Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 8 / Mantra 4

63 Mantra
8/4
Devata- आदित्यो गृहपतिर्देवताः Rishi- कुत्स ऋषिः Chhand- निचृत् जगती Swara- निषादः
Mantra with Swara
य॒ज्ञो दे॒वानां॒ प्रत्ये॑ति सु॒म्नमादि॑त्यासो॒ भव॑ता मृड॒यन्तः॑। आ वो॒ऽर्वाची॑ सुम॒तिर्व॑वृत्याद॒ꣳहोश्चि॒द्या व॑रिवो॒वित्त॒रास॑दादि॒त्येभ्य॑स्त्वा॥४॥

य॒ज्ञः। दे॒वाना॑म्। प्रति॑। ए॒ति॒। सु॒म्नम्। आदि॑त्यासः। भव॑त। मृ॒ड॒यन्तः॑। आ। वः॒। अ॒र्वाची॑। सु॒म॒तिरिति॑ सुऽम॒तिः। व॒वृ॒त्या॒त्। अ॒होः। चि॒त्। या। व॒रि॒वो॒वित्त॒रेति॑ वरिवो॒वित्ऽत॑रा। अस॑त्। आ॒दि॒त्येभ्यः। त्वा॒ ॥४॥

Mantra without Swara
यज्ञो देवानाम्प्रत्येति सुम्नमादित्यासो भवता मृडयन्तः । आ वोर्वाची सुमतिर्ववृत्यादँहोश्चिद्या वरिवोवित्तरासदादित्येभ्यस्त्वा ॥

यज्ञः। देवानाम्। प्रति। एति। सुम्नम्। आदित्यासः। भवत। मृडयन्तः। आ। वः। अर्वाची। सुमतिरिति सुऽमतिः। ववृत्यात्। अहोः। चित्। या। वरिवोवित्तरेति वरिवोवित्ऽतरा। असत्। आदित्येभ्यः। त्वा॥४॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(यज्ञः) स्त्रीपुरुषाभ्यां सङ्गमनीय: (देवानाम्) विदुषाम् (प्रति) प्रतीतम् (एति) प्रापयति (सुम्नम्) सुखम् । सुम्नमिति सुखनामसु पठितम् ॥ निघं० ३ । ६ ॥(आदित्यासः) आदित्यवद्विद्या- दिशुभगुणैः प्रकाशमाना: (भवत)(मृडयन्तः) सर्वान् सुखयन्तः (आ)(वः) युष्माकम् (अर्वाची) सुशिक्षाविद्याभ्यासात्पश्चाद्विज्ञानमञ्चति=प्राप्नोत्यनया सा (सुमतिः) शोभना चाऽसौ मतिः (ववृत्यात्) वर्त्तताम् । अत्र बहुलं छन्दसि ॥ अ० २ । ४ । ७६ ॥ इति शपः श्लुर्व्यत्ययेन परस्मैपदञ्च(अंहोः) सुखप्रापकस्य गृहाश्रमस्याऽनुष्ठानस्य (चित्) अपि (या)(वरिवोवित्तरा) वरिवः=सत्यं व्यवहारं वेत्यनया साऽतिशयिता (असत्) भवेत् । लेट्प्रयोगोऽयम्(आदित्येभ्यः) सर्वेभ्यो मासेभ्यः (त्वा) त्वाम् ॥ अयं मन्त्र: शत० ४ । ३ । ५ । १५ व्याख्यातः ॥ ४ ॥
Essence
विवाहं कृत्वा स्त्रीपुरुषाभ्यामाप्तानां विदुषां संगाद्येन येन कर्मणा विद्यासुशिक्षाबुद्धिवर्द्धनं सौहार्दं परोपकारश्च वर्द्धेत, तत्तदनुष्ठेयमिति ॥ ८ । ४॥
Subject
पुनर्गृहाश्रमविषयमाह ॥
Meaning of Anvay
हे आदित्यासः। आदित्यवद्विद्यादिशुभगुणैः प्रकाशमाना: यूयं देवानां विदुषां वः=युष्माकं यो गृहाश्रमाख्यो यज्ञ: स्त्रीपुरुषाभ्यां संगमनीयः सुम्नं सुखं प्रति-एति प्रतीतं प्रापयति, या-अंहो: सुखप्रापकस्य गृहाश्रमस्यानुष्ठानस्य वरिवोवित्तरा वरिवः=सत्यं व्यवहारं वेत्त्यनया साऽतिशयिता सुमतिः शोभना चासौ मतिः आववृत्यात् वर्त्तताम् ।
या त्वा त्वाम् आदित्येभ्यः सर्वेभ्यो मासेभ्यः प्राप्तोत्तमविद्याशिक्षाऽसत् भवेत् तया चित् अपि युक्त्या वा वां सदा मृडयन्तः सर्वान् सुखयन्तः भवत ॥ ८ । ४॥
[हे आदित्यासः ! यूयं देवानां वः=युष्माकं यो गृहाश्रमाख्यो यज्ञः सुम्नं प्रत्येति, या......सुमति-
राववृत्यात्, या त्वादित्येभ्यः प्राप्तोत्तमविद्यासुशिक्षाऽसत् तया सदा मृडयन्तो भवत]
Special
कुत्सः । आदित्यो गृहपति:=विद्यावान् गृहस्थः ॥ निचृज्जगती। निषादः ॥