Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 8 / Mantra 41

63 Mantra
8/41
Devata- सूर्य्यो देवता Rishi- प्रस्कण्व ऋषिः Chhand- निचृत् आर्षी गायत्री,स्वराट आर्षी गायत्री, Swara- षड्जः
Mantra with Swara
उदु॒ त्यं जा॒तवे॑दसं दे॒वं व॑हन्ति के॒तवः॑। दृ॒शे विश्वा॑य॒ सूर्य॑म्। उ॒प॒या॒मगृ॑हीतोऽसि॒ सूर्या॑य त्वा भ्रा॒जायै॒ष ते॒ योनिः॒ सूर्या॑य त्वा भ्रा॒जाय॑॥४१॥

उत्। ऊँ॒ऽइत्यूँ॑। त्यम्। जा॒तवे॑दस॒मिति॑ जा॒तऽवे॑दसम्। दे॒वम्। व॒ह॒न्ति॒। के॒तवः॑। दृ॒शे। विश्वा॑य। सूर्य्य॑म्। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मगृ॑हीतः। अ॒सि॒। सूर्य्या॑य। त्वा॒। भ्रा॒जाय॑। ए॒षः। ते॒। योनिः॑। सूर्य्या॑य। त्वा॒। भ्रा॒जाय॑ ॥४१॥

Mantra without Swara
उदु त्यञ्जातवेदसन्देवं वहन्ति केतवः । दृशे विश्वाय सूर्यम् । उपयामगृहीतोसि सूर्याय त्वा भ्राजायैष ते योनिः सूर्याय त्वा भ्राजाय ॥

उत्। ऊँऽइत्यूँ। त्यम्। जातवेदसमिति जातऽवेदसम्। देवम्। वहन्ति। केतवः। दृशे। विश्वाय। सूर्य्यम्। उपयामगृहीत इत्युपयामगृहीतः। असि। सूर्य्याय। त्वा। भ्राजाय। एषः। ते। योनिः। सूर्य्याय। त्वा। भ्राजाय॥४१॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(उत्)(उ) वितर्के (त्यम्) अमुम्(जातवेदसम्) यो जातान् वेत्ति विन्दते वा जाता वेदसो=वेदाः पदार्थाः वा यस्मात्तम् (देवम्) शुद्धस्वरूपम् (वहन्ति) प्रापयन्ति (केतवः) किरण इव प्रकाशमाना विद्वांसः (दृशे) द्रष्टुम्(विश्वाय) सर्वजगदुपकाराय (सूर्यम्) चराचरात्मानमीश्वरम् (उपयामगृहीतः) उपगतैर्य्यामैर्य्यमैः स्वीकृतः (असि)(सूर्य्याय) प्राणाय सवित्रे वा (त्वा) त्वाम्(भ्राजाय) प्रकाशकाय (एषः) कार्यकारणसंगत्या यदनुमीयते (ते) तव (योनिः) असमंप्रमाणम् (सूर्या)मय) ज्ञानसूर्य्यस्य प्राप्तये (त्वा) त्वाम् (भ्राजाय) । अयं मन्त्रः शत० ४। ३।४। ९ व्याख्यातः ॥ ४१॥
Essence
यथा वेदविदो विद्वांसो वेदानुकूलमार्गेण परमेश्वरं विज्ञाय श्रेष्ठविज्ञानेन तदुपासनं कुर्वन्ति तथैव स ईश्वरः सर्वैरुपासनीयः । न तादृशेन ज्ञानेन विनेश्वरोपासना भवितुं शक्या, कुतो? विज्ञानमेव परमेश्वरोपासनावधिरिति ॥३॥४१॥
Subject
अथेश्वरपक्षे गृहस्थकर्म्माह ॥
Meaning of Anvay
यं जातवेदसं यो जातान् वेत्ति विन्दते वा, जाता वेदस:=वेदाः पदार्था वा यस्मात्तंदेवं शुद्धस्वरूपं सूर्य्यं जगदीश्वरं चराचरात्मानमीश्वरंविश्वाय सर्वजगदुपकाराय दृशे द्रष्टुं केतवः किरणा इव प्रकाशमाना विद्वांस: उद्वहन्ति प्रापयन्ति, उसवितकत्यम् अमुं जगदीश्वरं वयं प्राप्नुयाम ।
हेजगदीश्वर! यस्त्वमस्माभिर्भ्राजाय प्रकाशकाय सूर्याशेय प्राणाय सवित्रे वा उपयामगृहीतः उपगतैर्य्यामैः=यमैः स्वीकृतः असि तं त्वा=त्वां सर्वे तदर्थ गृह्णन्तु ।
यस्य ते=तवैष कार्यकारणसंगत्या यदनुमीयते योनि: असमं प्रमाणम् अस्ति, तं [त्वा]=त्वांभ्राजाय सूर्य्याय ज्ञानसूर्य्यस्य प्राप्तये कारणं विजानीमः ॥ ५ ॥ ४१ ॥
[यं......सूर्यं=जगदीश्वरं विश्वाय दृशे केतव उद्वहन्ति......त्यं जगदीश्वरं वयं प्राप्नुयाम]
Meaning of Essence
केतवः=वेदविदो विद्वांसः । उद्वहन्ति=तदुपासनं कुर्वन्ति ॥
Special
प्रस्कण्वः । सूर्य:=जगदीश्वरः । पूर्वस्य निचृदार्षी । उपयामेत्यस्य स्वराडार्षी गायत्री च । षड्जः ॥