Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 8 / Mantra 63

63 Mantra
8/63
Devata- यज्ञो देवता Rishi- कश्यप ऋषिः Chhand- स्वराट आर्षी गायत्री, Swara- षड्जः
Mantra with Swara
आ प॑वस्व॒ हिर॑ण्यव॒दश्वव॑वत् सोम वी॒रव॑त्। वाजं॒ गोम॑न्त॒माभ॑र॒ स्वाहा॑॥६३॥

आ। प॒व॒स्व॒। हिर॑ण्यव॒दिति॒ हिर॑ण्यऽवत्। अश्व॑व॒दित्यश्व॑ऽवत्। सो॒म॒। वी॒रव॒दिति॑ वी॒रऽव॑त्। वाज॑म्। गोम॑न्त॒मिति॒ गोऽम॑न्तम्। आ। भ॒र॒। स्वाहा॑ ॥६३॥

Mantra without Swara
आपवस्व हिरण्यवदश्ववत्सोम वीरवत् । वाजङ्गोमन्तमाभर स्वाहा ॥

आ। पवस्व। हिरण्यवदिति हिरण्यऽवत्। अश्ववदित्यश्वऽवत्। सोम। वीरवदिति वीरऽवत्। वाजम्। गोमन्तमिति गोऽमन्तम्। आ। भर। स्वाहा॥६३॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(अ) समन्तात् (पवस्व) पवित्रीकुरु (हिरण्यवत्) हिरण्यादिना तुल्यम् (अश्ववत्) अश्वादिभि: समानम् (सोम) ऐश्वर्य्यमिच्छुक गृहस्थ (वीरवत्) प्रशस्तवीरसदृशम् (वाजम्) अन्नादिपदार्थमयं यज्ञम् । अत्रार्शआदित्वादच्(गोमन्तम्) प्रशस्तेन्द्रियादिसम्बन्धम् (आ)(भर) धर (स्वाहा) सत्यया वाचा सत्यक्रियया वा ॥ ६३ ॥
Essence
अत्रोपमालङ्कारः ॥ मनुष्यैः पुरुषार्थेन सुवर्णादिधनभासाद्याश्वादयो रक्षणीयास्तदनन्तरं वीराश्च, कुतो यावदेतां सामग्रीं नाभरन्ति तावद्गृहाश्रमारब्धव्या यज्ञमप्यलं कर्त्तुं न शक्नुवन्ति ॥ ८। ६३ ॥
[पूर्वापराध्यायार्थसंगतिमाह]
अस्मिन्नध्याये गृहस्थधर्मसेवनाय ब्रह्मचारिण्या कन्यया कुमारब्रह्मचारिस्वीकरणं, गृहाश्रमधर्मवर्णनं, राजप्रजासभापत्यादिकृत्यमुक्तमत एतदध्यायोक्तार्थस्य पूर्वाध्यायोक्तार्थेन सह संगतिरस्तीति बोद्धव्यम् । ८॥
इति श्रीयुतपण्डितसुदर्शनदेवाचार्यकृते दयानन्द-यजुर्वेदभाष्य-भास्करेऽषष्ठोऽध्यायः ॥
Subject
मनुष्यैः किंवद्यज्ञः सेवनीय इत्याह ॥
Meaning of Anvay
हे सोम ! ऐश्वर्यमिच्छुक गृहस्थ ! त्वं स्वाहा सत्यया वाचा सत्यक्रियया वा हिरण्यवत् हिरण्यादिना तुल्यम् अश्ववत् अश्वादिभि: समानंवीरवत् प्रशस्तवीरसदृशं गोमन्तं प्रशस्तेन्द्रियादिसम्बन्धं वाजम्=अन्नम् अन्नादिपदार्थमियं यज्ञम् आ-भर समन्ताद् धर, तेन जगदापवस्व समन्तात् पवित्रीकुरु ॥ ८ । ६३॥
[हे सोम ! त्वं स्वाहा हिरण्यवदश्ववद्वीरवद् .....वाजमन्त्रमाभर, तेन जगदापवस्व]
Special
कश्यपः। यज्ञ:=स्पष्टम्॥ स्वराडार्षी गायत्री। षड्जः ॥