Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 8 / Mantra 32

63 Mantra
8/32
Devata- दम्पती देवते Rishi- मेधातिथिर्ऋषिः Chhand- आर्षी गायत्री Swara- षड्जः
Mantra with Swara
म॒ही द्यौः पृ॑थि॒वी च॑ नऽइ॒मं य॒ज्ञं मि॑मिक्षताम्। पि॒पृ॒तां नो॒ भरी॑मभिः॥३२॥

म॒ही। द्यौः। पृ॒थि॒वी। च॒। नः॒। इ॒मम्। य॒ज्ञम्। मि॒मि॒क्ष॒ता॒म्। पि॒पृ॒ताम्। नः॒। भरी॑मभि॒रिति॒ भरी॑मऽभिः ॥३२॥

Mantra without Swara
मही द्यौः पृथिवी च न इमँयज्ञम्मिमिक्षताम् । पिपृतान्नो भरीमभिः ॥

मही। द्यौः। पृथिवी। च। नः। इमम्। यज्ञम्। मिमिक्षताम्। पिपृताम्। नः। भरीमभिरिति भरीमऽभिः॥३२॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(मही) महती पूज्या (द्यौः) दिव्या पुरुषाकृतिः (पृथिवी) विस्तृतशीला क्षमाधारणादिशक्तिमती (च)(नः) अस्माकम् (इमम्) वर्त्तमानम् (यज्ञम्) विद्वत्पूज्यं गृहाश्रमम् (मिमिक्षताम्) सुखैः सेक्तुमिच्छताम् (पिपृताम्) पिपूर्त्त: (नः)अस्माकम् (भरीमभिः) धारणपोषणादिगुणयुक्तैर्व्यवहारैर्वा पदार्थै: सह ॥ अयं मन्त्र: शत० ४ । ५ । २। १८ व्याख्यातः ॥ ३२॥
Essence
यथा सूर्यो जलाद्याकृष्य वर्षित्वा पाति, पृथिव्यादिपदार्थान् प्रकाशयति तद्वदयं पतिः सद्गुणान् पदार्थान् संगृह्य तद्दानेन रक्षेत्, विद्यादिगुणान् प्रकाशयेत् ।
[मही [पृथिवी]=पृथ्वी स्त्री]
यथेयं पृथिवी सर्वान् प्राणिनो धृत्वा पालयति तथेयं स्त्री गर्भादीन् धृत्वा पालयेत् ।
[भरीमभिर्न:=अस्माकं [च] चादन्येषामिमं यज्ञं मिमिक्षतां पिपृतां च]
एवं--सहितौ भूत्वा स्वार्थं संसाध्य मनोवाक् कर्मभिरन्यान् सर्वान् प्राणिनः सततं सुखयेताम् ॥ ८ । ३२ ॥
Subject
पुनर्गार्हस्थ्यकर्म्मोपदेशमाह ॥
Meaning of Anvay
हे दम्पती ! भवन्तौ मही द्यौ:=महान् प्रकाशमानः पतिः, [मही=महती पूज्या द्यौः=दिव्यापुरुषाकृतिः] मही महती पूज्या [पृथिवी]=पृथ्वी विस्तृतशीला क्षमाधारणादिशक्तिमती स्त्री च त्वं भरीमभिः धारणपोषणादिगुणयुक्तैर्व्यवहारैर्वा पदार्थै: सह नः=अस्माकं[च] चादन्येषामिमं वर्त्तमानं यज्ञं विद्वत्पूज्यं गृहाश्रमं मिमिक्षतां सुखैः सेक्तुमिच्छतां पिपृतां पिपूर्त्तःच ॥ ८।३२ ॥
[मही द्यौः=महान् प्रकाशमानः पतिः]
Meaning of Essence
भरीमभिः=मनोवाक्कर्मभिः । मिमिक्षताम्=सुखयेताम् ॥
Special
मेधातिथिः। दम्पती=स्त्रीपुरुषौ ॥ आर्षी गायत्री। षड्जः ॥