Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 8 / Mantra 6

63 Mantra
8/6
Devata- गृहपतयो देवताः Rishi- भरद्वाज ऋषिः Chhand- निचृत् आर्षी त्रिष्टुप्, Swara- धैवतः
Mantra with Swara
वा॒मम॒द्य स॑वितर्वा॒ममु श्वो दि॒वेदि॑वे वा॒मम॒स्मभ्य॑ꣳ सावीः। वा॒मस्य॒ हि क्षय॑स्य देव॒ भूरे॑र॒या धि॒या वा॑म॒भाजः॑ स्याम॥६॥

वा॒मम्। अ॒द्य। स॒वि॒तः॒। वा॒मम्। ऊँ॒ऽइत्यूँ॑। श्वः। दि॒वेदि॑व॒ इति॑ दि॒वेऽदि॑वे। वा॒मम्। अ॒स्मभ्य॑म्। सा॒वीः। वा॒मस्य॑। हि। क्षय॑स्य। दे॒व॒। भूरेः॑। अ॒या। धि॒या। वाम॑भाज॒ इति॑ वाम॒ऽभाजः॑। स्या॒म॒ ॥६॥

Mantra without Swara
वाममद्य सवितर्वाममु श्वो दिवेदिवे वाममस्मभ्यँ सावीः । वामस्य हि क्षयस्य देव भूरेरया धिया वामभाजः स्याम ॥

वामम्। अद्य। सवितः। वामम्। ऊँऽइत्यूँ। श्वः। दिवेदिव इति दिवेऽदिवे। वामम्। अस्मभ्यम्। सावीः। वामस्य। हि। क्षयस्य। देव। भूरेः। अया। धिया। वामभाज इति वामऽभाजः। स्याम॥६॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(वामम्) प्रशस्यं सुखम् (अद्य) अस्मिन्नहनि (सवितः) सर्वस्यैश्वर्यस्य प्रसवितरीश्वर ! (वामन्)(उ) वितर्के (श्वः) परस्मिन् दिने (दिवेदिवे) प्रतिदिनम् (वामम्)(अस्मभ्यम्)(सावीः) सव। अत्र लोडर्थे लुङडाभावश्च (वामस्य) अत्युत्कृष्टस्य(हि) खलु (क्षयस्य) गृहस्य (देव) सुखप्रद ! (भूरे:) बहुपदार्थान्वितस्य (अया) अनया। छान्दस वर्णलोपो वा ॥ अ० ८ । २ । २५ भा॰ ॥ इति नलोपः(धिया) श्रेष्ठबुद्धया (वामभाजः) प्रशस्यकर्म्मसेविनः (स्याम) भवेम ॥ अयं मन्त्र: शत० ४ । ४ ।१ । ६ व्याख्यातः ॥ ६ ॥
Essence
गृहस्थैर्जनैरीश्वरानुग्रहेण परमपुरुषार्थेन प्रशस्तधिया मांगलिकाः सन्तो गृहाश्रमिणो भूत्वैवं प्रयतेरन्, यतस्त्रिषु कालेषु प्रवृद्धसुखा: स्युः ॥८ । ६ ॥
Subject
पुनश्च गृहाश्रमिणा कथं प्रयतितव्यमित्युपदिश्यते ॥
Meaning of Anvay
स्मिन्नहनि वामं प्रशस्यं सुखम् उश्वः परस्मिन् दिने वामं वा दिवे दिवे प्रतिदिनं वामं सावी:=सव, येन वयमया अनया धिया श्रेष्ठबुद्धया भूरे: बहुपदार्थान्वितस्य वामस्य अत्युत्कृष्टस्य क्षयस्य=गृहाश्रमस्य गृहस्य मध्ये वामभाजः प्रशस्यकर्मसेविनः हि खलु स्याम भवेम ॥ ८ । ६ ॥
[हे......सवितः=पुरुषार्थेन बह्वैश्वर्यजनक ! त्वमस्मभ्यमद्य, श्वः, दिवेदिवे वामं सावी:=सव, येन वयमया धिया क्षयस्य=गृहाश्रमस्य मध्ये वामभाजो हि स्याम]
Special
भरद्वाजः । गृहपतय:=गृहस्थाः॥ निचृदार्षी त्रिष्टुप् । धैवतः ॥