Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 8 / Mantra 29

63 Mantra
8/29
Devata- दम्पती देवते Rishi- अत्रिर्ऋषिः Chhand- भूरिक् आर्षी अनुष्टुप्, Swara- गान्धारः
Mantra with Swara
यस्यै॑ ते य॒ज्ञियो॒ गर्भो॒ यस्यै॒ योनि॑र्हिर॒ण्ययी॑। अङ्गा॒न्यह्रु॑ता॒ यस्य॒ तं मा॒त्रा सम॑जीगम॒ꣳ स्वाहा॑॥२९॥

यस्यै॑। ते॒। य॒ज्ञियः॑। गर्भः॑। यस्यै॑। योनिः॑। हि॑र॒ण्ययी॑। अङ्गा॑नि। अह्रु॑ता। यस्य॑। तम्। मा॒त्रा। सम्। अ॒जी॒ग॒म॒म्। स्वाहा॑ ॥२९॥

Mantra without Swara
यस्यै ते यज्ञियो गर्भा यस्यै योनिर्हिरण्यी । अङ्गान्यह्रुता यस्य तम्मात्रा समजीगमँ स्वाहा ॥

यस्यै। ते। यज्ञियः। गर्भः। यस्यै। योनिः। हिरण्ययी। अङ्गानि। अह्रुता। यस्य। तम्। मात्रा। सम्। अजीगमम्। स्वाहा॥२९॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(यस्य) सुलक्षणायाः स्त्रियाः । षष्ठ्यर्थे चतुर्थी(ते) तव (यज्ञियः) यो यज्ञमर्हति (गर्भ:)(यस्यै) सुभगायाः (योनिः) जन्मस्थानम् (हिरण्ययी) रोगरहिता शुद्धा (अङ्गानि) अंकितानि व्यंजकानि वा। अंगांगेति क्षिप्रनामांकितमेवाकिंतम्भवति ॥ निरु० ५ । १७ ॥(अह्रुता) अकुटिलानि सरलानि शोभनानि शेश्छन्दसि बहुलम् ॥ अ० ६ । १ । ७0 ॥ इति लुक्(यस्य)(तम्)(मात्रा) गर्भमानकर्त्र्या त्वया सह समागम्य (सम्)(अजीगमम्) सम्यक् प्राप्नुयाम् (स्वाहा) धर्म्मयुक्तया क्रियया ॥ अयं मन्त्र: शत० ४ । ४ । ३ । १०-११ व्याख्यातः ॥ २९ ॥
Essence
पुरुषेण गृहाश्रमे जितेन्द्रियता,वीर्य्यशुद्धयुन्नतिब्रह्मचर्यता सम्पादनीया, स्त्रियाप्येवं चान्यद्गर्भधारणं गर्भाशययोन्यारोग्यकरणं तद्रक्षणं च कार्य्यम् ।
[त्वयि यस्य गर्भस्याह्रुता=अकुटिलान्यङ्गानि स्युः, तं मात्रा=गर्भ मानकर्त्र्या त्वया सह स्वाहा समजीगमं=सम्यक् प्राप्नुयाम्]
परस्पराह्लादेन सन्तानोत्पादने कृते प्रशस्तरूपगुणकर्मस्वभावान्यपत्यानि जायन्त इति वेद्यम् ॥ ८ । २९॥
Subject
पुनरपि गार्हस्थ्यधर्म्मे गर्भव्यवस्थामाह॥
Meaning of Anvay
हे विवाहिते सुभगे ! अहं पतिर्यस्यै=यस्याः सुलक्षणायाः स्त्रियाः ते=तव हिरण्ययी रोगरहिता शुद्धा योनिः जन्मस्थानम् अस्ति, यस्यै=यस्याः सुभगायाः तव यज्ञियः यो यज्ञमर्हति गर्भोऽस्ति तस्यां त्वयि यस्यगर्भस्याह्रुता=अकुटिलानि अकुटिलानि=सरलानि शोभनानि अङ्गानि अङ्कतानि व्यञ्जकानि वा स्युः, तं मात्रा=गर्भमानकर्त्र्या त्वया सह गर्भमानकर्त्र्या त्वया सह समागम्य स्वाहा धर्म्मयुक्तयाक्रियया समजीगमं=सम्यक् प्राप्नुयाम् ॥८ ।२९॥
[हे विवाहिते सुभगे ! अहं पतिर्यस्यै=यस्यास्ते=तव हिरण्ययी योनिरति, यस्यै=यस्यास्तव यज्ञियो गर्भोऽस्ति]
Special
अत्रिः। दम्पती:=स्त्रीपुरुषौ । भुरिगार्युष्नुष्टुप् । गांधारः ॥