Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 8 / Mantra 60

63 Mantra
8/60
Devata- विश्वेदेवा देवताः Rishi- वसिष्ठ ऋषिः Chhand- स्वराट ब्राह्मी त्रिष्टुप्, Swara- धैवतः
Mantra with Swara
दे॒वान् दिव॑मगन् य॒ज्ञस्ततो॑ मा॒ द्रवि॑णमष्टु मनु॒ष्यान॒न्तरि॑क्षमगन् य॒ज्ञस्ततो॑ मा॒ द्रवि॑णमष्टु पि॒तॄन् पृ॑थि॒वीम॑गन् य॒ज्ञस्ततो॑ मा॒ द्रवि॑णमष्टु॒ यं कं च॑ लो॒कमग॑न् य॒ज्ञस्ततो॑ मे भ॒द्रम॑भूत्॥६०॥

दे॒वान्। दिव॑म्। अ॒ग॒न्। य॒ज्ञः। ततः॑। मा॒। द्रवि॑णम्। अ॒ष्टु॒। म॒नु॒ष्या᳖न्। अ॒न्तरि॑क्षम्। अ॒ग॒न्। य॒ज्ञः। ततः॑। मा॒। द्रवि॑णम्। अ॒ष्टु॒। पि॒तॄन्। पृ॒थि॒वीम्। अ॒ग॒न्। य॒ज्ञः। ततः॑। मा॒। द्रवि॑णम्। अ॒ष्टु॒। यम्। कम्। च॒। लो॒कम्। अ॒ग॒न्। य॒ज्ञः। ततः॑। मे॒। भ॒द्रम्। अ॒भू॒त् ॥६०॥

Mantra without Swara
देवान्दिवमगन्यज्ञस्ततो मा द्रविणमष्टु मनुष्यानन्तरिक्षमगन्यज्ञस्ततो मा द्रविणमष्टु पितऋृन्पृथिवीमगन्यज्ञस्ततो मा द्रविणमष्टु यङ्कञ्च लोकमगन्यज्तो मे भद्रमभूत् ॥

देवान्। दिवम्। अगन्। यज्ञः। ततः। मा। द्रविणम्। अष्टु। मनुष्यान्। अन्तरिक्षम्। अगन्। यज्ञः। ततः। मा। द्रविणम्। अष्टु। पितॄन्। पृथिवीम्। अगन्। यज्ञः। ततः। मा। द्रविणम्। अष्टु। यम्। कम्। च। लोकम्। अगन्। यज्ञः। ततः। मे। भद्रम्। अभूत्॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(देवान्) दिव्यभोगान् (दिवम्) विद्याप्रकाशम् (अगन्) प्राप्नुवन्ति । अत्र लिङर्थे लुङ्(यज्ञः) पूर्वोक्तस्सर्वैः संगमनीयः (ततः) तस्मात् (मा) माम् (द्रविणम्) विद्यादिकम्(अष्टु) प्राप्नोतु (मनुष्यान्)(अन्तरिक्षम्) मेघमण्डलम् (अगन्)(यज्ञ:)(ततः)(मा)(द्रविणम्) धनादिकम् (अष्टु)(पितृन्) ऋतून् (पृथिवीम्)(अगन्)(यज्ञः)(ततः)(मा)(द्रविणम्) प्रत्यृतुसुखकरम् (अष्टु)(यम्)(कम्)(च)(लोकम्)(अगन्) गच्छन्तु (यज्ञः)(ततः)(मे) मम (भद्रम्) भजनीयं कल्याणम् (अभूत्) भवतु॥ अयं मन्त्रः शत० ४। ५ । ७ । ८ व्याख्यातः ॥ ८ । ६० ॥.
Essence
यस्माद्यज्ञात् सर्वाणि सुखानि जायन्ते तस्यानुष्ठानं सर्वैर्मनुष्यैः कुतो न कार्य्यमिति ॥८। ६०॥
Subject
पुनस्तदेवाह॥
Meaning of Anvay
विद्वांसो यो यज्ञः पूर्वोक्तस्सर्वै: संङ्गमनीय: दिवं विद्याप्रकाशंदेवान् दिव्यभोगान् प्रापयति तमगन् प्राप्नुवन्ति, ततः तस्मात् मा मां द्रविणं विद्यादिकम् अष्टु प्राप्नोतु ।
यो यज्ञोऽन्तरिक्षं मेघमण्डलं मनुष्यानाप्नोति, तमगन् प्राप्नुवन्ति ततः तस्मात् मा मां द्रविणं धनादिकम् अष्टु प्राप्नोतु।
यो यज्ञः पृथिवीं पितृन् ऋतून् प्रापयति तमगन् प्राप्नुवन्ति ततः तस्मात् मा मां द्रविणं प्रत्यृतु-सुख- करम् अष्टु प्राप्नोतु ।
यो यज्ञः यं कं च लोकमगन् गच्छतुततो मेममभद्रं भजनीयं कल्याणम् अभूत् भवतु॥ ८ । ६० ॥
[विद्वांसो यां यज्ञो दिवं देवान् प्रापयति तमगन्, ततो मा द्रविणमष्टु]
Special
वसिष्ठः। विश्वेदेवा:=सर्वे विद्वांसो दिव्यभोगाश्च। स्वराट्रट् साम्नी त्रिष्टुप् । धैवतः ॥