Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 8 / Mantra 51

63 Mantra
8/51
Devata- प्रजापतयो गृहस्था देवताः Rishi- देवा ऋषयः Chhand- भूरिक् आर्षी जगती, Swara- निषादः
Mantra with Swara
इ॒ह रति॑रि॒ह र॑मध्वमि॒ह धृति॑रि॒ह स्वधृ॑तिः॒ स्वाहा॑। उ॒प॒सृ॒जन् ध॒रुणं॑ मा॒त्रे ध॒रुणो॑ मा॒तरं॒ धय॑न्। रा॒यस्पोष॑म॒स्मासु॑ दीधर॒त् स्वाहा॑॥५१॥

इ॒ह। रतिः॑। इ॒ह। र॒म॒ध्व॒म्। इ॒ह। धृतिः॑। इ॒ह। स्वधृ॑ति॒रिति॒ स्वऽधृ॑तिः। स्वाहा॑। उ॒प॒सृ॒जन्नित्यु॑पऽसृ॒जन्। ध॒रुण॑म्। मा॒त्रे। ध॒रुणः॑। मा॒तर॑म्। धय॑न्। रा॒यः। पोष॑म्। अ॒स्मासु॑। दी॒ध॒र॒त्। स्वाहा॑ ॥५१॥

Mantra without Swara
इह रतिरिह रमध्वमिह धृतिरिह स्वधृतिः स्वाहा । उपसृजन्धरुणम्मात्रे धरुणो मातरन्धयन् । रायस्पोषमस्मासु दीधरत्स्वाहा ॥

इह। रतिः। इह। रमध्वम्। इह। धृतिः। इह। स्वधृतिरिति स्वऽधृतिः। स्वाहा। उपसृजन्नित्युपऽसृजन्। धरुणम्। मात्रे। धरुणः। मातरम्। धयन्। रायः। पोषम्। अस्मासु। दीधरत्। स्वाहा॥५१॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(इह) अस्मिन्गृहाश्रमे (रतिः) रमणम् (इह)(रमध्वम्)(इह)(धृतिः) सर्वेषां व्यवहाराणां धारणा (इह)(स्वधृतिः) स्वेषां पदर्थानां धारणम् (स्वाहा) सत्या वाक् क्रिया वा (उपसृजन्) समीपं प्रापयन्निव (धरुणम्) धर्त्तव्यं पुत्रम् (मात्रे) मान्यकर्त्र्यै(धरुणः) धर्त्ता(मातरम्) मान्यप्रदाम् (धयन्) तस्या: पयः पिबन् (रायः) धनस्य (पोषम्) पुष्टिम् (अस्मासु)(दीधरत्) धारय। अत्र लोडर्थे लुङडभावश्च(स्वाहा) सत्यया वाचा ॥ अयम्मंत्रः शत० ४।६ ।९ । ८-९ व्याख्यातः ॥ ५१॥
Essence
यावद्राजादयः सभ्या: प्रजाजनाश्च सत्ये, धैर्य्ये, सत्येनोपार्ज्जितेषु पदार्थेषु, धर्म्मे व्यवहारे च न वर्त्तन्ते तावत्प्रजासुखं राज्यसुखं च प्राप्तुं न शक्नुवन्ति ।
[धरुणो मात्रे मातरं धयन्निवास्मासु रायः पोषं स्वाहा दीधरत्]
यावद्राजपुरुषा: प्रजा पुरुषाश्च पितृपुत्रवत्परस्परं प्रीत्युपकारं न कुर्वन्ति तावत्सुखं क्वा॥ ८ । ५१॥
Subject
अथ गार्हस्थ्यविषये विशेषमाह ॥
Meaning of Anvay
हे गृहस्थाः ! युष्माकमिह अस्मिन् गृहाश्रमे रतिः रमणम्, इह धृतिः सर्वेषां व्यवहाराणां धारणा, इह स्वधृतिः स्वेषां पदार्थानां धारणंस्वाहा सत्या वाक् क्रिया वा चास्तु यूयमिह रमध्वम्।
हे गृहिंस्त्वमपत्यस्य मात्रे मान्यकर्त्र्यैयं धरुणं=गर्भंधर्त्तव्यं पुत्रम्उपसृजन् समीपं प्राप्यन्निव स्वगृहे रमस्व, स धरुणः धर्त्तामात्रे मान्यकर्त्र्यैमातरं मान्यप्रदां धयन् तस्या: पयः पिबन् इव अस्मासु राय: धनस्य पोषं पुष्टिं स्वाहा सत्यया वाचा दीधरत् धारयेत् ॥८ । ५१॥
[हे गृहस्थाः! युष्माकमिह रतिः, इह धृतिः, इह स्वधृतिः स्वाहा चास्तु]
Special
देवाः। प्रजापतयो गृहस्था:=स्पष्टम् । आर्षी जगती। निषादः ॥