Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 8 / Mantra 38

63 Mantra
8/38
Devata- राजादयो गृहपतयो देवताः Rishi- वैखानस ऋषिः Chhand- भूरिक् त्रिपाद गायत्री,स्वराट आर्ची अनुष्टुप्,भूरिक् आर्ची अनुष्टुप्, Swara- गान्धारः, षड्जः
Mantra with Swara
अग्ने॒ पव॑स्व॒ स्वपा॑ऽअ॒स्मे वर्चः॑ सु॒वीर्य॑म्। दध॑द्र॒यिं मयि॒ पोष॑म्। उ॒प॒या॒मगृ॑हीतोऽस्य॒ग्नये॑ त्वा॒ वर्च॑सऽए॒ष ते॒ योनि॑र॒ग्नये॑ त्वा॒ वर्च॑से। अग्ने॑ वर्चस्वि॒न् वर्च॑स्वाँ॒स्त्वं दे॒वेष्वसि॒ वर्च॑स्वान॒हं म॑नु॒ष्येषु भूयासम्॥३८॥

अग्ने॑। पव॑स्व। स्वपा॒ इति॑ सु॒ऽअपाः॑। अ॒स्मेऽइत्य॒स्मे। वर्चः॑ सु॒वीर्य्य॒मिति॑ सु॒ऽवीर्य्य॑म्। दध॑त्। र॒यिम्। मयि॑। पोष॑म्। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। अ॒ग्नये॑। त्वा॒। वर्च॑से। ए॒षः। ते॒। योनिः॑। अ॒ग्नये॑। त्वा॒। वर्च॑से। अग्ने॑। व॒र्च॒स्वि॒न्। वर्च॑स्वान्। त्वम्। दे॒वेषु॑। असि॑। वर्च॑स्वान्। अ॒हम्। म॒नु॒ष्ये᳖षु। भू॒या॒स॒म् ॥३८॥

Mantra without Swara
अग्ने पवस्व स्वपा ऽअस्मे वर्चः सुवीर्यम् । दधद्रयिम्मयि पोषम् उपयामगृहीतोस्यग्नये त्वा वर्चसेऽएष ते योनिरग्नये त्वा वर्चसे । अग्ने वर्चस्विन्वर्चस्वाँस्त्वन्देवेष्वसि वर्चस्वानहम्मनुष्येषु भूयासम् ॥

अग्ने। पवस्व। स्वपा इति सुऽअपाः। अस्मेऽइत्यस्मे। वर्चः सुवीर्य्यमिति सुऽवीर्य्यम्। दधत्। रयिम्। मयि। पोषम्। उपयामगृहीत इत्युपयामऽगृहीतः। असि। अग्नये। त्वा। वर्चसे। एषः। ते। योनिः। अग्नये। त्वा। वर्चसे। अग्ने। वर्चस्विन्। वर्चस्वान्। त्वम्। देवेषु। असि। वर्चस्वान्। अहम्। मनुष्येषु। भूयासम्॥३८॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(अग्ने) विज्ञानादिगुणप्रकाशक सभापते राजन्!(पवस्व) शुन्ध (स्वपाः) शोभनान्यपांसि=कर्म्माणि यस्य तद्वन् ! (अस्मे)अस्मभ्यम् (वर्चः) वेदाध्ययनम् (सुवीर्य्यम्) सुष्ठु वीर्य्यम्बलं यस्मात् (दधत्) धरन् सन् (रयिम्) धनम् (मयि) पालनीये जने (पोषम्) पुष्टिम्(उपयामगृहीतः) राजव्यवहाराय स्वीकृतः (असि)(अग्नये) विज्ञानमयाय न्यायव्यवहाराय (त्वा) त्वाम् (वर्चसे) तेजसे (एषः)(ते) तव (योनिः) राज्यभूमिर्निवसतिः, (अग्नये) विज्ञानमयाय परमेश्वराय (त्वा) त्वाम् (वर्चसे) स्वप्रकाशाय वेदप्रवर्त्तकाय (अग्ने) तेजोमय (वर्चस्विन्) बहुवर्चोऽध्ययनं विद्यते यस्मिन्(वर्चस्वान्) सर्वविद्याध्ययनयुक्त: (त्वम्)(देवेषु) विद्वद्वर्य्येषु (असि) भवसि (वर्चस्वान्) प्रशस्तविद्याध्ययनः (अहम्) प्रजासभासेनाजनः (मनुष्येषु) मनस्विषु । मनुष्याः कस्मान्मत्वा कर्माणि सीव्यन्ति मनस्यमानेन सृष्टा मनस्यतिः पुनर्मनस्वीभावे मनोरपत्यम्मनुष्यो वा॥ निरु० ३ । ७॥(भूयासम्) । अयं मन्त्रः शत० ४ । ५ ।४ । ९-१० व्याख्यातः॥ ३८ ॥
Essence
राजादिसभ्यजनानामिदिमुचितमस्ति--मनुष्येषु सर्वाः सद्विद्याः सद्गुणाँश्च वर्द्धयेयुः
[हे.....सभापते ! यथा त्वं देवेषु वर्चस्वानसि तथाहं मनुष्येषु वर्चस्वान् भूयासम्]
यतस्सर्वे श्रेष्ठगुणकर्मप्रचारेषूत्तमा भूयासुरिति ॥ ८ । ३८ ॥
Subject
पुनः प्रकारान्तरेण तदेवाह ॥
Meaning of Anvay
हे स्वपाः ! शोभनान्यपांसि=कर्माणि यस्य तद्वत्वर्चस्विन् बहुवर्च:=अध्ययनं विद्यते यस्मिन् अग्ने विज्ञानादिगुणप्रकाशक सभापते राजन् त्वमस्मेअस्मभ्यं सुवीर्यं सुष्ठु वीर्यं=बलं यस्मात् वर्च: वेदाध्ययनंमयि पालनीये जने रयिं धनं पोषं पुष्टिंच दधत् धरन् सन् पवस्व शुन्ध ।
त्वमुपयामगृहीतः राज्यव्यवहाराय स्वीकृतः असि, त्वाम् अग्नये विज्ञानमयाय परमेश्वराय वयं स्वीकुर्म्मः ।
ते=तवैष योनिः राज्यभूमिर्निवसतिः त्वा त्वां वर्चसे स्वप्रकाशाय वेदप्रवर्त्तकाय अग्नये विज्ञानमयाय न्यायव्यवहाराय सम्प्रेरयामः ।
हे [अग्ने] तेजोमय [वर्चस्विन्] बहु वर्च:=अध्ययनं विद्यते यस्मिन्सभापते ! यथा त्वं देवेषु विद्वद्वर्य्येषु वर्चस्वान् सर्वविद्याध्ययनयुक्तः असि भवसि तथाहं प्रजासभासेनाजनः मनुष्येषु मनस्विषु वर्चस्वान् प्रशस्तविद्याऽध्ययन: भूयासम् ॥ ८ । ३८ ॥
[हे.....अग्ने त्वमस्मे सुवीर्यं वर्चो मयि रयिं पोषं च दधत् सन् पवस्व]
Meaning of Essence
सुवीर्यं वर्च:=सद्विद्या ।
Special
अग्ने पवस्वेत्यस्य वैखानः। राजादयो गृहपतय:=स्पष्टम्॥भुरिक् त्रिपाद् गायत्री। षड्जः । उपयामेत्यस्य स्वराडार्च्यनुष्टुप् । अग्नेवर्चस्विन्नित्यस्य भुरिगार्च्यनुष्टुप् । गान्धारः ॥