Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 8 / Mantra 5

63 Mantra
8/5
Devata- गृहपतयो देवताः Rishi- कुत्स ऋषिः Chhand- प्राजापत्या अनुष्टुप्,निचृत् आर्षी जगती Swara- निषादः, गान्धारः
Mantra with Swara
विव॑स्वन्नादित्यै॒ष ते॑ सोमपी॒थस्तस्मि॑न् मत्स्व। श्रद॑स्मै नरो॒ वच॑से दधातन॒ यदा॑शी॒र्दा दम्प॑ती वा॒मम॑श्नु॒तः। पुमा॑न् पु॒त्रो जा॑यते वि॒न्दते॒ वस्वधा॑ वि॒श्वाहा॑र॒पऽए॑धते गृ॒हे॥५॥

विव॑स्वन्। आ॒दि॒त्य॒। ए॒षः। ते॒। सो॒म॒पी॒थ इति॑ सोमऽपी॒थः। तस्मि॑न्। म॒त्स्व॒। श्रत्। अ॒स्मै॒। न॒रः। वच॑से। द॒धा॒त॒न॒। यत्। आ॒शी॒र्देत्या॑शीः॒ऽदा। दम्प॑ती॒ इति॒ दम्ऽप॑ती। वा॒मम्। अश्नु॒तः। पुमा॑न्। पु॒त्रः। जा॒य॒ते॒। वि॒न्दते॑। वसु॑। अध॑। वि॒श्वाहा॑। अ॒र॒पः। ए॒ध॒ते॒। गृ॒हे ॥५॥

Mantra without Swara
विवस्वन्नादित्यैष ते सोमपीथस्तस्मिन्मत्स्व श्रदस्मै नरो वचसे दधातन यदाशीर्दा दम्पती वाममश्नुतः । पुमान्पुत्रो जायते विन्दते वस्वधा विश्वाहारप एधते गृहे ॥

विवस्वन्। आदित्य। एषः। ते। सोमपीथ इति सोमऽपीथः। तस्मिन्। मत्स्व। श्रत्। अस्मै। नरः। वचसे। दधातन। यत्। आशीर्देत्याशीःऽदा। दम्पती इति दम्ऽपती। वामम्। अश्नुतः। पुमान्। पुत्रः। जायते। विन्दते। वसु। अध। विश्वाहा। अरपः। एधते। गृहे॥५॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(विवस्वन्) विविधे स्थाने वसति तत्संबुद्धौ (आदित्य) अविनाशिस्वरूप विद्वान् ! (एषः) गृहाश्रमः (ते) तव (सोमपीथः) सोमः पीयते यस्मिन् सः (तस्मिन्) गृहाश्रमे (मत्स्व) आनन्दितो भव (श्रत्) सत्यम् । श्रत् इति सत्यनामसु पठितम् ॥ निघं० ३ । १० ॥(अस्मै)(नरः) ये नयन्ति तत्सम्बुद्धौ (वचसे) गृहाश्रमवाग्व्यवहाराय (दधातन) धरत । (यत्) यस्मिन् । सुपां सुलुक् ॥ अ० ७ । १ । ३९ ॥ इति सुपोलुक्(आशीर्दा) आशीरिच्छां ददाति सः (दम्पती) जायापती (वामम्) प्रशस्यं गृहाश्रमधर्मम् । वाम इति प्रशस्यनामसु पठितम् ॥ निघं० ३ । ८ ॥(अश्नुतः) व्याप्नुतः (पुमान्)(पुत्रः) पुन्नाम्नो वृद्धावस्थाजन्यदुःखात् त्रायते सः । अत्राह मनुः पुन्नाम्नो नरकाद् यस्मात् त्रायते पितरं सुतः । तस्मात्पुत्र इति प्रोक्तः स्वयमेव स्वयंभुवा ॥ अ० ९ श्लो० १३८ ॥(जायते) उत्पद्यते (विन्दते) लभते (वसु) धनम् (अधा) अधेत्यनन्तरे । अत्र पृषोदरादित्वात् थस्य धः । निपातस्य च ॥ अ० ६ ॥ ३ ॥ १३६ ॥ इति दीर्घ:(विश्वाहा) बहूनि च तान्यहानि च । अत्रशेश्छन्दसि बहुलम् ॥ अ० ६ । १ । ७० ॥ इति लुक़् ॥ विश्वमिति बहुनामसु पठितम्॥ निघं० ३। १ ॥(अरपः) निष्पापः (एधते) वर्द्धते (गृहे) ॥ अयं मन्त्रः शत० ४। ३ । ५ । १६-२४ तथा ४ । ४ । ४ । १--५ व्याख्यातः ॥ ५॥
Essence
स्त्रीपुंसौ सुप्रेम्णा परस्परपरीक्षापूर्वकं स्वयंवरोदवाहं विधाय, सत्याचरणेनसन्तानानुत्पाद्य, महदैश्वर्यं लब्ध्वा, सुखं नित्यमुन्नीयेताम् ॥ ८। ५ ॥
Subject
पुनरपि गृहस्थधर्म्ममाह ॥
Meaning of Anvay
हे विवस्वन् विविधे स्थाने वसति तत्सम्बुद्धौ आदित्य अविनाशिस्वरूप विद्वन् ! गृहिन् ! एषः गृहाश्रमः ते=तव सोमपीथः सोमः पीयते यस्मिन् सः गृहाश्रमोऽस्ति तस्मिन् गृहाश्रमे त्वं विश्वाहा बहूनि च तान्यहानि च मत्स्व=हर्षितो भवआनन्दितो भव ।
हे [नरः]=नराः ये नयन्ति तत्सम्बुद्धौ गृहाश्रमस्था यूयमस्मैवचसे गृहाश्रमवाग्यव्यवहाराय श्रत् सत्यं दधातन धरत ।
यद्=यस्मिन् गृहे दम्पती जायापती वामं प्रशस्यं गृहाश्रमधर्मम् अश्नुतः व्याप्नुतः तस्मिन् गृहाश्रमे आशीर्दा आशोरिच्छां ददाति सः अरपः निष्पापः पुमान् पुत्रः पुन्नाम्नो वृद्धावस्थाजन्यदु:खात् त्रायेत सः जायते उत्पद्यते, वसु धनं विन्दते लभते एधते वर्द्धते च ॥ ८ । ५ ॥
[हे.....गृहिन्! एष ते=तव सोमपीथो गृहाश्रमोऽस्ति तस्मिंस्त्वं विश्वाहा मत्स्व=हर्षितो भव,हे [नरः]=नराः......यूयमस्मै वचसे श्रद्दधातन, यद्=यस्मिन् गृहे दम्पती वाममश्नुतस्तस्मिन्नाशीर्दा अरपः पुमान् पुत्रो जायते, वसु विन्दते, एधते च]
Special
विवस्वन्नित्यस्य कुत्सः । गृहपतय:=गृहस्थाः ॥ आद्यस्य प्राजापत्याऽनुष्टुप् । गान्धारः । श्रदित्युत्तरस्य निचृदार्षी जगती। निषादः ॥