Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 8 / Mantra 49

63 Mantra
8/49
Devata- विश्वेदेवा प्रजापतयो देवताः Rishi- देवा ऋषयः Chhand- विराट प्राजापत्या जगती,निचृत् आर्षी उष्णिक्, Swara- धैवतः
Mantra with Swara
क॒कु॒भꣳ रू॒पं वृ॑ष॒भस्य॑ रोचते बृ॒हच्छु॒क्रः शु॒क्रस्य॑ पुरो॒गाः सोमः॒ सोम॑स्य पुरो॒गाः। यत्ते॑ सो॒मादा॑भ्यं॒ नाम॒ जागृ॑वि॒ तस्मै॑ त्वा गृह्णामि॒ तस्मै ते सोम॒ सोमा॑य॒ स्वाहा॑॥४९॥

क॒कु॒भम्। रू॒पम्। वृ॒ष॒भस्य॑। रो॒च॒ते॒। बृ॒हत्। शुक्रः। शु॒क्रस्य॑। पु॒रो॒गा इति॑ पुरः॒ऽगाः। सोमः॑। सोम॑स्य। पु॒रो॒गा इति॑ पुरः॒ऽगाः। यत्। ते॒। सो॒म॒। अदा॑भ्यम्। नाम॑। जागृ॑वि। तस्मै॑। त्वा॒। गृ॒ह्णा॒मि॒। तस्मै॑। ते॒। सोम॑। सोमा॑य। स्वाहा॑ ॥४९॥

Mantra without Swara
ककुभँ रूपँ वृषभस्य रोचते बृहच्छुक्रः शुक्रस्य पुरोगाः सोमः सोमस्य पुरोगाः । यत्ते सोमादाभ्यन्नाम जागृवि तस्मै त्वा गृह्णामि तस्मै ते सोम सोमाय स्वाहा ॥

ककुभम्। रूपम्। वृषभस्य। रोचते। बृहत्। शुक्रः। शुक्रस्य। पुरोगा इति पुरःऽगाः। सोमः। सोमस्य। पुरोगा इति पुरःऽगाः। यत्। ते। सोम। अदाभ्यम्। नाम। जागृवि। तस्मै। त्वा। गृह्णामि। तस्मै। ते। सोम। सोमाय। स्वाहा॥४९॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(कुकुभम्) दिग्वच्छुद्धम्(रूपम्)(वृषभस्य) सुखाभिवर्षकस्य सभापतेः (रोचते) प्रकाशते (बृहत्)(शुक्रः) शुद्धः (शुक्रस्य) शुद्धस्य धर्मस्य (पुरोगाः) पुरःसराः (सोमः) सोमगुणसम्पन्नः (सोमस्य) ऐश्वर्य्यगुणयुक्तस्य गृहाश्रमस्य (पुरोगाः) पुरोगामिनः (यत्) यस्य (ते) तव(सोम) प्राप्तैश्वर्य्य विद्वन् ! (अदाभ्यम्) अहिंसनीयम् (नाम) ख्यातिः (जागृवि) जागरूकम् (तस्मै)(त्वा) त्वाम् (गृह्णामि)(तस्मै)(ते) तुभ्यम् (सोम) सत्कर्म्मसु प्रेरक ! (सोमाय) शुद्धकर्मसु प्रवृत्ताय (स्वाहा) सत्या वाक् । अयम्मंत्र: शत० ११। ५। ९ ।१०-११ व्याख्यातः ॥४९ ॥
Essence
सभाप्रजाजनैर्यस्य पुण्या प्रशंसा, सौन्दर्य्यगुणयुक्तं रूपं, विद्या, न्यायो, विनयः, शौर्य्यं, तेजः, पक्षपातराहित्यं, सुहृत्तोत्साह, आरोग्यं, बलं, पराक्रमो, धैर्यं, जितेन्द्रियता, वेदादिशास्त्रे श्रद्धा, प्रजापालनप्रियत्वं च वर्तते, स एव सभाधिपती राजा मन्तव्यः ॥ ८ । ४९॥
Subject
अथ गृहस्थान् राजपक्षे पुनुरुपदिशति ॥
Meaning of Anvay
- हे सोम ! प्राप्तैश्वर्य विद्वन्यद्यस्य वृषभस्य सुखाभिवर्षकस्य सभापतेः बृहत्ककुभं दिग्वच्छुद्धंरूपं रोचते प्रकाशते स त्वं शुक्रस्य शुद्धस्य धर्मस्य पुरोगा: पुरःसरः शुक्र: शुद्धः सोमस्य ऐश्वर्य्यगुणयुक्तस्य गृहाश्रमस्य पुरोगाः पुरोगामी सोमः सोमगुणसम्पन्नः भव ।
यत्ते=तवादाभ्यम् अहिंसनीयंनाम ख्यातिः जागृवि जागरूकम् अस्ति, तस्मै नाम्ने त्वा त्वां गृह्णामि ।
हे सोम ! सत्कर्मसुप्रेरक तस्मै सोमाय शुभकर्मसु प्रवृत्ताय ते=तुभ्यं स्वाहा सत्यावाक् अस्तु॥ ८ । ४९ ॥
[हेसोम! यद् यस्य....बृहत्ककुभं रूपं रोचते स त्वं शुक्रस्य पुरोगा: शुक्र:, सोमस्य पुरोगा: सोमो भव, यत्ते=तवादाभ्यं नाम जागृव्यस्ति, तस्मै नाम्ने त्वा गृह्णामि, हे सोम ! तस्मै सोमाय ते=तुभ्यंस्वाहास्तु ]
Special
कुकुभमित्यस्य देवाः। विश्वेदेवा प्रजापतय:=विद्वांसो गृहस्थाः । विराट् प्राजापत्या जगतीः। निषादः । यत्ते सोमेत्यस्य भुरिगार्ष्युष्णिक् धैवतः ॥