Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 8 / Mantra 59

63 Mantra
8/59
Devata- विश्वेदेवा देवताः Rishi- वसिष्ठ ऋषिः Chhand- निचृत् जगती,विराट आर्षी गायत्री, Swara- निषादः
Mantra with Swara
स॒न्नः सिन्धु॑रवभृ॒थायोद्य॑तः समु॒द्रोऽभ्यवह्रि॒यमा॑णः सलि॒लः प्रप्लु॑तो॒ ययो॒रोज॑सा स्कभि॒ता रजा॑सि वी॒र्येभिर्वी॒रत॑मा॒ शवि॑ष्ठा। या पत्ये॑ते॒ऽअप्र॑तीता॒ सहो॑भि॒र्विष्णू॑ऽअग॒न् व॑रुणा पू॒र्वहू॑तौ॥५९॥

स॒न्नः। सिन्धुः॑। अ॒व॒भृ॒थायेत्य॑वऽभृ॒थाय॑। उद्य॑त॒ इत्युत्ऽय॑तः। स॒मु॒द्रः। अ॒भ्य॒व॒ह्रि॒यमाण॒ इत्य॑भिऽअवह्रि॒यमा॑णः। स॒लि॒लः। प्रप्लु॑त॒ इति॒ प्रऽप्लु॑तः। ययोः॑। ओज॑सा। स्क॒भि॒ता। रजा॑सि। वी॒र्येभिः॑। वी॒रत॒मेति॑ वी॒रऽत॑मा। शवि॑ष्ठा। या। पत्ये॑ते॒ऽइति॒ पत्ये॑ते। अप्र॑ती॒तेत्यप्र॑तिऽइता। सहो॑भि॒रिति॒ सह॑ऽभिः। विष्णूऽइति॒ विष्णू॑। अ॒ग॒न्। वरु॑णा। पू॒र्वहू॑ता॒विति॑ पू॒र्वऽहू॑तौ ॥५९॥

Mantra without Swara
सन्नः सिन्धुरवभृथायोद्यतः समुद्रो भ्यवहि््रयमाणः सलिलः प्रप्लुतो ययोरोजसा स्कभिता रजाँसि वीर्येभिर्वीरतमा शविष्ठा । या पत्येतेऽअप्रतीता सहोभिर्विष्णूऽअगन्वरुणा पूर्वहूतौ ॥

सन्नः। सिन्धुः। अवभृथायेत्यवऽभृथाय। उद्यत इत्युत्ऽयतः। समुद्रः। अभ्यवह्रियमाण इत्यभिऽअवह्रियमाणः। सलिलः। प्रप्लुत इति प्रऽप्लुतः। ययोः। ओजसा। स्कभिता। रजासि। वीर्येभिः। वीरतमेति वीरऽतमा। शविष्ठा। या। पत्येतेऽइति पत्येते। अप्रतीतेत्यप्रतिऽइता। सहोभिरिति सहऽभिः। विष्णूऽइति विष्णू। अगन्। वरुणा। पूर्वहूताविति पूर्वऽहूतौ॥५९॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(सन्नः) अवस्थापितः। सन्न इति पदं महीधरेण भ्रान्त्या पूर्वस्य मन्त्रस्यान्ते स्वीकृतम्(सिन्धुः) नदी। सिन्धव इति नदीना० ॥ निघं० १। १३ ॥(अवभृथाय) पवित्रीकरणाय यज्ञान्तस्नानाय वा (उद्यतः) उत्कृष्टतया यतः (समुद्रः) अन्तरिक्षम्। समुद्र इत्यन्तरिक्षना०॥ निघं० १।३ ॥(अभ्यवह्रियमाणः) भुज्यमान: (सलिलः) शुद्धं जलं विद्यते यस्मिन् सः। अर्शआदित्यादच् । सलिलमित्युदकना० ॥ निघं० १ । १२॥(प्रप्लुतः) प्रकृष्टगुणैः प्राप्तः (ययोः) होतृयजमानयोः प्रशंसिता गुणा: सन्ति (ओजसा)बलेन (स्कभिता) स्तम्भितानि धृतानि (रजांसि) लोका: (वीर्य्येभिः)(वीरतमा) अतिशयेन वीरी। अत्र सर्वत्राकारादेशः(शविष्ठा) अतिशयेन नित्यबलसाधकौ (या) यौ (पत्येते) श्रेष्ठैः प्राप्येते (अप्रतीता) अप्रतीतगुणौ(सहोभिः)बलादिभि: (विष्णू) व्याप्तिशीलौ(अगन्) गच्छन्तु प्राप्तुवन्तु । अत्र गमधातोर्लोडर्थे लुङ्। मन्त्रे घसह्वरणश० ॥ अ० २।४ । ८० ॥ इति च्लेर्लुगनुनासिकलोपश्च (वरुणा) श्रेष्ठौ (पूर्वहूतौ) पूर्वैः शिष्टैर्विद्वद्भिराहूतौ । अयम्मन्त्र: शत० १२। ६।१। ३४-३६ व्याख्यातः ॥ ८ । ५९ ॥
Essence
मनुष्याणां यज्ञादिव्यवहारेण विना गार्हस्थ्यकर्मणि सुखं न जायते ॥ ८। ५९॥
Subject
अथ गार्हस्थ्यकर्म्मणि यज्ञादिव्यवहारमाह॥
Meaning of Anvay
यैरवभृथाय पवित्रीकरणाय यज्ञान्तस्नानाय वा अभ्यवह्रियमाणः भुज्यमानः सलिल: शुद्धं जलं विद्यते यस्मिन् सः, उद्यतः उत्कृष्टतया यतः सिन्धुः नदी सन्नः अवस्थापितः, समुद्रः अन्तरिक्षं, प्रप्लुतः प्रकृष्टगुणैः प्राप्तः क्रियते, ययोः होतृयजमानयोः प्रशंसिता गुणा: सन्ति ओजसा बलेन रजांसि लोका: स्कभिता=स्कभितानि स्तम्भितानि=धृतानि, या यौ वीर्येभिर्वीरतमा अतिशयेन वीरौ शविष्ठा अतिशयेननित्यबलसाधकौ, सहोभि: बलादिभि: अप्रतीताअप्रतीतगुणौ विष्णू व्याप्तिशीलौ वरुणा श्रेष्ठौ पूर्वहूतौ पूर्वै:=शिष्टैर्विद्वद्भिराहूतौ प्रत्येते श्रेष्ठैः प्राप्येते, तावगन् गच्छन्तु=प्राप्नुवन्तु ते सुखिनो भवन्ति॥
[यैरवभृथायाभ्यवह्रियमाणः सलिलः.....क्रियते......ते सुखिनो भवन्ति]
Special
सन्न इत्यस्य वसिष्ठ: ऋृषिः। विश्वेदेवाः=सर्वे विद्वांसः। आर्षी बृहती। निषादः।यापत्येते इत्यस्य विराडार्षी गायत्री ॥ षड्जः ॥