Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 8 / Mantra 7

63 Mantra
8/7
Devata- सविता गृहपतिर्देवता Rishi- भरद्वाज ऋषिः Chhand- विराट ब्राह्मी अनुष्टुप्, Swara- गान्धारः
Mantra with Swara
उ॒प॒या॒मगृ॑हीतोऽसि सावि॒त्रोऽसि चनो॒धाश्च॑नो॒धाऽअ॑सि॒ चनो॒ मयि॑ धेहि। जिन्व॑ य॒ज्ञं जिन्व॑ य॒ज्ञप॑तिं॒ भगा॑य दे॒वाय॑ त्वा सवि॒त्रे॥७॥

उ॒प॒या॒मगृही॑त॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। सा॒वि॒त्रः। अ॒सि॒। च॒नो॒धा इति॑ चनः॒ऽधाः। च॒नो॒धा इति॑ चनः॒ऽधाः। अ॒सि॒। चनः॑। मयि॑। धे॒हि॒। जिन्व॑। य॒ज्ञम्। जिन्व॑। य॒ज्ञप॑ति॒मिति॑ य॒ज्ञऽप॑तिम्। भगा॑य। दे॒वाय॑। त्वा॒। स॒वि॒त्रे ॥७॥

Mantra without Swara
उपयामगृहीतो सि सावित्रो सि चनोधाश्चनोधा असि चनो मयि धेहि । जिन्व यज्ञञ्जिन्व यज्ञपतिं भगाय देवाय त्वा सवित्रे ॥

उपयामगृहीत इत्युपयामऽगृहीतः। असि। सावित्रः। असि। चनोधा इति चनःऽधाः। चनोधा इति चनःऽधाः। असि। चनः। मयि। धेहि। जिन्व। यज्ञम्। जिन्व। यज्ञपतिमिति यज्ञऽपतिम्। भगाय। देवाय। त्वा। सवित्रे॥७॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(उपयामगृहीतः) उपयामेन विवाहनियमेन गृहीतः (असि)(सावित्रः) सविता=सकल- जगदुत्पादक: परमेश्वरो देवता यस्य सः (असि)(चनोधाः) चनांस्यन्नानि दधातीति। चन इत्यन्ननामसु पठितम् ॥ निघं० ६ । १६ ॥(चनोधाः) अभ्यासेनाधिकार्थो ग्राह्यः, सर्वेभ्योऽधिकान्नवान् गम्यते ॥ अभ्यासे भूयांसमर्थे मन्यते ॥ निरु० १० । ४२ ॥(असि)(चनः)(मयि) अन्नग्रहणनिमित्तायां विवाहितायां स्त्रियाम्(धेहि) घर (जिन्व) प्राप्नुहि जानीहि वा । जिन्वतीति गतिकर्मसु पठितम् ॥ निघं० २। १४ ॥(यज्ञम्) धर्म्मदृढैः पुरुषैः संगन्तव्यम्(जिन्व) प्रीणीहि (यज्ञपतिम्) गृहाश्रमस्य पालकं पुरुषं पालिकां स्त्रियं वा (भगाय) धनाद्याय सेवनीयायैश्वर्य्याय । भग इति धननामसु पठितम् ॥ निघं० २ । १० ॥(देवाय) दिव्याय कमनीयाय (त्वा) त्वाम् (सवित्रे) संतानोत्पादकाय ॥अयं मन्त्रः शत० ४ ।४ । १। ६ व्याख्यातः ॥ ७॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः॥ विवाहितस्त्रीपुरुषौ प्राप्त्यनुकूलव्यवहारेण परस्परमैश्वर्यं प्राप्नुयातां प्रीत्या सन्तानोत्पत्तिं चाचरेताम् ॥ ८ । ७॥
Subject
पुनश्च गृहस्थधर्ममुपदिश्यते ॥
Meaning of Anvay
हे पुरुष ! त्वया यथाहं नियमोपनियमैः संगृहीतास्मि तथा मया त्वमुपयामगृहीतः उपयामेन=विवाहनियमेन गृहीतः असि।
त्वं चनोधाः चनांस्यन्नानि दधातीति चनोधा: अभ्यासेनाधिकार्थो ग्राह्य:, सर्वेभ्योऽधिकान्नवान् गम्यते, असि, सावित्रः सविता=सकलजगदुत्पादक: परमेश्वरो देवता यस्य स चासि तथाहमस्मि, त्वं मयि अन्नग्रहणनिमित्तायां विवाहितायां स्त्रियां चनोधेहिधर अहमपि त्वयि दध्याम् ।
त्वं यज्ञं धर्मदृढैः पुरुषैः संगन्तव्यं जिन्व प्रीणीहि अहमपि जिन्वेयम् ।
सवित्रे सन्तानोत्पादकाय देवाय दिव्याय कमनीयाय भगाय धनाद्याय यज्ञपत्नीं मां जिन्व प्राप्नुहि जानीहि वा एतस्मै यज्ञपतिं गृहश्रामस्य पालकं पुरुषं पालिकां स्त्रियं वा [त्वा]=त्वामहमपि जिन्वेयम् ॥ ८ । ७॥
[हे पुरुष ! त्वया यथाहं.....संगृहीतास्मि तथा मया त्वयुपयामगृहीतीऽसि, त्वं चनोधा......असि, सवित्रश्चासि तथाहमस्मि, त्मं यज्ञं जिन्वाहमपि जिन्वेयम्]
Special
भरद्वाजः । सविता गृहपति:=सन्तानेप्सुगृहस्थः। विराड् ब्राह्म्यनुष्टुप् । गान्धारः ॥