Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 8 / Mantra 37

63 Mantra
8/37
Devata- सम्राड्माण्डलिकौ राजानौ देवते Rishi- विवस्वान् ऋषिः Chhand- साम्नी त्रिष्टुप्,विराट आर्ची त्रिष्टुप्, Swara- धैवतः
Mantra with Swara
इन्द्र॑श्च स॒म्राड् वरु॑णश्च॒ राजा॒ तौ ते॑ भ॒क्षं च॑क्रतु॒रग्र॑ऽए॒तम्। तयो॑र॒हमनु॑ भ॒क्षं भ॑क्षयामि॒ वाग्दे॒वी जु॑षा॒णा सोम॑स्य तृप्यतु स॒ह प्रा॒णेन॒ स्वाहा॑॥३७॥

इन्द्रः॑। च॒। स॒म्राडिति॑ स॒म्ऽराट्। वरु॑णः। च॒। राजा॑। तौ। ते॒। भ॒क्षम्। च॒क्र॒तुः। अग्रे॑। ए॒तम्। तयोः॑। अ॒हम्। अनु॑। भ॒क्षम्। भ॒क्ष॒या॒मि॒। वाक्। दे॒वी। जु॒षा॒णा। सोम॑स्य। तृ॒प्य॒तु॒। स॒ह। प्रा॒णेन॑। स्वाहा॑ ॥३७॥

Mantra without Swara
इन्द्रश्च सम्राड्वरुणश्च राजा तौ ते भक्षञ्चक्रतुरग्रेतम् । तयोरहमनु भक्षम्भक्षयामि वाग्देवी जुषाणा सोमस्य तृप्यतु सह प्राणेन स्वाहा ॥

इन्द्रः। च। सम्राडिति सम्ऽराट्। वरुणः। च। राजा। तौ। ते। भक्षम्। चक्रतुः। अग्रे। एतम्। तयोः। अहम्। अनु। भक्षम्। भक्षयामि। वाक्। देवी। जुषाणा। सोमस्य। तृप्यतु। सह। प्राणेन। स्वाहा॥३७॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(इन्द्रः) परमैश्वर्य्ययुक्त: (च) साङ्गोपाङ्गराज्याङ्गसहितः (सम्राट्) सम्यग्राजते स चक्रवर्ती (वरुण:) श्रेष्ठः (च) माण्डलिकः प्रतिमाण्डलिकश्च (राजा) न्यायादिगुणैः प्रकाशमानः (तौ)(ते) तव प्रजाजनस्य (भक्षम्) भजनं सेवनम् (चक्रतुः) कुर्य्याताम् । अत्र लिङर्थे लिट्(अग्रे)(एतम्)(तयोः) रक्षकयो राज्ञोः (अहम्)(अनु) पश्चात् (भक्षम्) सेवनम् (भक्षयामि) पालयामि (वाक्) वाणी (देवी) दिव्या (जुषाणा) प्रसन्ना सेवमाना सती (सोमस्य) विद्यैश्वर्यस्य (तृप्यतु) प्रीणातु (सह)(प्राणेन) बलेन (स्वाहा) सत्यया वाचा ॥ अयम्मन्त्रः शत० ४। ४ । ५ । ८ व्याख्यातः ॥ ३७ ॥
Essence
प्रजायां द्वौ ससभौ राजानौ भवितुं योग्यौ--एकश्चक्रवती द्वितीयो माण्डलिकश्चैतौ श्रेष्ठन्यायविनयादिभ्यां प्रजा: संरक्ष्य पुनस्ताभ्यः करं सङ्गृह्णीयाताम् ।
[या सोमस्य प्राप्तये जुषाणा देवी वागस्ति तया स्वाहा प्राणेन सह सर्वो जनस्तृप्यतु]
सर्वस्मिन् व्यवहारे विद्यावृद्धिं सत्यवचनं चाचारेताम्। त एव धर्मार्थकामैः प्रजा: सन्तोष्य स्वयं सन्तुष्टौ स्याताम् ।
[अहं तयोरेतं भक्षमनु भक्षयामि]
आपत्काले राजा प्रजां, प्रजा च राजानं संरक्ष्य परस्परमानन्देताम् ॥ ८ । ३७॥
Subject
अथ गृहस्थोपयोगिराजविषयमाह ॥
Meaning of Anvay
हे प्रजाजन ! य इन्द्रः परमैश्वर्ययुक्तः च साङ्गोपाङ्गराज्याङ्गसहितः सम्राट् सम्यग्राजते स चक्रवर्ती वरुण: श्रेष्ठः [च] माण्डलिक: प्रतिमण्डलिकश्च राजा न्यायादिगुणैः प्रकाशमान: अस्ति, तावग्रे ते=तव प्रजाजनस्य भक्षं भजनम्=सेवनं चक्रतुः कुर्य्याताम् ।
अहं तयोः रक्षकयो राज्ञोः एतं भक्षं भजनं=सेवनम् अनु पश्चात् भक्षयामि पालयामि ।
या सोमस्य विद्यैश्वर्य्यस्य प्राप्तये जुषाणा प्रसन्ना सेवमाना सती देवी दिव्या वाक् वाणीअस्ति तया स्वाहा सत्यया वाचा प्राणेन बलेन सह सर्वो जनस्तृप्यतु प्रीणातु ॥ ८ । ३७ ॥
[हे प्रजाजन ! य इन्द्रश्च सम्राड् वरुणः [च] राजास्ति, तावग्रे ते=तव भक्षं चक्रतुः]
Meaning of Essence
भक्षम्=करम्।
Special
इन्द्रश्चेत्यस्य विवस्यानृषिः। सम्राड्माण्डलिकौ राजानौ=स्पष्टम् । साम्नी त्रिष्टुप् । तयोरहमित्यस्य विराडार्ची त्रिष्टुप् । धैवतः ॥