Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 8 / Mantra 45

63 Mantra
8/45
Devata- ईश्वरसभेशौ राजानौ देवते Rishi- शास ऋषिः Chhand- भूरिक् आर्षी त्रिष्टुप्,विराट आर्षी अनुष्टुप्, Swara- धैवतः, गान्धारः
Mantra with Swara
वा॒चस्पतिं॑ वि॒श्वक॑र्माणमू॒तये॑ मनो॒जुवं॒ वाजे॑ऽअ॒द्या हु॑वेम। स नो॒ विश्वा॑नि॒ हव॑नानि जोषद् वि॒श्वश॑म्भू॒रव॑से सा॒धुक॑र्म्मा। उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा वि॒श्वक॑र्मणऽए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा वि॒श्वक॑र्मणे॥४५॥

वा॒चः। पति॑म्। वि॒श्वक॑र्म्माण॒मिति॑ वि॒श्वऽक॑र्म्माणम्। ऊ॒तये॑। म॒नो॒जुव॒मिति॑ मनः॒ऽजुव॑म्। वाजे॑। अ॒द्य। हु॒वे॒म॒। सः। नः॒। विश्वा॑नि। हव॑नानि। जो॒ष॒त्। वि॒श्वश॑म्भू॒रिति॑ वि॒श्वऽश॑म्भूः। अव॑से। सा॒धुक॒र्म्मेति॑ सा॒धुऽक॑र्म्मा। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। इन्द्रा॑य। त्वा॒। वि॒श्वक॑र्म्मण॒ इति॑ वि॒श्वऽक॑र्म्मणे। ए॒षः। ते॒। योनिः॑। इन्द्रा॑य। त्वा॒। वि॒श्वक॑र्म्मण॒ इति॑ वि॒श्वऽक॑र्म्मणे ॥४५॥

Mantra without Swara
वाचस्पतिँविश्वकर्माणमूतये मनोजुवँ वाजे ऽअद्या हुवेम । स नो विश्वानि हवनानि जोषद्विश्वशम्भूरवसे साधुकर्मा । उपयामगृहीतो सीन्द्राय त्वा विश्वकर्मणे ऽएष ते योनिरिन्द्राय त्वा विश्वकर्मणे ॥

वाचः। पतिम्। विश्वकर्म्माणमिति विश्वऽकर्म्माणम्। ऊतये। मनोजुवमिति मनःऽजुवम्। वाजे। अद्य। हुवेम। सः। नः। विश्वानि। हवनानि। जोषत्। विश्वशम्भूरिति विश्वऽशम्भूः। अवसे। साधुकर्म्मेति साधुऽकर्म्मा। उपयामगृहीत इत्युपयामऽगृहीतः। असि। इन्द्राय। त्वा। विश्वकर्म्मण इति विश्वऽकर्म्मणे। एषः। ते। योनिः। इन्द्राय। त्वा। विश्वकर्म्मण इति विश्वऽकर्म्मणे॥४५॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(वाचः) देववाण्याः (पतिम्) स्वामिनं पालकं वा (विश्वकर्म्माणम्) विश्वानि=सर्वाणि धर्म्माणि कर्म्माणि यस्य तम्(ऊतये) रक्षणाय (मनोजुवं) मनोगतिम् (वाजे) विज्ञाने युद्धे वा (अद्य) अस्मिन्नहनि। निपातस्य च ॥अ० ६ । ३ । १३६॥ इति दीर्घ:(हुवेम)आह्वयेम (सः)(नः) अस्माकम् (विश्वानि) अखिलानि (हवनानि) प्रार्थनावाग्दत्तानि (जोषत्) जुषेत। अत्र व्यत्ययेन परस्मैपदम्(विश्वशम्भूः) विश्वं=सर्वं शं=सुखं भावयति (अवसे) प्रीतये (साधुकर्म्मा) साधूनि=श्रेष्ठानि कर्म्माणि यस्य (उपयामगृहीतः)(असि)(इन्द्राय) ऐश्वर्याय (त्वा) त्वाम् (विश्वकर्म्मणे) अखिलकर्म्मणोत्पादनाय (एषः)(ते)(योनिः)(इन्द्राय) शिल्पविद्यैश्वर्य्याय (त्वा) त्वाम् (विश्वकर्म्मणे) अखिलकर्म्मसाधनाय ॥ अयं मन्त्र: शत० ४।६।४।५ व्याख्यातः ॥ ४५॥
Essence
अत्र श्लेषालङ्कारः॥ यः परमेश्वरो न्यायाधीशो वाऽस्मदनुष्ठितानि कर्म्माणि विदित्वा तदनुसारेणास्मान्नियच्छति, यः कस्याप्यकल्याणमधर्मकं कर्म च न करोति, ययोः सहायेन मनुष्यो योगक्षेमव्यवहारविद्याः प्राप्य धर्मशीलो जायेत, स एवास्माभिः परमार्थव्यवहारसिद्धये सेवनीयोऽस्ति ॥ ८ । ४५॥
Subject
अथ गृहस्थकर्म्मणि राजविषयमीश्वरविषयं चाह ॥
Meaning of Anvay
वयमद्य अस्मिन्नहनि वाजे विज्ञाने युद्धे वा वाच ऊतये रक्षणाय यं वाचा देववाण्या: पतिं स्वामिनं पालकं वा विश्वकर्म्माणं विश्वानि=सर्वाणि धर्म्माणि कर्म्माणि यस्य तं मनोजुवं मनोगतिंहुवेमआह्वयेम, यः साधुकर्म्मा साधूनि=श्रेष्ठानि कर्माणि यस्य विश्वशम्भूः विश्वं=सर्वं शं=सुखं भावयति, [सः] सभापतिर्न: अस्माकम् अवसे प्रीतये विश्वानि अखिलानि हवनानि प्रार्थनावाग्दत्तानि जोषत् जुषेत ।
यस्य ते=तवैष योनिरस्ति यस्त्वमुपयामगृहीतोऽसि, अतस्त्वां विश्वकर्मणे अखिलकर्मणोत्पादनाय इन्द्राय ऐश्वर्यार्य हुवेमआह्वयेम, विश्वकर्म्मणे अखिलकर्म्मसाधनाय इन्द्राय शिल्पविद्यैश्वर्य्याय त्वां सेवेमहि, चेत्युपाश्लिष्टोऽन्वयार्थः ॥ ८ । ४५ ॥
[वयमद्य.....वाचस्पतिं विश्वकर्माणं.......हुवेम, यः साधुकर्मा विश्वशम्भूः [सः] सभापतिर्नोऽवसे विश्वानि हवनानि जोषत्]
Special
वाचस्पतिमित्यस्य शास। ईश्वरसमेशौ राजानौ=स्पष्टम्। भुरिगार्षी त्रिष्टुप् । उपयामेत्यस्य स्वराडार्ष्यनुष्टुप् । आद्यस्य धैवतः परस्य गान्धारः ॥