Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 8 / Mantra 35

63 Mantra
8/35
Devata- गृहपतिर्देवता Rishi- मधुच्छन्दा ऋषिः Chhand- आर्षी उष्णिक् Swara- गान्धारः
Mantra with Swara
इन्द्र॒मिद्धरी॑ वह॒तोऽप्र॑तिधृष्टशवसम्। ऋषी॑णां च स्तु॒तीरुप॑ य॒ज्ञं च॒ मानु॑षाणाम्। उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा षोड॒शिन॑ऽए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोड॒शिने॑॥३५॥

इन्द्र॑म्। इत्। हरी॒ऽइति॒ हरी॑। व॒ह॒तः॒। अप्र॑तिधृष्टशवस॒मिति॒ अप्र॑तिऽधृष्टशवसम्। ऋषी॑णाम्। च॒। स्तु॒तीः। उप॑। य॒ज्ञम्। च॒। मानु॑षाणाम्। उपयामेत्यारभ्य पूर्ववत् ॥३५॥

Mantra without Swara
इन्द्रमिद्धरी वहतोप्रतिधृष्टशवसम् । ऋषीणाञ्च स्तुतीरुप यज्ञञ्च मानुषाणाम् । उपयामगृहीतोसीन्द्राय त्वा षोडशिने ऽएष ते योनिरिन्द्राय त्वा षोडशिने ॥

इन्द्रम्। इत्। हरीऽइति हरी। वहतः। अप्रतिधृष्टशवसमिति अप्रतिऽधृष्टशवसम्। ऋषीणाम्। च। स्तुतीः। उप। यज्ञम्। च। मानुषाणाम्। उपयामेत्यारभ्य पूर्ववत्॥३५॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(इन्द्रम्) परमैश्वर्यवर्द्धकं, सेनारक्षकम् (इत्) एव (हरी) शिक्षितावश्वौ(वहतः)(अप्रतिधृष्टशवसम्)धृष्टम्प्रगल्भं शवो=बलं येन तम्प्रतीति (ऋषीणाम्) मन्त्रार्थद्रष्टृणां विदुषाम् (च) वीराणाम्(स्तुतीः) गुणस्तवनानि (उप) यज्ञम् संगमनीयं व्यवहारम् (च)(मानुषाणाम्)(उपयामेति) पूर्ववत् ॥ अयं मन्त्र: शत० ४ । ४ । ५ । १ व्याख्यातः ॥ ३५॥
Essence
अत्र पूर्वस्मान्मन्त्रात् 'इन्द्र सोमपाश्चरेति’ पदत्रयमनुवर्त्तते ।
[हे सोमपाः ! त्वं....ऋषीणां [च] चाद् वीराणां स्तुतीर्मानुषाणां यज्ञं [च] चात्पालनमुपचर]
राज्ञो राजसभासभयानां प्रजास्थानां जनानामिदं योग्यमस्ति--प्रशंसनीयविदुषां सकाशाद्विद्योपदेशं प्राप्यान्येषामुपकारादिकं च सततं कुर्य्यु: ॥ ८ । ३५ ॥
Subject
पुनस्तमेव विषयमाह ॥
Meaning of Anvay
हे सोमपाः ! त्वं षोडशिन इन्द्राय यौ हरी शिक्षितावश्वौ अप्रतिधृष्टशवसंधृष्टं=प्रगल्भं शव:=बलं येन तम्प्रतीति, इन्द्रंपरमैश्वर्यवर्द्धकं सेनारक्षकं[इत] एवं वहतः, ताभ्यामृषीणां मन्त्रार्थद्रष्टृणां विदुषां [च] चादू वीराणां स्तुतीः गुणस्तवनानि मानुषाणां यज्ञं संगमनीयं व्यवहारं[च] चात् पालनमुपचर।
यस्य ते=तवैष योनिरस्ति यस्त्वमुपयामगृहीतोऽसि तं त्वाम् षोडशिन इन्द्राय जना उपाश्रयन्तु वयमपि त्वामाश्रयेम ॥ ८। ३५॥
[अनुवृत्तिमाह--]
Special
गोतमः । गृहपति:=गृहस्थः॥ विराडार्ष्यनुष्टुप् । गान्धारः । उपयामेत्यस्य सर्वं पूर्ववत् ।