Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 8 / Mantra 3

63 Mantra
8/3
Devata- आदित्यो गृहपतिर्देवताः Rishi- आङ्गिरस ऋषिः Chhand- निचृत् आर्षी पङ्क्ति Swara- पञ्चमः
Mantra with Swara
क॒दा च॒न प्रयु॑च्छस्यु॒भे निपा॑सि॒ जन्म॑नी। तुरी॑यादित्य॒ सव॑नं तऽइन्द्रि॒यमात॑स्थाव॒मृतं॑ दि॒व्यादि॒त्येभ्य॑स्त्वा॥३॥

क॒दा। च॒न। प्र। यु॒च्छ॒सि॒। उ॒भेऽइत्यु॒भे। नि। पा॒सि॒। जन्म॑नि॒ऽइति॒ जन्म॑नी॒। तु॒री॑य। आ॒दि॒त्य॒। सव॑नम्। ते॒। इ॒न्द्रि॒यम्। आ। त॒स्थौ॒। अ॒मृत॑म्। दि॒वि। आ॒दि॒त्येभ्यः॑। त्वा॒ ॥३॥

Mantra without Swara
कदा चन प्रयुच्छस्युभे निपासि जन्मनी । तुरीयादित्य सवनन्तऽइन्द्रियमातस्थावमृतन्दिव्या दित्येभ्यस्त्वा ॥

कदा। चन। प्र। युच्छसि। उभेऽइत्युभे। नि। पासि। जन्मनिऽइति जन्मनी। तुरीय। आदित्य। सवनम्। ते। इन्द्रियम्। आ। तस्थौ। अमृतम्। दिवि। आदित्येभ्यः। त्वा॥३॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(कदा)(चन)(प्र)(युच्छसि) अत्यन्तं प्रमाद्यसि (उभे) द्वे (नि) नितराम्(पासि)(जन्मनी) वर्तमानं प्राप्स्यमानं च (तुरीय) चतुर्थवत्। अत्रअर्शआदित्वादच्(आदित्य) विद्यया सूर्य्य इव प्रकाशमान! (सवनम्) सवति=प्रसूयतेऽनेन तत् (ते) तव (इन्द्रियम्) मन-आदिकार्यसाधकम् (आ)(तस्थौ)(अमृतम्) मरणधर्म्मरहितम् (दिवि) द्योतनात्मके व्यवहारे (आदित्येभ्यः) संवत्सरेभ्यः (त्वा) त्वां दृढेन्द्रियम् ॥ अयं मन्त्रः शत० ४ । ३ । ५ । १२ व्याख्यातः ॥३॥
Subject
पुनर्गृहस्थधर्ममाह ॥
Meaning of Anvay
अत्र नेत्यध्याहार्य्यम्।
हे पते ! त्वं यदि कदाचन न प्रयुच्छसि अत्यन्तं न प्रमाद्यसि तर्हि स्वकीये उभे द्वे जन्मनी वर्त्तमानं प्राप्स्यमानं च नि+पासि नितरां पासि ।
हे आदित्य ! विद्यया सूर्य्य इव प्रकाशमान, यदि ते=तव सवनं सवति=प्रसूयतेऽनेन तत् इन्द्रियं मन-आदिकार्यसाधकम् आतस्थौ, तर्हि दिवि द्योतनात्मके व्यवहारे अमृतं मरणधर्मरहितं प्राप्नुयाः ।
हे तुरीय ! चतुर्थवत् आदित्येभ्यः संवत्सरेभ्यः त्वा=त्वां त्वां दृढेन्द्रियम् अहमुपयच्छे ॥ ८ । ३॥
[हे पते ! त्वं यदि कदाचन न प्रयुच्छसितर्हि स्वकीये उभे द्वे जन्मनीनिपासि]
यः प्रमादी विवाहितां स्त्रियं त्यक्त्वा परस्त्रियं सेवते स इहामुत्र च दुर्भगो भवति।
[हे आदित्य ! यदि ते=तव सवनमिन्द्रियमातस्थौ तर्हि दिव्यमृतं प्राप्नुयाः]
यश्च संयमी, स्वस्त्रीसेवी, त्यक्तपरस्त्रीः स उभयत्र परमं सुखं कथं न भुञ्जीत।
[हे तुरीय ! आदित्येभ्यस्त्वा=त्वामहमुपयच्छे]
अतः सर्वांसां स्त्रीणां योग्यतास्ति--जितेन्द्रियान् पतीन् सेवेरन्निति ॥ ८ । ३ ॥
Special
आङ्गिरसः । आदित्यो गृहपति:=विद्यावान् गृहस्थः । निचृदार्षी पंक्तिः । पञ्चमः ॥