Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 8 / Mantra 61

63 Mantra
8/61
Devata- विश्वेदेवा देवताः Rishi- वसिष्ठ ऋषिः Chhand- ब्राह्मी उष्णिक्, Swara- ऋषभः
Mantra with Swara
चतु॑स्त्रिꣳश॒त् तन्त॑वो॒ ये वि॑तत्नि॒रे य इ॒मं य॒ज्ञ स्व॒धया॒ दद॑न्ते। तेषां॑ छि॒न्नꣳ सम्वे॒तद्द॑धामि॒ स्वाहा॑ घ॒र्मोऽअप्ये॑तु दे॒वान्॥६१॥

चतु॑स्त्रिꣳश॒दिति॒ चतुः॑ऽत्रिꣳशत्। तन्त॑वः। ये। वि॒त॒त्नि॒र इति॑ विऽतत्नि॒रे। ये। इ॒मम्। य॒ज्ञम्। स्व॒धया॑। दद॑न्ते। तेषा॑म्। छि॒न्नम्। सम्। ऊँ॒ऽइत्यूँ॑। ए॒तत्। द॒धा॒मि॒। स्वाहा॑। घ॒र्मः। अपि॑। ए॒तु॒। दे॒वान् ॥६१॥

Mantra without Swara
चतुस्त्रिँशत्तन्तवो ये वितत्निरे य इमँ यज्ञँ स्वधया ददन्ते । तेषाय्छिन्नँ सम्वेतद्दधामि स्वाहा घर्मा ऽअप्येतु देवान् ॥

चतुस्त्रिꣳशदिति चतुःऽत्रिꣳशत्। तन्तवः। ये। वितत्निर इति विऽतत्निरे। ये। इमम्। यज्ञम्। स्वधया। ददन्ते। तेषाम्। छिन्नम्। सम्। ऊँऽइत्यूँ। एतत्। दधामि। स्वाहा। घर्मः। अपि। एतु। देवान्॥६१॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(चतुस्त्रिंशत्) अष्टौ वसव एकादश रुद्रा द्वादशादित्या इन्द्रः प्रजापतिः प्रकृतिश्चेति (तन्तवः) सूत्रवत्समवेतुं शीला: (ये)(वितत्निरे)(ये)(इमम्)(यज्ञम्) सौख्यजनकम्(स्वधया) अन्नादिना (ददन्ते)(तेषाम्)(छिन्नम्) द्वैधीकृतम् (सम्)(उ) वितर्के(एतत्)(दधामि)(स्वाहा) सत्यया क्रियया वाचा वा (घर्म्मः) यज्ञ: घर्म्म इति यज्ञना० ॥ निघं० ३।१७ ॥(अपि) निश्चये (एतु)(देवान्) विदुषः ॥ अयम्मन्त्रः शत० १२ । ६। १।३७ व्याख्यातः ॥ ६१॥
Essence
अस्य प्रत्यक्षस्य जगतश्चतुस्त्रिंशत् तत्त्वानि कारणानि सन्ति, तेषां गुण-दोषान् ये जानन्ति तानेव सुखमेति ॥८ । ६१॥
Subject
अस्य जगत उत्पत्तौकति कारणानि सन्तीत्याह ॥
Meaning of Anvay
हे चतुस्त्रिंशत् अष्टौ वसवः, एकादश रुद्राः, द्वादशादित्याः, इन्द्रः, प्रजापतिः प्रकृतिश्चेति तन्तवः सूत्रवत्समवेतुं शीलाः यज्ञं सौख्यजनकंवितत्निरे, ये च स्वधया अन्नादिना इमं ददन्ते, तेषां छिन्नं=¬यद् द्वैधीकृतं तदेतत्स्वाहा सत्यया क्रियया वाचा वा [सं+दधामि]=संदधाति, उ इति वितर्कें घर्म्मः यज्ञः देवान् विदुषः अपि+एतु निश्चयेनैतु ॥३ । ६१॥
[चतुस्त्रिंशत् तन्तवो यज्ञं वितत्निरे]
Meaning of Essence
यज्ञम्=जगत् ॥
Special
वसिष्ठः। विश्वेदेवाः=जगदुत्पत्तिहेतवः ॥ साम्न्युष्णिक् । ऋषभः ॥