Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 8 / Mantra 52

63 Mantra
8/52
Devata- प्रजापतिर्देवता Rishi- देवा ऋषयः Chhand- निचृत् आर्षी बृहती Swara- मध्यमः
Mantra with Swara
स॒त्रस्य॒ऽऋद्धि॑र॒स्यग॑न्म॒ ज्योति॑र॒मृता॑ऽअभूम। दिवं॑ पृथि॒व्याऽअध्या॑रुहा॒मावि॑दाम दे॒वान्त्स्व॒र्ज्योतिः॑॥५२॥

स॒त्रस्य॑। ऋद्धिः॑। अ॒सि॒। अग॑न्म। ज्योतिः॑। अ॒मृ॑ताः। अ॒भू॒म॒। दिव॑म्। पृ॒थि॒व्याः। अधि। आ। अ॒रु॒हा॒म॒। अवि॑दाम। दे॒वान्। स्वः॑। ज्योतिः॑ ॥५२॥

Mantra without Swara
सत्रस्य ऽऋद्धिरस्यगन्म ज्योतिरमृता ऽअभूम दिवम्पृथिव्या ऽअध्यारुहामाविदाम देवान्त्स्वर्ज्यातिः ॥

सत्रस्य। ऋद्धिः। असि। अगन्म। ज्योतिः। अमृताः। अभूम। दिवम्। पृथिव्याः। अधि। आ। अरुहाम। अविदाम। देवान्। स्वः। ज्योतिः॥५२॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(सत्रस्य) संगतस्य राजव्यवहाररूपस्य यज्ञस्य (ऋद्धिः) सम्यग् वृद्धिः (असि)(अगन्म) प्राप्नुयाम (ज्योतिः) विज्ञानप्रकाशम् (अमृताः) प्राप्तमोक्षाः (अभूम) भवेम । अत्रोभयत्र लिङर्थे लुङ्(दिवम्) सूर्यादिम् (पृथिव्याः) भूम्यादेश्च जगतः (अधि) उपर्य्युत्कृष्टभावे (आ) समन्तात् (अरुहाम)प्रादुर्भवेम । अत्र विकरणव्यत्ययः(अविदाम) विन्देमहि (देवान्)विदुषो दिव्यान् भोगान् वा (स्वः) सुखम् (ज्योतिः) विज्ञानविषयम् ॥ अयं मन्त्रः शत० ४। ६। ९ । ११-१२ व्याख्यातः ॥५२॥
Essence
यावत्सर्वेषां रक्षको धार्मिको राजाऽऽप्तो विद्वाँश्च न भवेत्तावत्कश्चिन्निर्विघ्नो विद्यामोक्षानुष्ठानं कृत्वा तत्सुखं प्राप्तुन्नार्हति, न च मोक्षसुखादधिकतरं किंचित्सुखमस्ति ॥८ । ५२॥
Subject
पुनरपि गृहस्थविषये विशेषमाह॥
Meaning of Anvay
सपदार्थान्व्य: - हे विद्वन् ! त्वं सत्रस्य संगतस्य राज्यव्यवहाररूपस्य यज्ञस्य ऋद्धिः सम्यग् वृद्धिः असि, त्वत्सङ्गेन वयं ज्योतिः विज्ञानप्रकाशम् अगन्म प्राप्नुयाम, अमृताः प्राप्तमोक्षाः अभूम भवेम दिवं सूर्यादिपृथिव्याः भूम्यादेश्च जगतः अधि+आ+अरुहाम उपर्युत्कृष्टतया समन्तात् प्रादुर्भवेम, देवान् विदुषो दिव्यान् भोगान् वा ज्योतिः विज्ञानविषयं स्वः सुखं चाविदाम विन्देमहि ॥८ । ५२॥
[हेविद्वन् ! त्वं सत्रस्य ऋद्धिरसि, त्वत्संगेन वयंज्योतिरगन्म, अमृता अभूम, देवान् ज्योतिः स्वश्चाविदाम]
Meaning of Essence
ज्योतिः=विद्याम् ।
Special
देवाः। प्रजापति:=राजा। भुरिगार्षी बृहतीः । मध्यमः ॥