Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 8 / Mantra 56

63 Mantra
8/56
Devata- विश्वेदेवा गृहस्था देवताः Rishi- वसिष्ठ ऋषिः Chhand- आर्षी बृहती Swara- मध्यमः
Mantra with Swara
प्रो॒ह्यमा॑णः॒ सोम॒ऽआग॑तो॒ वरु॑णऽआ॒स॒न्द्यामास॑न्नो॒ऽग्निराग्नी॑ध्र॒ऽइन्द्रो॑ हवि॒र्द्धानेऽथ॑र्वो- पावह्रि॒यमा॑णः॥५६॥

प्रो॒ह्यमा॑णः। प्रो॒ह्यमा॑न॒ इति॑ प्रऽउ॒ह्यमा॑नः। सोमः॑। आग॑त॒ इत्याऽग॑तः। वरु॑णः। आ॒स॒न्द्यामित्या॑ऽस॒न्द्याम्। आस॑न्न॒ इत्याऽस॑न्नः। अ॒ग्निः। आग्नी॑ध्रे। इन्द्रः॑। ह॒वि॒र्द्धान॒ इति॑ हविः॒ऽधाने॑। अथ॑र्वा। उ॒पा॒व॒ह्रि॒यमा॑ण॒ इत्युप॑ऽअवह्रि॒यमा॑णः ॥५६॥

Mantra without Swara
प्रोह्यमाणः सोमऽ आगतो वरुणऽआसन्द्यामासन्नोग्निराग्नीध्रेऽइन्द्रो हविर्धानेथर्वापावह्रियमाणो विश्वे देवाः ॥

प्रोह्यमाणः। प्रोह्यमान इति प्रऽउह्यमानः। सोमः। आगत इत्याऽगतः। वरुणः। आसन्द्यामित्याऽसन्द्याम्। आसन्न इत्याऽसन्नः। अग्निः। आग्नीध्रे। इन्द्रः। हविर्द्धान इति हविःऽधाने। अथर्वा। उपावह्रियमाण इत्युपऽअवह्रियमाणः॥५६॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(प्रोह्यमाणः) प्रकृष्टतर्केणाऽनुष्ठितः। प्रोह्यमाण इति पदं महीधरेण भ्रान्त्या पूर्वस्मिन् मन्त्रे पठितम्(सोमः) ऐश्वर्यसमूह: (आगतः) समन्तात्प्राप्तः सहायकारी पुरुष इव (वरुणः) जलसमूहः (आसन्द्याम्) यानासनाविशेषे (आसन्नः) समीपस्थः (अग्निः)(आग्नीध्रे) प्रदीपनसाधन इन्धनादौ (इन्द्रः) विद्युत् (हविर्द्धाने) हविषां=ग्रहीतुं योग्यानां पदार्थानां धारणे (अथर्वा)अहिंसनीयः (उपावह्रियमाणः) क्रियाकौशलेनोपयोज्यमानः ॥ अयम्मन्त्रः शत० १२।६।१।१४-१८ व्याख्यातः ॥ ५६ ॥
Essence
नहि तर्केण विना काचिद् विद्या कस्यचिद् भवति, नहि विद्यया विना कश्चित् पदार्थेभ्य उपयोगं ग्रहीतुं शक्नोति ॥८ । ५६ ॥
Subject
पुनस्तदेवहा॥
Meaning of Anvay
हे गृहस्थाः! युष्माभिरस्यामीश्वरस्य सृष्टावासन्द्यां यानासनविशेषे आगत समन्तात् प्राप्तः सहायकारी पुरुष इव प्रोह्यमाणः प्रकृष्टतर्केणाऽनुष्ठितः सोमः ऐश्वर्यसमूह: वरुणः जलसमूह: आग्नीध्रे प्रदीपनसाधन इन्धनादौ [आसन्नः] समीपस्थः अग्निरुपाह्रियमाणः क्रियाकौशलेनोपयोज्यमानः अथर्वाअहिंसन्नीयः हविर्द्धाने हविषां-ग्रहीतुं योग्यानां पदार्थानां धारणे इन्द्रः विद्युत् सततमुपयोजनीयः ॥ ८ । ५६ ॥
[हे गृहस्थः! युष्माभिः......प्रोह्यमाणः सोमः सततमुपयोजनीयः]
Special
वसिष्ठः। विश्वेदेवा गृहस्था:=विद्वांसो गृहस्थाः। आर्षी बृहती । मध्यमः ॥