Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 8 / Mantra 48

63 Mantra
8/48
Devata- प्रजापतयो देवताः Rishi- देवा ऋषयः Chhand- याजुषी पङ्क्ति,याजुषी जगती,साम्नी बृहती, Swara- धैवतः, मध्यमः
Mantra with Swara
व्रेशी॑नां त्वा॒ पत्म॒न्नाधू॑नोमि। कुकू॒नना॑नां त्वा॒ पत्म॒न्नाधू॑नोमि। भ॒न्दना॑नां त्वा॒ पत्म॒न्नाधू॑नोमि म॒दिन्त॑मानां त्वा॒ पत्म॒न्नाधू॑नोमि म॒धुन्त॑मानां त्वा॒ पत्म॒न्नाधू॑नोमि शु॒क्रं त्वा॑ शु॒क्रऽआधू॑नो॒म्यह्नो॑ रू॒पे सूर्य॑स्य र॒श्मिषु॑॥४८॥

व्रेशी॑नाम्। त्वा। पत्म॑न्। आ। धू॒नो॒मि॒। कुकू॒नना॑नाम्। त्वा॒। पत्म॑न्। आ। धू॒नो॒मि॒। भ॒न्दना॑नाम्। त्वा॒। पत्म॑न्। आ। धू॒नो॒मि॒। म॒दिन्त॑माना॒मिति॑ म॒दिन्ऽत॑मानाम्। त्वा॒। पत्म॑न्। आ। धू॒नो॒मि॒। म॒धुन्त॑माना॒मिति॑ म॒धुन्ऽत॑मानाम्। त्वा॒। पत्म॑न्। आ। धू॒नो॒मि॒। शु॒क्रम्। त्वा॒। शु॒क्रे। आ। धू॒नो॒मि॒। अह्नः॑। रू॒पे। सूर्य्य॑स्य। र॒श्मिषु॑ ॥४८॥

Mantra without Swara
व्रेशीनान्त्वा पत्मन्नाधूनोमि कुकाननानान्त्वा पत्मन्ना धूनोमि भन्दनानान्त्वा पत्मन्ना धूनोमि मदिन्तमानान्त्वा पत्मन्ना धूनोमि मधुन्तमानान्त्वा पत्मन्ना धूनोमि शुक्रन्त्वा शुक्र ऽआ धूनोम्यह्नो रूपे सूर्यस्य रश्मिषु ॥

व्रेशीनाम्। त्वा। पत्मन्। आ। धूनोमि। कुकूननानाम्। त्वा। पत्मन्। आ। धूनोमि। भन्दनानाम्। त्वा। पत्मन्। आ। धूनोमि। मदिन्तमानामिति मदिन्ऽतमानाम्। त्वा। पत्मन्। आ। धूनोमि। मधुन्तमानामिति मधुन्ऽतमानाम्। त्वा। पत्मन्। आ। धूनोमि। शुक्रम्। त्वा। शुक्रे। आ। धूनोमि। अह्नः। रूपे। सूर्य्यस्य। रश्मिषु॥४८॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(व्रेशीनाम्) दिव्यानामपामिव निर्मलविद्यासुशीलव्याप्तानाम् । एत वै दैवीरापस्तद्याश्चैव दैवीरापो याश्चेमा मानुष्यस्ताभिरेवास्मिन्नेतदुभयीभी रसं दधाति ॥ शत० ११।५ । ९।८॥(त्वा) त्वाम् (पत्मन) धर्मात्पतनशील (आ)(धूनोमि) समन्तात्कम्पयामि । अत्रान्तर्गतो णिच्(कुकूननानाम्) भृशं शब्दविद्यया नम्राणाम्। कुङ् शब्दे इत्यस्मादङि गुणाभावेऽभ्यस्ततः कुकूयपदान्नम् धातोरौणादिको नक् प्रत्ययश्च ततः षष्ठीबहुवचनम्(त्वा)(पत्मन्)(आ)(धूनोमि)(भन्दनानाम्) कल्याणाचरणानाम् (त्वा)(पत्मन्)(आ)(धूनोमि)(मदिन्तमानाम्) अतिशयितानन्दितानां परस्त्रीणां समीपे (त्वा)(पत्मन्) चञ्चलचेतः (आ)(धूनोमि)(मधुन्तमानाम् ) अतिशयेन माधुर्यगुणोपेतानाम् । वा छन्दसि सर्वे विधयो भवन्ति ॥ अ० १ । ४ । ९ । भा॰ ॥ इति नुडागमः (त्वा)(पत्मन्)(आ)(धूनोमि)(शुक्रम्) शुद्धं वीर्यवन्तम् (त्वा)(शुक्रे)(आ)(धूनोमि)(अह्नः) दिनस्य (रूपे)(सूर्यस्य)(रश्मिषु) ॥ अयं मन्त्र: शत० ११।५।९।८-९ व्याख्यातः ॥ ४८ ॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः ॥ यथा सूर्यस्य रश्मीन् प्राप्य जगत्पदार्थाः शुद्धा जायन्ते तथैव दुराचारी सुशिक्षां दण्डं च प्राप्य पवित्रो भवति।
गृहस्थैरत्यन्तदुष्टो व्यभिचारव्यवहारः सदैव निवर्तनीयः, कुतोऽस्य शरीरात्मबलनाशकत्वेन धर्मार्थकाममोक्षाणां प्रतिबन्धकत्वात् ॥ ८।४८ ॥
Subject
अथ गार्हस्थ्यकर्मणि पत्नी पतिमुपदिशति ॥
Meaning of Anvay
हे पत्मन् ! धर्मात् पतनशील! व्रेशीनां=अपामिव वर्तमानानां पत्नीनां दिव्यानामपामिव निर्मलविद्यासुशीलव्याप्तानां मध्ये व्यभिचारेण वर्तमानं त्वा त्वाम् अहमाधूनोमि समन्तात् कम्पयामि ।
हे पत्मन् कुकूननानां भृशं शब्दविद्यया नम्राणांसमीपे मौर्ख्येण वर्तमानं त्वा त्वाम् अहमाधूनोमि समन्तात् कम्पयामि ।
हे पत्मन् ! भन्दनानां कल्याणचरणानां सन्निधावधर्मचारित्वेन प्रवृत्तं त्वा त्वाम् अहम् धूनोमि समन्तात् कम्पयामि ।
हे पत्मन् ! चञ्चलचेतः मदिन्तमानां अतिशयितानन्दितानां परस्त्रीणां (समीपे)सनीडे दुःखदायित्वेन चरन्तं त्वा त्वाम्अहमाधूनोमि समन्तात् कम्पयामि ।
हे पत्मन्! मधुन्तमानाम् अतिशयेन माधुर्यगुणगोपेतानां समर्यादं कुचारिणं त्वा त्वाम् अहमाधूनोमि समन्तात् कम्पयामि।
हे पत्मन् ! अह्नः दिनस्य रूपे सूर्य्यस्य रश्मिषु च गृहे संगतिमीप्सुंशुक्रंशुद्धं वीर्यवन्तं त्वा शुक्रे आधूनोमि समन्तात् कम्पयामि ॥ ८ । ४८ ॥
[हे पत्मन् !अह्वो रूपे सूर्यस्य रश्मिषु च गृहे संगतिमीप्सुंशुक्रं त्वा शुक्रे आधूनोमि]
Special
व्रेशीनां त्वेत्यस्य देवा ऋृषयः। प्रजापतय:=गृहस्थाः ॥ याजुषी त्रिष्टुप् । कुकूननानामित्यस्य याजुषी जगती । भन्दनानामित्यस्य मदिन्तमानामित्यस्य मधुन्तमानामित्यस्य च याजुषी त्रिष्टुप्। शुक्रं त्वेत्यस्य साम्नी बृहती छन्दांसि । तेषु त्रिष्टुभो धैवतः । जगत्या निषादः । बृहत्या मध्यमश्च स्वराः॥