Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 8 / Mantra 58

63 Mantra
8/58
Devata- विश्वेदेवा देवताः Rishi- वसिष्ठ ऋषिः Chhand- भूरिक् आर्षी जगती, Swara- निषादः
Mantra with Swara
विश्वे॑ दे॒वाश्च॑म॒सेषून्नी॒तोऽसु॒र्होमा॒योद्य॑तो रु॒द्रो हू॒यमा॑नो॒ वातो॒ऽभ्यावृ॑तो नृ॒चक्षाः॒ प्रति॑ख्यातो भ॒क्षो भक्ष्यमा॑णः पि॒तरो॑ नाराश॒ꣳसाः॥५८॥

विश्वे॑। दे॒वाः। च॒म॒सेषु॑ उन्नी॑त॒ इत्युत्ऽनी॑तः। असुः॑। होमा॑य। उद्य॑त॒ इत्युत्ऽय॑तः। रु॒द्रः। हू॒यमा॑नः। वातः॑। अभ्यावृ॑त॒ इत्य॑भि॒ऽआवृ॑तः। नृ॒चक्षा॒ इति॑ नृ॒ऽचक्षाः॑। प्रति॑ख्यात॒ इति॒ प्रति॑ऽख्यातः। भ॒क्षः। भ॒क्ष्यमा॑णः। पि॒तरः॑। ना॒रा॒श॒ꣳसाः ॥५८॥

Mantra without Swara
विश्वे देवा श्चमसेषून्नीतोसुर्हामायोद्यतो रुद्रो हूयमानो वातो भ्यावृत्तो नृचक्षाः प्रतिख्यातो भक्षो भक्ष्यमाणः पितरो नाराशँसाः सन्नः सिन्धु॥

विश्वे। देवाः। चमसेषु उन्नीत इत्युत्ऽनीतः। असुः। होमाय। उद्यत इत्युत्ऽयतः। रुद्रः। हूयमानः। वातः। अभ्यावृत इत्यभिऽआवृतः। नृचक्षा इति नृऽचक्षाः। प्रतिख्यात इति प्रतिऽख्यातः। भक्षः। भक्ष्यमाणः। पितरः। नाराशꣳसाः॥५८॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(विश्वे) सर्वे (देवाः) विद्वांसः (चमसेषु) मेघेषु। चमस इति मेघना० ॥ निघं० १। १० ॥(उन्नीतः) ऊर्ध्वं नीतः सुगन्धादिपदार्थ: (असुः) प्राणः (होमाय) दानायादानाय वा (उद्यतः) प्रयत्नेन प्रेरितः (रुद्रः) जीवः (हूयमानः) स्वीकृतः (वातः) बाह्यो वायुः (अभ्यावृतः)आभिमुख्येनाङ्गीकृतः (नृचक्षाः) नॄन् मनुष्यान् चष्ट इति (प्रतिख्यातः) ख्यातं ख्यातं प्रतीति (भक्षः) भोज्यसमूह: (भक्ष्यमाणः) भुज्यमान: (पितरः) ज्ञानिनः (नाराशंसाः) नारानाशंसन्ति नराशंसानामिम उपदेशकाः ॥ अयं मन्त्र: शत० १२। ३। १। २७-३३ व्याख्यातः ॥ ५८ ॥
Essence
ये विद्वांस: परोपकारबुद्ध्या विद्यां विस्तार्य्य सुगन्धिपुष्टिमधुरतारोगनाशकगुणयुक्तानां द्रव्याणां यथावन्मेलनं कृत्वाऽग्नौ हुत्वा वायुवृष्टिजलोषधीः सेवित्वा शरीरारोग्यं जनयन्ति त इह पूज्यतमा: सन्ति ॥ ८ । ५८ ॥
Subject
पुनः प्रकारान्तरेण विद्वद्विषयमाह॥
Meaning of Anvay
यैर्होमाय दानायादानाय वा यज्ञविधानेन चमसेषु मेघेषु सुगन्ध्यादिरुन्नीतः ऊर्ध्वं नीतः सुगन्धादिपदार्थ:, असुः प्राणः उद्यतः प्रयत्नेन प्रेरितः रुद्र: जीव हूयमानः स्वीकृतः, नृचक्षा:नॄन्=मनुष्यान् चष्ट इति प्रतिख्यातः ख्यातं ख्यातं प्रतीति, वातः बाह्यो वायु: अभ्यावृतः आभिमुख्येनाङ्गीकृतः, तच्छोधितो भक्ष्यमाणः भुज्यमान: भक्षः भोज्यसमूह: कृतस्ते विश्वे सर्वे देवाः विद्वांस: नाराशंसाः नरानाशंसन्ति नराशंसानामिम उपदेशका: पितर: ज्ञानिनः च वेद्याः॥ ८ । ५८॥
[यैर्होमाय यज्ञविधानेन चमसेषु सुगन्ध्यादिरुन्नीतः....ते विश्वे देवा नाराशंसाः पितरश्च जायन्ते]
Meaning of Essence
नाराशंसा:=पूज्यतमाः ॥
Special
वसिष्ठः । विश्वेदेवा:=सर्वेविद्वांसः। भुरिगार्षी जगती । निषादः ॥