Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 8 / Mantra 50

63 Mantra
8/50
Devata- प्रजापतयो देवताः Rishi- देवा ऋषयः Chhand- भूरिक् आर्षी जगती, Swara- निषादः
Mantra with Swara
उ॒शिक् त्वं दे॑व सोमा॒ग्नेः प्रि॒यं पाथोऽपी॑हि व॒शी त्वं दे॑व सो॒मेन्द्र॑स्य प्रि॒यं पाथोऽपी॑ह्य॒स्मत्स॑खा॒ त्वं दे॑व सोम॒ विश्वे॑षां दे॒वानां॑ प्रि॒यं पाथोऽपी॑हि॥५०॥

उ॒शिक्। त्वम्। दे॒व॒। सो॒म॒। अ॒ग्नेः। प्रि॒यम्। पाथः॑। अपि॑। इ॒हि॒। व॒शी। त्वम्। दे॒व। सो॒म॒। इन्द्र॑स्य। प्रि॒यम्। पाथः॑। अपि॑। इ॒हि॒। अ॒स्मत्स॒खेत्य॒स्मत्ऽसखा॑। त्वम्। दे॒व॒। सो॒म॒। विश्वे॑षाम्। दे॒वाना॑म्। प्रि॒यम्। पाथः॑। अपि॑। इ॒हि॒ ॥५०॥

Mantra without Swara
उशिक्त्वन्देव सोमाग्नेः प्रियम्पाथो पीहि वशी त्वन्देव सोमेन्द्रस्य प्रियम्पाथो पीह्यस्मत्सखा त्वन्देव सोम विश्वेषान्देवानाम्प्रियम्पाथो पीहि ॥

उशिक्। त्वम्। देव। सोम। अग्नेः। प्रियम्। पाथः। अपि। इहि। वशी। त्वम्। देव। सोम। इन्द्रस्य। प्रियम्। पाथः। अपि। इहि। अस्मत्सखेत्यस्मत्ऽसखा। त्वम्। देव। सोम। विश्वेषाम्। देवानाम्। प्रियम्। पाथः। अपि। इहि॥५०॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(उशिक्) कामयमानः (त्वम्)(देव) दिव्यगुणसम्पन्न (सोम) सकलैश्वर्य्याढ्य (अग्नेः) सद्विदुषः (प्रियम्) प्रीतिजनकम् (पाथः) रक्षणीयमाचरणम् । पाथ इति पदनामसु पठितम् ॥ निघं० ४ । ३ ॥(अपि) निश्चयार्थे(इहि) प्राप्नुहि जानीहि वा (वशी) जितेन्द्रियः (त्वम्)(देव) दातः (सोम) ऐश्वर्य्योन्नतौ प्रेरक (इन्द्रस्य) परमैश्वर्य्ययुक्तस्य धार्म्मिकस्य राज्ञः (प्रियम्) सुखैस्तर्प्पकम् (पाथः) ज्ञातव्यं कर्म्म (अपि)(इहि)(अस्मत्सखा)वयं सखायो यस्य सः (त्वम्)(देव) विद्यासु द्योतमान (सोम) विद्यैश्वर्य्यसहित (विश्वेषाम्) सर्वेषाम्(देवानाम्) धार्म्मिकाणामाप्तानां विदुषाम् (प्रियम्) कमनीयम् (पाथः) विज्ञानाचरणम् (अपि)(इहि) ॥ अयम्मन्त्र: शत० ११। ५।९ । १२ व्याख्यातः ॥ ५० ॥
Essence
राज्ञो राजपुरुषाणां सभ्यानांचोचितमस्ति--पुरुषार्थेन, संयमेन, मित्रतया, धार्मिकाणां वेदपारगाणां मार्गे गच्छेयुर्नहि सत्पुरुषसंगानुकरणाभ्यां विना कश्चिद् विद्यां, धर्म्मं, सार्वजनिकप्रियतामैश्वर्य्यं च प्राप्तुं शक्नोति ॥ ८।५०॥
Subject
पुनः प्रकारान्तरेण राजविषयमाह ॥
Meaning of Anvay
हे देव दिव्यगुणसम्पन्न सोम सकलैश्वर्याढ्य राजन् ! त्वम् उशिक् कामयमान: भवन्, अग्ने: सद्विदुषः प्रियं प्रीतिजनकंपाथः रक्षणीयमाचरणम् अपि+इहि निश्चयेन प्राप्नुहि जानीहि वा ।
हे देव दातः सोम ! ऐश्वर्य्योन्नतौ प्रेरक त्वं वशी जितेन्द्रियः भूत्वेन्द्रस्य परमैश्वर्य्ययुक्तस्य धार्मिकस्य राज्ञ: प्रियं सुखैस्तर्प्पकं पाथः ज्ञातव्यं कर्म अपि+इहि निश्चयेन प्राप्नुहि जानीहि वा।
हे देव विद्यासु द्योतमान सोम ! विद्यैश्वर्य्यसहित त्वमस्मत्सखावयं सखायो यस्य सः विश्वेषां सर्वेषां देवानां धार्म्मिकाणामाप्तानां विदुषां प्रियं कमनीयं पाथ: विज्ञानाचरणम् अपि+इहि निश्चयेन प्राप्नुहि जानीहि वा ॥ ८ । ५० ॥
[हे देव सोम! त्वमस्मत्सखा विश्वेषां देवानां प्रियं पाथोऽपीहि]
Meaning of Essence
देवानाम्=धार्मिकाणां वेदपारगाणाम् ॥
Special
देवाः । प्रजापतय:=राजानः। स्वराडार्षी जगती। निषादः ॥