Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 8 / Mantra 34

63 Mantra
8/34
Devata- गृहपतिर्देवता Rishi- मधुच्छन्दा ऋषिः Chhand- विराट आर्षी अनुष्टुप्, Swara- गान्धारः
Mantra with Swara
यु॒क्ष्वा हि के॒शिना॒ हरी॒ वृष॑णा कक्ष्य॒प्रा। अथा॑ नऽइन्द्र सोमपा गि॒रामुप॑श्रुतिं॑ चर। उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा षोड॒शिन॑ऽए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोड॒शिने॑॥३४॥

यु॒क्ष्व। हि। के॒शिना॑। हरी॒ऽइति॒ हरी॑। वृष॑णा। क॒क्ष्य॒प्रेति॑ कक्ष्य॒ऽप्रा। अथ॑। नः॒। इ॒न्द्र॒। सो॒मपा॒ इति॑ सोमऽपाः। गि॒राम्। उप॑श्रुति॒मित्युप॑ऽश्रुतिम्। च॒र॒। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। इन्द्रा॑य। त्वा॒। षो॒ड॒शिने॑। ए॒षः। ते॒। योनिः॑। इन्द्रा॑य। त्वा॒। षो॒ड॒शिने॑ ॥३४॥

Mantra without Swara
युक्ष्वा हि केशिना हरी वृषणा कक्ष्यप्रा । अथा न इन्द्र सोमपा गिरामुपश्रुतिञ्चर । उपयामगृहीतोसीन्द्राय त्वा षोडशिने ऽएष ते योनिरिन्द्राय त्वा षोडशिने ॥

युक्ष्व। हि। केशिना। हरीऽइति हरी। वृषणा। कक्ष्यप्रेति कक्ष्यऽप्रा। अथ। नः। इन्द्र। सोमपा इति सोमऽपाः। गिराम्। उपश्रुतिमित्युपऽश्रुतिम्। चर। उपयामगृहीत इत्युपयामऽगृहीतः। असि। इन्द्राय। त्वा। षोडशिने। एषः। ते। योनिः। इन्द्राय। त्वा। षोडशिने॥३४॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(युक्ष्व)(हि) खलु (केशिना) प्रशस्ता: केशा विद्यन्ते ययोस्तौ । अत्र सर्वत्र सुपां सुलुक् ॥ अ० ७ ।१ । ३९॥ इति विभक्तेराकारः(हरी) यानस्य हरणशीलौ (वृषणा) वृषवद्बलिष्ठौ (कक्ष्यप्रा) कक्ष्यं प्रातः पिपूर्तः (अथ)आनन्तर्य्ये (नः) अस्माकम् (इन्द्र) शत्रुविदारक सेनाध्यक्ष ! (सोमपाः) ऐश्वर्यरक्षक ! (गिराम्) वाचम् (उपश्रुतिम्) उपगतां श्रूयमाणाम् (चर) विजानीहि। अत्र चर इत्यस्य गत्यर्थत्वात् प्राप्त्यर्थो गृह्यते(उपयामगृहीतः) इत्यादि पूर्ववत् । अयं मन्त्रः शत० ४ । ५ । ३ । १०-११ व्याख्यातः ॥ ३४॥
Essence
अस्मिन् मन्त्रे ‘रथे’ इति पदस्य सम्बन्धः ।
[हे.......इन्द्र ! त्वं.......हरी रथे युक्ष्व]
प्रजासभासेनाजनाः सभाध्यक्षं ब्रूयुः--शुचिना त्वया न्यायस्थितये चत्वारि सेनाङ्गानि सुशिक्षितानि हृष्ट-पुष्टानि रक्षणीयानि ।
[अथ.....नः=अस्माकं गिरामुपश्रुतिं हि चर]
पुनरस्माकं प्रार्थनानुकूल्येन राजैश्वर्यरक्षापि कार्येति ॥८ । ३४॥
Subject
अथ राजविषये प्रतिपादितप्रकारेण गृहस्थधर्म्ममाह ॥
Meaning of Anvay
हे सोमपाः ऐश्वर्यरक्षक इन्द्र ! शत्रुविदारक सेनाध्यक्ष ! त्वं केशिना प्रशस्ता: केशा विद्यन्ते ययोस्तौ वृषणा वृषवद्बलिष्ठौ कक्ष्यप्रा कक्ष्यं प्रातः पिपूर्तः हरी यानस्य हरणशीलौ रथे युक्ष्व ।
अथेत्यनन्तरं नः=अस्माकं गिरां वाचम् उपश्रुतिम् उपगतां श्रूयमाणां हि खलु चर विजानीहि। उपयामेत्यस्यान्वयोऽपि पूर्ववत् ॥ ८ ।३४॥
[पूर्वपदसम्बन्धमाह]
Special
युक्ष्वा हीत्यस्य मधुच्छन्दा: ऋषिः । गृहपति:=गृहस्थः॥ विराडार्ष्यनुष्टुप् छन्दः । गान्धार: स्वरः । उपयामेत्यस्य पूर्ववच्छन्दः स्वरश्च ॥