Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 8 / Mantra 31

63 Mantra
8/31
Devata- दम्पती देवते Rishi- गोतम ऋषिः Chhand- आर्षी गायत्री Swara- षड्जः
Mantra with Swara
मरु॑तो॒ यस्य॒ हि क्षये॑ पा॒था दि॒वो वि॑महसः। स सु॑गो॒पात॑मो॒ जनः॑॥३१॥

मरु॑तः। यस्य॑। हि। क्षये॑। पा॒थ। दि॒वः। वि॒म॒ह॒स॒ इति॑ विऽमहसः। सः। सु॒गो॒पात॑म॒ इति॑ सुऽगो॒पात॑मः। जनः॑ ॥३१॥

Mantra without Swara
मरुतो यस्य हि क्षये पाथा दिवो विमहसः । स सुगोपातमो जनः ॥

मरुतः। यस्य। हि। क्षये। पाथ। दिवः। विमहस इति विऽमहसः। सः। सुगोपातम इति सुऽगोपातमः। जनः॥३१॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(मरुतः) हिरण्यानि रूपाण्यृत्विजो विद्वांसश्च । मरुदिति हिरण्यना० ॥ निघं० १। २॥ रूपना० ३। ७॥ ऋत्विङ् ना० ३ । १ ॥ पदनामसु च ॥ निघं० ५ । ५ ॥(यस्य) गृहस्थस्य (हि) खलु(क्षये) गृहे (पाथ) प्राप्नुत द्वय्चोतस्तिङः ॥ अ० ६ । ३ । १३५ ॥ इति दीर्घ:(दिवः) दिव्या गुणाः स्वभावाः क्रिया वा (विमहसः) विविधतया पूजनीयाः (सः)(सुगोपातमः) शोभनधर्म्मण गां=पृथिवीं वाचं वा पाति सोऽशयितः (जनः) प्रसिद्धः ॥ अयं मन्त्रः शत० ४।५।२ । १७ व्याख्यातः ॥३१ ॥
Essence
नहि केनचित् मनुष्येण किल ब्रह्मचर्यसुशिक्षाविद्याशरीरात्मबलारोग्य-पुरुषार्थैश्वर्य- सज्जनसङ्गालस्यत्याग-यमनियमसेवनसुसहायैर्विनागृहाश्रमो धर्तुं शक्यः । न ह्येतेन विना धर्मार्थ- काममोक्षसिद्धिर्भवितुं योग्या, तस्मादयं सर्वैः प्रयत्नेन सेवितव्यः ॥ ८ ।३१॥
Subject
पुनरपि गार्हस्थ्यधर्मविषयमाह॥
Meaning of Anvay
हे कृतविवाहा विमहस: विविधतया पूजनीया ऋत्विजो मरुतः हिरण्यानि, रूपाणि, ऋत्विजो विद्वांसश्च गृहस्थाः ! यूयं यस्य गृहस्थस्य क्षये=गृहे हिरण्यानि सुरूपाणि दिव: दिव्या गुणा: स्वभावाः क्रिया वा पाथ प्राप्नुत स हि खलु सुगोपातमः शोभनधर्मेण गां=पृथिवीं वाचं वा पाति सोऽतिशयितः जनः प्रसिद्धःसदा सेव्यः ॥ ८ । ३१॥
[हे......गृहस्थाः ! यूयं यस्य गृहस्थस्य क्षये=गृहे हिरण्यानि सुरूपाणि दिव: पाथ, स हि सुगोपातमो जनः सदा सेव्य:]
Meaning of Essence
दिव:=ब्रह्मचर्यसुशिक्षाविद्याशरीरात्मबलारोग्यपुरुषार्थैश्वर्यसज्जनसङ्गा- लस्यत्यागयमनियमसेवनसुसहायाः ॥
Special
गोतमः । दम्पती:=स्त्रीपुरुषौ । आर्षी गायत्री। षड्जः ॥