Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 8 / Mantra 27

63 Mantra
8/27
Devata- दम्पती देवते Rishi- अत्रिर्ऋषिः Chhand- भूरिक् प्राजापत्या अनुष्टुप्,स्वराट आर्षी बृहती, Swara- मध्यमः, गान्धारः
Mantra with Swara
अव॑भृथ निचुम्पुण निचे॒रुर॑सि निचुम्पु॒णः। अव॑ दे॒वैर्दे॒वकृ॑त॒मेनो॑ऽयासिष॒मव॒ मर्त्यै॒र्मर्त्य॑कृतं पु॒रु॒राव्णो॑ देव रि॒षस्पा॑हि। दे॒वाना॑ स॒मिद॑सि॥२७॥

अव॑भृ॒थेत्यव॑ऽभृथ। नि॒चु॒म्पु॒णेति॑ निऽचुम्पुण। नि॒चे॒रुरिति॑ निऽचे॒रुः। अ॒सि॒। नि॒चु॒म्पु॒ण इति॑ निऽचुम्पु॒णः। अव॑। दे॒वैः। दे॒वकृ॑त॒मिति॑ दे॒वऽकृ॑तम्। ए॑नः। अ॒या॒सि॒ष॒म्। अव॑। मर्त्यैः॑। मर्त्य॑कृत॒मिति॒ मर्त्य॑कृतम्। पु॒रु॒राव्ण॒ इति॑ पुरु॒ऽराव्णः॑। दे॒व॒। रि॒षः। पा॒हि॒। दे॒वाना॑म्। स॒मिदिति॑ स॒म्ऽइत्। अ॒सि॒ ॥२७॥

Mantra without Swara
अवभृथ निचुम्पुण निचेरुरसि निचुम्पुणः । अव देवैर्देवकृतमेनो यासिषमव मर्त्यैर्मर्त्यकृतम्पुरुराव्णो देव रिषस्पाहि । देवानाँ समिदसि ॥

अवभृथेत्यवऽभृथ। निचुम्पुणेति निऽचुम्पुण। निचेरुरिति निऽचेरुः। असि। निचुम्पुण इति निऽचुम्पुणः। अव। देवैः। देवकृतमिति देवऽकृतम्। एनः। अयासिषम्। अव। मर्त्यैः। मर्त्यकृतमिति मर्त्यकृतम्। पुरुराव्ण इति पुरुऽराव्णः। देव। रिषः। पाहि। देवानाम्। समिदिति सम्ऽइत्। असि॥२७॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(अवभृथ) यो निषेकेण गर्भंबिभर्ति तत्सम्बुद्धौ (निचुम्पुण) नितरां मन्दगामिन् ! (निचेरुः) यो धर्म्मेण द्रव्याणि नित्यं चिनोति (असि)(निचुम्पुणः) नित्यं कमनीयः (अव) अर्वागर्थे (देवैः)विद्वद्भि: (देवकृतम्) कामिभिरनुष्ठितम् (एनः) दुष्टाचरणम्(अयासिषम्) प्राप्तवती (अव) निषेधे (मर्त्यैः) मृत्युधर्म्मैः (मर्त्यकृतम्) साधारणमनुष्याचरितम् (पुरुराव्णः) पुरवो=बहवो रावाणोऽपराधदानशीला यस्मिन् तस्मात् (देव) विजिगीषो ! (रिषः) धर्म्मस्य हिंसनात् (पाहि) रक्ष (देवानाम्) विदुषां मध्ये (समित्) सम्यग्दीप्तः (असि) ॥ अयं मन्त्र: शत० ४।४।१। २२-२३ तथा ४ । ५ । १-१६ शत० ४ । ५ । २। १-३ व्याख्यातः ॥ २७ ॥
Essence
स्त्री स्वपतिं प्रार्थयेद्यथाहं सेव्यं प्रसन्नचित्तं त्वामनुदिनमिच्छामि तथा त्वमपिमामिच्छ, स्वबलेन रक्ष च। यतोऽहं कस्यचिद् दुष्टाचरणशीलज्जनाद् दुश्चरितं कथंचिन्न प्राप्नुयां भवाँश्च नाप्नुयात् ॥ ८ । २७॥
Subject
पुनर्गृहस्थधर्म्मे स्त्रीविषयमाह ॥
Meaning of Anvay
हे अवभृथ ! यो निषेकेण गर्भंबिभर्ति तत्सम्बुद्धौ, निचुम्पुण नितरां मन्दगामिन्पते ! त्वं निचुम्पुणः नित्यं कमनीयः निचेरु: यो धर्मेण द्रव्याणि नित्यं चिनोति असि, देवानां विदुषां मध्ये समित् सम्यग्दीप्तः असि ।
हे देव ! विजिगीषो देवैः विद्वद्भिःमर्त्यैः मृत्युधर्मै: सह वर्तमानस्त्वं यद्देवकृतं कामिभिरनुष्ठितम् [मर्त्यकृतम्] साधारणमनुष्याचरितम् एन:=अपराधं दुष्टाचरणम् अहम् [अव]-अयासिषं न प्राप्तवती तस्मात् पुरुराव्ण: पुरव:=बहवो राव्ण:=अपराधदानशीला यस्मिन् तस्मात् रिषः धर्मस्य हिंसनात् मां पाहि=दूरे रक्ष ॥८ । २७॥
[हे देव !.....त्वं यद्देवकृतं [मर्त्यकृतम्] एन:=अपराधमहम् [अव] अयासिषं तस्मात् पुरुराव्णो रिषो मां पाहि=दूरे रक्ष]
Special
अत्रिः। दम्पती=स्त्रीपुरुषौ । भुरिक् प्राजापत्यानुष्टुप् । गान्धारः । अवदेवैरित्यस्य स्वराडार्षी बृहती । मध्यमः ॥