Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 8 / Mantra 42

63 Mantra
8/42
Devata- पत्नी देवता Rishi- कुसुरुविन्दुर्ऋषिः Chhand- स्वराट ब्राह्मी उष्णिक्, Swara- ऋषभः
Mantra with Swara
आजि॑घ्र क॒लशं॑ म॒ह्या त्वा॑ विश॒न्त्विन्द॑वः। पुन॑रू॒र्जा निव॑र्त्तस्व॒ सा नः॑ स॒हस्रं॑ धुक्ष्वो॒रुधा॑रा॒ पय॑स्वती॒ पुन॒र्मावि॑शताद् र॒यिः॥४२॥

आ। जि॒घ्र॒। क॒लश॑म्। म॒हि॒। आ। त्वा॒। वि॒श॒न्तु॒। इन्द॑वः। पुनः॑। ऊ॒र्जा। नि। व॒र्त्त॒स्व॒। सा। नः॒। स॒हस्र॑म्। धु॒क्ष्व॒। उ॒रुधा॒रेत्यु॒रुऽधा॑रा। पय॑स्वती। पुनः॑। मा॒। आ। वि॒श॒ता॒त्। र॒यिः ॥४२॥

Mantra without Swara
आजिघ्र कलशम्मह्या त्वा विशन्त्विन्दवः पुनरूर्जा निवर्तस्व सा नः सहस्रन्धुक्ष्वोरुधारा पयस्वती पुनर्माविशताद्रयिः ॥

आ। जिघ्र। कलशम्। महि। आ। त्वा। विशन्तु। इन्दवः। पुनः। ऊर्जा। नि। वर्त्तस्व। सा। नः। सहस्रम्। धुक्ष्व। उरुधारेत्युरुऽधारा। पयस्वती। पुनः। मा। आ। विशतात्। रयिः॥४२॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(आ)(जिघ्र)(कलशम्) नूतनं घटम् (महि) महागुणविशिष्टे पत्नि (आ)(त्वा)(विशन्तु)(इन्दवः) सोमाद्योषधिरसाः (पुनः)(ऊर्जा) पराक्रमेण (नि)(वर्त्तस्व)(सा)(नः) अस्मान् (सहस्रम्) असंख्यम् (धुक्ष्व) प्रपूर्धि्य(उरुधारा) उर्वी धारा=विद्यासुशिक्षाधारणा यस्याः सा (पयस्वती) प्रशस्तानि पयांस्यन्नान्युदकानि वा यस्यां सा (पुनः)(मा) माम् (आ)(विशतात्)(रयि:) धनम् ॥ अयं मन्त्र: शत० ४। ५ ।८ । ६-९ व्याख्यातः ॥ ४२॥
Essence
विदुषीणां स्त्रीणां योग्यताअस्ति--यादृशान् सुपरीक्षितान् पदार्थान् स्वयं भुञ्जीरन् तादृशानेव पत्ये दद्युः, यतो बुद्धिबलविद्यावृद्धि: स्यात्।
[पुनर्म्मा=मां रयिराविशतात्]
धनादिपदार्थानामुन्नतिं च कुर्य्युः ॥ ८ । ४२॥
Subject
अथ गृहस्थकर्म्मणि पत्न्युपदेशविषयमाह ॥
Meaning of Anvay
हे(महि) महागुणविशिष्टेपत्नि ! या त्वमुरुधारा उर्वी धारा=विद्यासुशिक्षाधारणा यस्याः सा पयस्वती प्रशस्तानि पयांसि=अन्नान्युदकानि वा यस्यां सा असि, सा गृहस्थशुभकर्मसु कलशं नूतनं घटम् आजिघ्रं, पुनस्त्वा=त्वां सहस्रम् असंख्यम् इन्दव:सोमाद्योषधिरसाः आ विशन्तु, पुनरुर्जा पराक्रमेण नः=अस्मान्धुक्ष्वः प्रपूर्द्धि, पुनर्म्मा=मां रयिः धनम् आ=विशतात्, यतस्त्वं दुःखान्निवर्त्तस्व ॥ ८।४२॥
[हे.......पत्नि !....त्वमुरुधारा पयस्वत्यसि, त्वा=त्वां सहस्रमिन्दवआविशन्तु, पुनर्जा नः=अस्मान् धुक्ष्व]
Meaning of Essence
ऊर्जा=बुद्धिबलविद्यावृद्धया । रयिः=धनादिपदार्थाः ॥
Special
कुसुरुविन्दुः। पत्नी=स्पष्टम् । स्वराड्ब्राह्म्युष्णिक् । ऋषभः ॥