Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 8 / Mantra 40

63 Mantra
8/40
Devata- गृहपतयो राजादयो देवताः Rishi- प्रस्कण्व ऋषिः Chhand- आर्षी गायत्री,स्वराट आर्षी गायत्री, Swara- षड्जः
Mantra with Swara
अदृ॑श्रमस्य के॒तवो॒ वि र॒श्मयो॒ जनाँ॒२ऽअनु॑। भ्राज॑न्तो अ॒ग्नयो॑ यथा। उ॒प॒या॒मगृ॑हीतोऽसि॒ सूर्या॑य त्वा भ्रा॒जायै॒ष ते॒ योनिः॒ सूर्या॑य त्वा भ्रा॒जाय॑। सूर्य॑ भ्राजिष्ठ॒ भ्राजि॑ष्ठ॒स्त्वं दे॒वेष्वसि॒ भ्राजि॑ष्ठो॒ऽहं म॑नु॒ष्येषु भूयासम्॥४०॥

अदृ॑श्रम्। अ॒स्य॒। के॒तवः॑। वि। र॒श्मयः॑। जना॑न्। अनु॑। भ्राज॑न्तः। अ॒ग्नयः॑। य॒था॒। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। सूर्य्या॑य। त्वा॒। भ्रा॒जाय॑। ए॒षः। ते॒। योनिः॑। सूर्या॑य। त्वा॒। भ्रा॒जाय॑। सूर्य्य॑। भ्रा॒जि॒ष्ठ॒। भ्राजि॑ष्ठः। त्वम्। दे॒वेषु॑। अ॒सि॒। भ्राजि॑ष्ठः। अ॒हम्। म॒नु॒ष्ये᳖षु। भू॒या॒सम् ॥४०॥

Mantra without Swara
अदृश्रमस्य केतवो वि रश्मयो जनाँ अनु । भ्राजन्तो अग्नयो यथा । उपयामगृहीतोसि सूर्याय त्वा भ्राजायैष ते योनिः सूर्याय त्वा भ्राजाय । सूर्य भ्राजिष्ठ भ्राजिष्ठस्त्वन्देवेष्वसि भ्राजिष्ठो हम्मनुष्येषु भूयासम् ॥

अदृश्रम्। अस्य। केतवः। वि। रश्मयः। जनान्। अनु। भ्राजन्तः। अग्नयः। यथा। उपयामगृहीत इत्युपयामऽगृहीतः। असि। सूर्य्याय। त्वा। भ्राजाय। एषः। ते। योनिः। सूर्याय। त्वा। भ्राजाय। सूर्य्य। भ्राजिष्ठ। भ्राजिष्ठः। त्वम्। देवेषु। असि। भ्राजिष्ठः। अहम्। मनुष्येषु। भूयासम्॥४०॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(अदृश्रम्) पश्येयम् अत्र लिङर्थे लुङ् । उत्तमैकश्चनप्रयोगो बहुलं छन्दसीति रुडागमः । ऋदृशोऽङि गुणः ॥ अ० ७। ४ ।१६॥ इति प्राप्तौ गुणाभावश्च(अस्य) जगतः (केतवः) ज्ञापकाः (वि)विशेषेण (रश्मयः) किरणाः (जनान्) मनुष्यादीन् प्राणिनः (अनु)(भ्राजन्तः) प्रकाशमानाः (अग्नयः) सूर्य्यविद्युत्प्रसिद्धास्त्रयः (यथा)(उपयामगृहीतः)(असि)(सूर्य्याय) सूर्य्य इव विद्यादिसद्गुणैः प्रकाशमानाय (त्वा)(भ्राजाय) जीवनादिप्रकाशाय (एषः)(ते)(योनिः)(सूर्य्याय) चराचरात्मने जगदीश्वराय (त्वा)(भ्राजाय) सर्वत्र प्रकाशमानाय (सूर्य्य) सूर्य्यस्येव न्यायविद्यासु प्रकाशमान (भ्राजिष्ठ) अतिशयेन सुशोभित (भ्राजिष्ठः)(त्वम्)(देवेषु) अखिलविद्यासु प्रकाशमानेषु विद्वत्सु (असि)(भ्राजिष्ठः)(अहम्)(मनुष्येषु) विद्यान्यायाचरणे प्रकाशमानेषु मानवेषु (भूयासम्)
अयम्मन्त्रः शत० ४। ५।४।११-१२ व्याख्यातः ॥ ४० ॥
Essence
अत्रोपमालङ्कारः॥ यथेह सूर्य्यकिरणाः सर्वत्र प्रसृताः प्रकाशन्ते तथा राजप्रजा- सभाजनाश्शुभगुणकर्मस्वभावेषु प्रकाशमानास्सन्तु, कुतो?--
[हे भ्राजिष्ठ सूर्य ! यथा त्वं देवेषु भ्राजिष्ठोऽसि तथाऽहं मनुष्येषु भूयासम्]
नहि मनुष्यशरीरं प्राप्य कस्यचिदुत्साह-पुरुषार्थसत्पुरुषसंगयोगाभ्यासाचरितस्य जनस्य धर्म्मार्थ- काममोक्षसिद्धिः शरीरात्मसमाजोन्नतिश्च दुर्लभाऽस्ति,
[तात्पर्यमाह--]
तस्मात्--सर्वैर्मनुष्यैरालस्यंत्यक्त्वा नित्यं प्रयतितव्यम् ॥ ८ । ४०॥
Subject
पुनः प्रकारान्तरेण तदेवाह ॥
Meaning of Anvay
यथाऽस्य जगतः पदार्थान् [वि] भ्राजन्तः विशेषेण प्रकाशमानाः रश्मयः किरणाः केतवः ज्ञापकाःअग्न्यः सूर्य्यविद्युत्प्रसिद्धास्त्रयः सन्ति तथैव जनान् मनुष्यादीन् प्राणिनः [अनु]=अन्वहमदृश्रं पश्येयम् ।
त्वमुपयामगृहीतोऽसि, यस्य ते=तवैष योनिरस्ति तं [त्वा]=त्वां भ्राजाय जीवनादिप्रकाशाय सूर्य्याय सूर्य्य इव विद्यादिसगुणैः प्रकाशमानाय प्रचोदयामि। तं [त्वा]=त्वां भ्राजाय प्रकाशमानाय सर्वत्र प्रकाशमानाय सूर्य्याय=परमात्मने चराचरात्मने जगदीश्वराय नियोजयामि ।
हे भ्राजिष्ठअतिशयेन सुशोभित सूर्य्य सूर्य्यस्येव न्यायविद्यासु प्रकाशमान ! यथा त्वं देवेषु अखिलविद्यासु प्रकाशमानेषु विद्वत्सु भ्राजिष्ठोऽसि, तथाऽहं मनुष्येषु विद्यान्यायाचरणे प्रकाशमानेषु मानवेषु भूयासम् ॥ ८ । ४० ॥
[यथास्य जगतः पदार्थान् [वि] भ्राजन्तो रश्मय.....सन्ति तर्व जनान् [अनु]=अन्वहमदृश्रम]
Special
अदृश्रमित्यस्य प्रस्कण्वः । गृहपतयो राजादय:=गृहस्था राजादयः॥ अदृश्रमित्यस्य सूर्य्येत्यस्य चार्षी गायत्री। उपयामगृहीतोऽसीत्यस्य स्वराडार्षी गायत्री। षड्जः ॥