Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 8 / Mantra 57

63 Mantra
8/57
Devata- विश्वेदेवा देवताः Rishi- वसिष्ठ ऋषिः Chhand- निचृत् ब्राह्मी बृहती, Swara- मध्यमः
Mantra with Swara
विश्वे॑ दे॒वाऽअ॒ꣳशुषु॒ न्युप्तो॒ विष्णु॑राप्रीत॒पाऽआ॑प्या॒य्यमा॑नो य॒मः सू॒यमा॑नो॒ विष्णुः॑ सम्भ्रि॒यमा॑णो वा॒युः पू॒यमा॑नः शु॒क्रः पू॒तः। शु॒क्रः क्षी॑र॒श्रीर्म॒न्थी स॑क्तु॒श्रीः॥५७॥

विश्वे॑। दे॒वाः। अ॒ꣳशुषु॑। न्यु॑प्त॒ इति॑ निऽउ॑प्तः। विष्णुः॑। आ॒प्री॒त॒पा इत्या॑प्रीत॒ऽपाः। आ॒प्या॒य्यमा॑न॒ इत्या॑ऽप्या॒य्यमा॑नः। य॒मः। सू॒यमा॑नः। विष्णुः॑। स॒म्भ्रि॒यमा॑ण इति॑ सम्ऽभ्रि॒यमा॑णः। वा॒युः। पू॒यमा॑नः। शु॒क्रः। पू॒तः॒। शु॒क्रः। क्षी॒र॒श्रीरिति॑ क्षीर॒ऽश्रीः। म॒न्थी। स॒क्तु॒श्रीरिति॑ सक्तु॒ऽश्रीः ॥५७॥

Mantra without Swara
विश्वे देवा अँशुषु न्युप्तो विष्णुराप्रीतपाऽआप्याय्यमानः यमः सूयमानो विष्णुः सम्भ्रियमाणो वायुः पूयमानः शुक्रः पूतः शुक्रः क्षीरश्रीर्मन्थी सक्तुश्रीः विश्वे देवा॥

विश्वे। देवाः। अꣳशुषु। न्युप्त इति निऽउप्तः। विष्णुः। आप्रीतपा इत्याप्रीतऽपाः। आप्याय्यमान इत्याऽप्याय्यमानः। यमः। सूयमानः। विष्णुः। सम्भ्रियमाण इति सम्ऽभ्रियमाणः। वायुः। पूयमानः। शुक्रः। पूतः। शुक्रः। क्षीरश्रीरिति क्षीरऽश्रीः। मन्थी। सक्तुश्रीरिति सक्तुऽश्रीः॥५७॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(विश्वे) सर्वे (देवाः) विद्वांस: (अंशुषु) विभक्तेषु सांसारिकेषु पदार्थेषु (न्युप्तः) नित्यं स्थापितो व्यवहार: (विष्णुः) व्यापिका विद्युत् (आप्रीतपाः) समन्तात् प्रीतान्=कमनीयान् पदार्थान्पाति=रक्षति (आप्याय्यमानः) वृद्ध इव (यमः) यच्छति सोऽयं सूर्य्यः (सूयमानः) उत्पद्यमानः (विष्णुः) व्यापक: (सम्भ्रियमाणः) सम्यक् पोषितः (वायुः) प्राणः (पूयमानः) पवित्रीकृतः (शुक्र:) वीर्य्यसमूह: (पूतः) शुद्धः (शुक्र:) आशुकर्त्ता(क्षीरश्रीः) यः क्षीरादीनि शृणाति (मन्थी) मथ्नातीति (सक्तुश्रीः) यः सक्तूनि=समवेतानि द्रव्याणि श्रयति ॥ अयं मन्त्र: शत० १२।६।१।१९-२६ व्याख्यातः ॥ ८ । ५७ ॥
Essence
मनुष्यैर्युक्तविद्याभ्यां सेविता विद्युदादयः पदार्था: शरीरात्मसमाजसुखप्रदा जायन्ते ॥८ । ५७ ॥
Subject
अथ गार्हस्थ्यकर्म्माणि विद्वत्पक्षे किंचिदाह ॥
Meaning of Anvay
हे विश्वे सर्वे देवाः विद्वांसः ! युष्माभिरंशुषु विभक्तेषु सांसारिकेषु पदार्थेषु न्युप्तः नित्यं स्थापितो व्यवहारः आप्रीत्याः समन्तात् प्रीतान्=कमनीयान् पदार्थान् पाति=रक्षति, विष्णुः व्यापिका विद्युत्, आप्याय्यमानः वृद्ध इव यम: यच्छति सोऽयं सूर्य:, सूयमानः उत्पद्यमानः विष्णुः व्यापकः, संम्भ्रियमाणः सम्यक्पोषितः वायुः प्राणः, पूयमानः पवित्रीवृतः शुक्रः वीर्य्यसमूहः पूतः शुद्धः, शुक्र: आशुकर्त्तामन्थी मथ्नातीति सेवमानः सन् क्षीरश्रीः यः क्षीरादीनि शृणाति सक्तुश्रीः यः सक्तूनि=समवेतानि द्रव्याणि श्रयति च जायते ॥ ८ । ५७ ॥
[हे विश्वे देवाः! युष्माभिरंशुषु न्युप्तः आप्रीतमा विष्णुः........जायते]
Special
वसिष्ठः । विश्वेदेवा:=सर्वे विद्वांसः ॥ भुरिक् साम्नी बृहती। मध्यमः ॥