकस्य सवे प्रेरणे उत्तमं विजयाख्यं नाकं सर्वसुखप्रदम् अरुहम्आरूढोऽस्मितथा यूयमप्यारोहत ।। ९ । १० ।।
[हे प्रजाराजजनाः! यथाऽहं .......सवितुर्जगदीश्वरस्य सव उत्तमं नाकं रुहेयं.........तथा यूयमप्यारोहत]
Meaning of Essence
नाकम्=ईश्वरचक्रवर्त्तिराज्यसमग्रविद्या:, सर्वाण्युत्तमानि सुखानि।।
Special
बृहस्पतिः । इन्द्राबृहस्पती=सम्राड्जगदीश्वरश्च । विराडुत्कृतिः । षड्जः ।।