Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 8 / Mantra 43

63 Mantra
8/43
Devata- पत्नी देवता Rishi- कुसुरुविन्दुर्ऋषिः Chhand- आर्षी पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
इडे॒ रन्ते॒ हव्ये॒ काम्ये॒ चन्द्रे॒ ज्योतेऽदि॑ते॒ सर॑स्वति॒ महि॒ विश्रु॑ति। ए॒ता ते॑ऽअघ्न्ये॒ नामा॑नि दे॒वेभ्यो॑ मा सु॒कृतं॑ ब्रूतात्॥४३॥

इडे॑। रन्ते॑। हव्ये॑। काम्ये॑। चन्द्रे॑। ज्योते॑। अदि॑ते। सर॑स्वति। महि॑। विश्रु॒तीति॒ विऽश्रु॑ति। ए॒ता। ते॒। अ॒घ्न्ये॒। नामा॑नि। दे॒वेभ्यः॑। मा॒। सु॒कृत॒मिति॒ सु॒ऽकृ॑तम्। ब्रू॒ता॒त् ॥४३॥

Mantra without Swara
इडे रन्ते हव्ये काम्ये चन्द्रे ज्योते दिते सरस्वति महि विश्रुति । एता ते अघ्न्ये नामानि देवेभ्यो मा सुकृतम्ब्रूतात् ॥

इडे। रन्ते। हव्ये। काम्ये। चन्द्रे। ज्योते। अदिते। सरस्वति। महि। विश्रुतीति विऽश्रुति। एता। ते। अघ्न्ये। नामानि। देवेभ्यः। मा। सुकृतमिति सुऽकृतम्। ब्रूतात्॥४३॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(इडे) स्तोतुमर्हे(रन्ते) रमणीये (हव्ये) स्वीकर्तुमर्हे(काम्ये) कमनीये (चन्द्रे)आह्लादकारके (ज्योते) सुशीलेन द्योतमाने (अदिते) आत्मस्वरूपेणाविनाशिनि(सरस्वति) प्रशस्तं सरो=विज्ञानं विद्यते यस्यास्तत्सम्बुद्धौ(महि) पूज्यतमे (विश्रुति) विविधाः श्रुतयः=श्रवणानि तद्वति (एता) एतानि (ते) तव (अध्न्ये)हन्तुं=तिरस्कर्तुमयोग्ये (नामानि) गौणिक्य आख्या: (देवेभ्यः) दिव्यगुणेभ्यो दिव्यगुणयुक्तपतिभ्यः (मा) माम् (सुकृतम्) सुष्ठु कर्त्तव्यं कर्म (ब्रूतात्) ब्रूहि ॥ अयं मन्त्रः शत० ४।५। ८ । १० व्याख्यातः ॥ ४३ ॥
Essence
या विद्वद्भ्यः शिक्षां प्राप्तवती विदुषी स्त्री सा यथोक्तया शिक्षया शिक्षेत्, यतस्सर्वा अधर्ममार्गे न प्रवर्त्तेरन् । परस्परं विद्यावृद्धिं स्वतनयान् कन्याश्च शिक्षिता: कुर्य्युः ॥८ । ४३॥
Subject
पुनः प्रकारान्तरेण तदेवाह ॥
Meaning of Anvay
हे अघ्न्ये! हन्तुं=तिरस्कर्तुमयोग्ये अदिते ! आत्मस्वरूपेणाविनाशिनि ज्योते ! सुशीलेन द्योतमाने इडे ! स्तोतुमर्हेहव्ये ! स्वीकर्तुमर्हे काम्ये ! कमनीये रन्ते रमणीये चन्द्रे ! आह्लादकारके विश्रुति ! विविधाः श्रुतय:=श्रवणानि तद्वति महि ! पूज्यतमे सरस्वति ! प्रशस्तं सर:=विज्ञानं विद्यते यस्यास्तत्--सम्बुद्धौ, पत्नि ! ते तव एता एतानि नामानि गौणिक्य-आख्या: सन्ति, त्वं देवेभ्यः दिव्यगुणेभ्यो दिव्यगुणयुक्तपतिभ्यः मा मां सुकृतं सुष्ठु कर्त्तव्यं कर्म ब्रूतात् ब्रूहि ॥ ८ । ४३ ॥
[हे.....सरस्वति पत्नि !......त्वं देवेभ्यो मां सुकृतं बूतात्]
Meaning of Essence
देवेभ्यः=विद्वद्भ्यः ॥
Special
कुसुरुविन्दुः। पत्नी=स्पष्टम्। आर्षीपंक्तिः । पञ्चमः ॥