Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 8 / Mantra 62

63 Mantra
8/62
Devata- यज्ञो देवता Rishi- वसिष्ठ ऋषिः Chhand- स्वराट आर्षी त्रिष्टुप्, Swara- धैवतः
Mantra with Swara
य॒ज्ञस्य॒ दोहो॒ वित॑तः पुरु॒त्रा सोऽअ॑ष्ट॒धा दिव॑म॒न्वात॑तान। स य॑ज्ञ धुक्ष्व॒ महि॑ मे प्र॒जाया॑ रा॒यस्पोषं॒ विश्व॒मायु॑रशीय॒ स्वाहा॑॥६२॥

य॒ज्ञस्य॑। दोहः॑। वित॑त॒ इति॒ विऽत॑तः। पु॒रु॒त्रेति॑ पुरु॒ऽत्रा। सः। अ॒ष्ट॒धा। दिव॑म्। अ॒न्वात॑ता॒नेत्य॑नु॒ऽआत॑तान। सः। य॒ज्ञ। धु॒क्ष्व॒। महि॑। मे॒। प्र॒जाया॒मिति॑ प्र॒ऽजाया॑म्। रा॒यः। पोष॑म्। विश्व॑म्। आयुः॑। अ॒शी॒य॒। स्वाहा॑ ॥६२॥

Mantra without Swara
यज्ञस्य दोहो विततः पुरुत्रा सो अष्टधा दिवमन्वा ततान । स यज्ञ धुक्ष्व महि मे प्रजयाँ रायस्पोषँ विश्वमायुरशीय स्वाहा ॥

यज्ञस्य। दोहः। वितत इति विऽततः। पुरुत्रेति पुरुऽत्रा। सः। अष्टधा। दिवम्। अन्वाततानेत्यनुऽआततान। सः। यज्ञ। धुक्ष्व। महि। मे। प्रजायामिति प्रऽजायाम्। रायः। पोषम्। विश्वम्। आयुः। अशीय। स्वाहा॥६२॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(यज्ञस्य)(दोहः) प्रपूर्णः सामग्रीसमूहः(विततः) विस्तीर्ण: (पुरुत्रा) पुरुषु=पदार्थेषु (सः)(अष्टधा) दिग्भिरष्टप्रकार: (दिवम्) सूर्य्यप्रकाशम्(अन्वाततान) आच्छाद्य विस्तारयति (सः) सूर्य्यप्रकाशः (यज्ञ) यः संगम्यते तत्सम्बुद्धौ (धुक्ष्व)(महि) महान्तं महद्वा (मे) मम (प्रजायाम्)(रायः) धनादे: (पोषम्) पुष्टिम् (विश्वम्) सर्वम् (आयुः) जीवनम् (अशीय) प्राप्नुयाम् (स्वाहा) सत्यवा- ग्युक्त्या क्रियया ॥ ६२॥
Essence
मनुष्यैः सदा यज्ञारम्भपूर्त्ती कृत्वा प्रजाभ्यो महत्सुखं प्रापणीयमिति॥
Subject
पुनर्यज्ञविषयमाह ॥
Meaning of Anvay
हे [यज्ञ]=यज्ञसम्पादक विद्वन्! यः संगम्यते तत्सम्बुद्धौ यो यज्ञस्य पुरुत्रा पुरुषु=पदार्थेषु विततः विस्तीर्णःअष्टधा दिग्भिरष्ट प्रकार: दोहः प्रपूर्णः सामग्रीसमूहः अस्ति, तं त्वं दिवं सूर्य्यप्रकाशम् अन्वाततानआच्छाद्य विस्तारय सः सूर्य्यप्रकाशः त्वं त यज्ञं धुक्ष्व ।
यो मे=मम प्रजायांविश्वं सर्वंमहि महान्तं महद्वा रायः धनादे: पोषं पुष्टिम् आयु: जीवनंचान्वातनोति, तमहं स्वाहा सत्यवाग्युक्त्या क्रियया अशीय प्राप्नुयाम् ॥ ८ । ६२॥।
[हे [यज्ञ]=यज्ञसम्पादक विद्वन्! यो यज्ञस्य पुरुत्रा विततोऽष्टधा दोहोऽस्ति तं त्वं दिवमन्वाततान,... यो मे=मम प्रजायां विश्वं महि रायस्पोषमायुश्चान्वाततान, तमहं स्वाहा अशीय]
Special
यज्ञस्येत्यस्य वसिष्ठः । यज्ञ:=स्पष्टम् । स्वराडार्षी त्रिष्टुप् । धैवतः॥