Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 8 / Mantra 9

63 Mantra
8/9
Devata- गृहपतयो विश्वेदेवा देवताः Rishi- भरद्वाज ऋषिः Chhand- प्राजापत्या गायत्री,आर्षी उष्णिक्,स्वराट आर्षी पङ्क्ति, Swara- पञ्चमः
Mantra with Swara
उ॒प॒या॒मगृ॑हीतोऽसि॒ बृह॒स्पति॑सुतस्य देव सोम त॒ऽइन्दो॑रिन्द्रि॒याव॑तः॒ पत्नी॑वतो॒ ग्रहाँ॑२ऽऋध्यासम्। अ॒हं प॒रस्ता॑द॒हम॒वस्ताद् यद॒न्तरि॑क्षं॒ तदु॑ मे पि॒ताभू॑त्। अ॒हꣳ सूर्य॑मुभ॒यतो॑ ददर्शा॒हं दे॒वानां॑ पर॒मं गुहा॒ यत्॥९॥

उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मगृ॑हीतः। अ॒सि॒। बृह॒स्पति॑सुत॒स्येति॒ बृह॒स्पति॑ऽसुतस्य। दे॒व॒। सो॒म॒। ते॒। इन्दोः॑। इ॒न्द्रि॒याव॑तः। इ॒न्द्रि॒यव॑त॒ इती॑न्द्रि॒यऽव॑तः। पत्नी॑वत॒ इति॒ पत्नी॑ऽवतः। ग्रहा॑न्। ऋ॒ध्या॒स॒म्। अ॒हम्। प॒रस्ता॑त्। अ॒हम्। अ॒वस्ता॑त्। यत्। अ॒न्तरिक्ष॑म्। तत्। ऊँ॒ऽइत्यूँ॑। मे॒। पि॒ता। अ॒भू॒त्। अ॒हम्। सू॑र्य्यम्। उ॒भ॒यतः॑। द॒द॒र्श॒। अ॒हम्। दे॒वाना॑म्। प॒र॒मम्। गुहा॑। यत् ॥९॥

Mantra without Swara
उपयामगृहीतो सि बृहस्पतिसुतस्य देव सोम त इन्दोरिन्द्रियावतं पत्नीवतो ग्रहाँ ऋध्यासम् । अहम्परस्तादहमवस्ताद्यदन्तरिक्षन्तदु मे पिताभूत् । अहँ सूर्यमुभयतो ददर्शाहन्देवानां परमङ्गुहा यत् ॥

उपयामगृहीत इत्युपयामगृहीतः। असि। बृहस्पतिसुतस्येति बृहस्पतिऽसुतस्य। देव। सोम। ते। इन्दोः। इन्द्रियावतः। इन्द्रियवत इतीन्द्रियऽवतः। पत्नीवत इति पत्नीऽवतः। ग्रहान्। ऋध्यासम्। अहम्। परस्तात्। अहम्। अवस्तात्। यत्। अन्तरिक्षम्। तत्। ऊँऽइत्यूँ। मे। पिता। अभूत्। अहम्। सूर्य्यम्। उभयतः। ददर्श। अहम्। देवानाम्। परमम्। गुहा। यत्॥९॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
पदार्थ: - (उपयामगृहीतः)(असि)(बृहस्पतिसुतस्य) बृहत्या=वेदवाण्याः पतेः=पालकस्य पुत्रस्य (देव) कमनीयतम (सोम) ऐश्वर्यसम्पन्न (ते) तव (इन्दोः) सोमगुणसम्पन्नस्य (इन्द्रियावतः) बहुधनयुक्तस्य इन्द्रियमिति धनना० ॥ निघं० २ । १० ॥(पत्नीवतः) प्रशस्ता यज्ञसम्बन्धिनी जाया यस्य (ग्रहान्) गृह्यन्ते=स्वीक्रियन्ते विवाहकाले नियतशिक्षाविषया ये तान् (ऋध्यासम्) वर्द्धिषीय (अहम्)(परस्तात्) उत्तरस्मात् (अहम्)(अवस्तात्) अर्वाचीनात् समयात् (यत्)(अन्तरिक्षम्) अन्तरं क्षयमन्तःकरणे क्षयरहितं विज्ञानम् (तत्)(उ) वितर्के (मे) मम (पिता) पालको जनकः (अभूत्) भवति। वर्तमाने लट् उक्तपूर्वापरभावतः (अहम्)(सूर्यम्) चराचरात्मानमीश्वरम् (उभयतः)(ददर्श) दृष्टवान् दृष्टवती चास्मि (अहम्)(देवानाम्) विदुषाम् (परमम्) अत्युत्तमम् (गुहा) गुह्यन्ते संव्रियन्ते सकला विद्या यया बुद्ध्या तस्याम् । अत्र सुपां सुलुक् ॥ अ० ७ । १ । ३९ ॥इति ङेर्लुक्(यत्) ॥ अयं मंत्र: शत० ४।४। २ । १२-१४ व्याख्यातः ॥ ९ ॥
Essence
स्त्रीपुरुषौ परस्परं विवाहात्पूर्वं सम्यक् परीक्षां कृत्वा तुल्यगुणकर्मस्वभावरूपबलारोग्यपुरुषार्थ- विद्यायुक्तौ स्वयंवरविधानेन विवाहविधायेत्थं प्रयतेतां यतो धर्मार्थकाममोक्षाणां वृद्धिं प्राप्नुयाताम् ।
[यो मे=मम पिता=पालकोऽध्यापको वा विद्वान्भूत् तत्सकाशात् पूर्णां विद्यां प्राप्याहं यं परमं सूर्यमुभयतो ददर्श तं त्वमपि पश्य]
यस्य मातापितरौ विद्वांसौ न स्यातां तयोरपत्यान्यप्युत्तमानि भवितुं न शक्नुवन्ति । अतः पूर्ण- विद्यासुशिक्षौ भूत्वैव गृहाश्रममारभेताम् ॥ ८ ।९॥
Subject
पुनर्गार्हस्थ्यधर्म्ममाह ॥
Meaning of Anvay
- हे सोम ऐश्वर्यसम्पन्न देव ! कमनीयतम यतस्त्वं मया कुमार्योपयामगृहीतः[उपयामेन=विवाहनियमेन गृहीतः] असि तस्येन्दो: सोमगुणासम्पन्नस्य इन्द्रियावतः बहुधनयुक्तस्य पत्नीवतः प्रशस्ता यज्ञसम्बन्धिनी जाया यस्य बृहस्पतिसुतस्य बृहत्या:=वेदवाण्यापते:=पालकस्य पुत्रस्य ते=तव ग्रहान् गृह्यन्ते=स्वीक्रियन्ते विवाहकाले नियतशिक्षाविषया ये तान् प्राप्याहं परस्ताद् उत्तरस्माद् अवस्ताद् अर्वाचीनात् समयात्ऋध्यासं वर्द्धिषीय ।
यद्देवानां विदुषां गुहा गुह्यन्ते=संव्रियन्ते सकला विद्या यया बुद्ध्या तस्याम् स्थितमन्तरिक्षंविज्ञानम्= अन्तरं क्षयमन्तःकरणे क्षयरहितं विज्ञानम् [अहम्] अन्वेमि तत्त्वमपि प्राप्नुहि।
या मे=मम पिता=पालकोऽध्यापको वा जनकः विद्वान्भूत् भवति तत्सकाशात् पूर्णां विद्यां प्राप्याहं यम्परमम् अत्युत्तमं सूर्य्यं चराचरात्मानमीश्वरम् उभयतो ददर्श दृष्टवान् दृष्टवती चास्मि तं त्वमपि पश्य ॥८ । ९॥
[हे.......देव! यतस्त्वं मया कुमार्योपयामगृहीतोऽसि, तस्य.......ते=तवाहं ग्रहान् प्राप्याहं परस्तादवस्तादध्यासम्]
Meaning of Essence
ऋृध्यासम्=वृद्धिं प्राप्नुयाम् । पिता=विद्वान् पिता, विदुषी माता च ॥
Special
उपयामगृहीतोऽसीत्यस्य भरद्वाजः । गृहपतयो विश्वेदेवा:=गृहस्था विद्वांसः ॥ आद्यस्य प्राजापत्यागायत्री, बृहस्पतिसुतस्येति मध्यमस्यार्ष्युष्णिक्, अहमित्युत्तरस्य स्वराडार्षी पंक्तिश्च । क्रमेणषड्जर्षभपञ्चमाः॥