Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 8 / Mantra 28

63 Mantra
8/28
Devata- दम्पती देवते Rishi- अत्रिर्ऋषिः Chhand- भूरिक् साम्नी उष्णिक्,प्राजापत्या अनुष्टुप्, Swara- ऋषभः, गान्धारः
Mantra with Swara
एज॑तु॒ दश॑मास्यो॒ गर्भो॑ ज॒रायु॑णा स॒ह। यथा॒यं वा॒युरेज॑ति॒ यथा॑ समु॒द्रऽएज॑ति। ए॒वायं दश॑मास्यो॒ऽअस्र॑ज्ज॒रायु॑णा स॒ह॥२८॥

एज॑तु। दश॑मास्य॒ इति॒ दश॑ऽमास्यः। गर्भः॑। ज॒रायु॑णा। स॒ह। यथा॑। अ॒यम्। वा॒युः। एज॑ति। यथा॑। स॒मु॒द्रः। एज॑ति। ए॒व। अ॒यम्। दश॑मास्य॒ इति॒ दश॑ऽमास्यः। अस्र॑त्। ज॒रायु॑णा। स॒ह ॥२८॥

Mantra without Swara
एजतु दशमास्यो गर्भा जरायुणा सह । यथायँवायुरेजति यथा समुद्र एजति । एवायन्दशमास्यो ऽअस्रज्जरायुणा सह ॥

एजतु। दशमास्य इति दशऽमास्यः। गर्भः। जरायुणा। सह। यथा। अयम्। वायुः। एजति। यथा। समुद्रः। एजति। एव। अयम्। दशमास्य इति दशऽमास्यः। अस्रत्। जरायुणा। सह॥२८॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(एजतु) चलतु (दशमास्यः) दशसु मासेषु भवः (गर्भः) ग्रियते=सिच्यते गृह्यते वा स गर्भः । गर्भो गृभेर्गृणात्यर्थे । गिरत्यनर्थानिति वा यदा हि स्त्री गृणान् गृह्णाति गुणाश्चास्या गृह्यन्ते ॥ निरु० १० । २३ ॥(जरायुणा) आवरणेन (सह)(यथा)(अयम्)(वायुः)(एजति) कम्पते (यथा)(समुद्रः) उदधिः (एजति) वर्द्धते (एव) अवधारणार्थे (अयम्) वर्त्तमानः (दशमास्यः)(अस्रत्) स्रंसतोऽधः स्रवतु । लोडर्थे लुङ्(जरायुणा)(सह) । अयं मन्त्रः शत० ४ । ५ । २ । ४-९ व्याख्यातः ॥ २८ ॥
Essence
ब्रह्मचर्येण शरीरपुष्टिमनः सन्तुष्टि-विद्यावृद्धिसम्पन्नो कृतविवाहौ दम्पती यत्नेन गर्भरक्षणं कुर्यातां, यतः स दशमास्यो दशमासात् पूर्वं न स्खलेत्। यो हि दशमासादूर्ध्वं जायते स प्रायशो बलबुद्धियुक्तो भवति, तस्मात् पूर्वमुत्पद्यतेनायं तादृग्भवति ॥ ८ । २८ ॥
Subject
अथ गार्हस्थ्यधर्म्मे गर्भव्यवस्थामाह ॥
Meaning of Anvay
हे दम्पती ! यथाऽयं वायुरेजति कम्पते यथा समुद्र: उदधि: एजति वर्द्धते तथा जरायुणा आवरणेन सह दशमास्यः दशसु मासेषु भवः गर्भ: ग्रियते=सिच्यते गृह्यते वा स गर्भः एजतु=क्रमेण वर्द्धतां चलतु एवं वर्द्धमानाऽयं वर्त्तमान: जरायुणा आवरणेन सह दशमास्यः दशसु मासेषु भवः एवास्रत्=संस्रतांसंस्रतोऽधःस्रवतु ॥ ८ ।२८॥
Special
अत्रिः। दम्पती=स्त्रीपुरुषौ । एवायमित्यस्यापि साम्न्यासुर्युष्णिक्। ऋषभः । यथायमित्यस्य प्राजापत्यानुष्टुप् । गान्धार: ॥